नागानन्दम् (सम्राट हर्षवर्धन - संस्कृत मूल एवं हिन्दी व्याख्या)
Nagananda Nataka of Emperor Harsha with Commentary
सम्राट हर्षवर्धन द्वारा
पृष्ठ 54, कुल 309 में से
संदर्भ में पढ़ें( २० )
विदूषकः— (विलोक्य) भो वयस्स ! पेक्ख पेक्ख । एदं खु
भो वयस्य ! प्रेक्षस्व प्रेक्षस्व ! एतत् खलु
सविसेस घण सिणिद्ध पावव विसोहिअं सुरहिहविगन्ध-
सविशेष¹घनस्निग्ध²पादपविशोभितं सुरभिहविर्गन्ध-
गब्भिदुद्दामधूमणिग्गमं अणुव्विग्गसुहणिसण्णसावअगणं
³गर्भितोद्दामधूमनिर्गममनुद्वि⁴ग्न सुखनिषण्णशावकगणं
तवोवणं विअ लक्खीअदि ।
तपोवनमिव लक्ष्यते ।
नायकः— सम्यगुपलक्षितम् । तपोवनमेवैतत् । कुतः—
वासोऽर्थं दययेव नातिपृथवः कृत्तास्तरूणां त्वचो,
भग्नानेकजर⁵त्कमण्डलु नभःस्वच्छं पयो नैर्झरम्⁶ ।
दृश्यन्ते त्रुटितोज्झिताश्च ⁷वटुभिर्मौञ्ज्याः ⁸क्वचिन्मेखल
नित्याकर्णनया शुकेन च पदं¹⁰ साम्नामिदं पठ्यते ॥११॥
तदेहि प्रविश्य विलोकयावः ।
[प्रवेशं नाटयतः]
श्लोक नं० ११, अन्वयः —
वासोऽर्थं तरूणां त्वचः दयया इव अतिपृथवः न कृत्ताः ;
नभःस्वच्छं नैर्झरं पयः भग्नानेकजरत्कमण्डलु ;
क्वचित् च मौञ्ज्यः मेखलाः वटुभिः त्रुटितोज्झिताः दृश्यन्ते ;
नित्याकर्णनया च शुकेन इदं साम्नां पदं पठ्यते ॥