सामग्री पर जाएँ
सर्वकोश
नागानन्दम् (सम्राट हर्षवर्धन - संस्कृत मूल एवं हिन्दी व्याख्या)

नागानन्दम् (सम्राट हर्षवर्धन - संस्कृत मूल एवं हिन्दी व्याख्या)

Nagananda Nataka of Emperor Harsha with Commentary

सम्राट हर्षवर्धन द्वारा

DevanagariHindipublished309 पृष्ठ

पृष्ठ 48, कुल 309 में से

संदर्भ में पढ़ें
पृष्ठ 48

( १४ )
पडिवक्खो, तस्सिं अ समासण्णट्ठिदे पहाणामच्च-
प्रतिपक्षः¹ ; तस्मिंश्च समासन्नस्थिते प्रधानामात्य -
समधिद्विदं पि ण तुए विणा रज्जं सुथिरं त्ति पडिभादि ।
समधिष्ठितमपि न त्वया विना राज्यं सुस्थिरमिति प्रतिभाति ।
नायक.- धिङ् मूर्ख ! मतङ्गो राज्यं हरिष्यतीति शङ्कसे ?
विदूषकः- अध इं ।
अथ किम् ।
नायकः-यद्येवं ततः किम् ? ननु स्वशरीरात्प्रभृति² सर्वं
परार्थमेव मया परिपाल्यते । यत्तु स्वयं न दीयते
तत्तातानुरोधात् । तत् किमनेनावस्तुनाचिन्तनेन ?
वरं ताताज्ञैवानुष्ठिता । आज्ञापितश्चास्मि तातेन
यथा 'वत्स जीमूतवाहन ! बहुदिवसपरिभोगेन³
दूरीकृतकुशकुसुमम् उपभुक्तमूलफलकन्दनीवार-
प्रायमिदं⁴ स्थानं वर्तते । तदितो मलयपर्वतं गत्वा
किञ्चित्तस्मिन्निवासयोग्यमाश्रमपदं निरूपय' इति ।
तदेहि मलयपर्वतमेव गच्छावः ।
विदूषकः-जं भवं आणावेदि एदु भवं ।
यद्भवानाज्ञापयति । एतु भवान् ।
(इत्युभौ परिक्रामतः)