नागानन्दम् (सम्राट हर्षवर्धन - संस्कृत मूल एवं हिन्दी व्याख्या)
Nagananda Nataka of Emperor Harsha with Commentary
सम्राट हर्षवर्धन द्वारा
पृष्ठ 46, कुल 309 में से
संदर्भ में पढ़ें( १२ )
विदूषक :—(आत्मगतम् ) अहो से गुरुअणसुस्सूसाणुराओ !
(विचिन्त्य)
अहो, अस्य गुरुजनशुश्रूषाऽनुरागः !
भोदु ता एदं पि दाव, अण्णं चित्त भणिस्सं । (प्रकाशं)
भवतु, तदेतदपि तावत् , अन्यदिव भणिष्यामि ।
भो वयस्स ! ण क्खु अहं रज्जसोक्खं ज्जेव केवलं
भो वयस्य ! न खल्वहं राज्यसुखमेव केवलम्—
उद्दिसिअ एवं भणामि, अण्णं पि दे करणीज्जं अत्थि ज्जेव ।
उद्दिश्य एवं भणामि, अन्यदपि ते करणीयमस्त्येव।
नायकः-(सस्मितं) वयस्य! ननु कृतमेव यत्करणीयम् । पश्य-
न्याय्ये वर्त्मनि योजिताः प्रकृतयः१, सन्तः सुखस्थापिताः
नीतो बन्धुजनस्तथात्मसमतां, राज्ये च रक्षा कृता ।
दत्तो दत्तमदोरथाधिकफलः कल्पद्रु मोऽप्यर्थिने,
किं कर्तव्यमतःपरं, कथय वा यत्ते स्थितं चेतसि ॥८॥
विदूषकः—भो वयस्स ! अचन्तसाहसिओ मदङ्गदेवहदओ दे
भो वयस्य, अत्यन्तसाहसिको मातङ्गदेवहतकस्ते२
श्लोक नं० ८, अन्वयः — (मया) प्रकृतयः न्याय्ये वर्त्मनि योजिताः ; सन्तः
सुखं स्थापिताः ; तथा बन्धुजनः आत्मसमतां नीतः ; राज्ये च
रक्षा कृता; दत्तमदोरथाधिकफलः कल्पद्रु मोऽपि अर्थिने दत्तः ।
कथय वा अतः परं (मया) किं कर्तव्यं यत् ते चेतसि स्थितम्
(अस्ति)