सामग्री पर जाएँ
सर्वकोश
नागानन्दम् (सम्राट हर्षवर्धन - संस्कृत मूल एवं हिन्दी व्याख्या)

नागानन्दम् (सम्राट हर्षवर्धन - संस्कृत मूल एवं हिन्दी व्याख्या)

Nagananda Nataka of Emperor Harsha with Commentary

सम्राट हर्षवर्धन द्वारा

DevanagariHindipublished309 पृष्ठ

पृष्ठ 282, कुल 309 में से

संदर्भ में पढ़ें
पृष्ठ 282

( २३८ )

वृद्धा-भअवदीए पसादेण ।
[¹ भगवत्याः प्रसादेन । [उभौ गौर्याः पादयोः पतित्वा नायकमालिङ्गतः]
मलयवती-(सहर्षं)-दिट्ठिआ पच्चुज्जीविदो अज्जउत्तो ।
दिष्ट्या प्रत्युज्जीवित आर्यपुत्रः ।
[गौर्याः पादयोः पतति]
नायकः-(गौरीं दृष्ट्वा बद्धाञ्जलिः) भगवति !
अभिलाषिताधिकवरदे¹ ! प्रणिपतितजनार्त्तिहारिणि² ! शरण्ये !
चरणौ नमाम्यहं ते विद्याधर देवते ! गौरि ! ॥३५॥
[इति गौर्याः पादयोः पतति]
[सर्वे ऊर्ध्वं पश्यन्ति] ।
जीमूतकेतुः-अये ! कथममश्रा. वृष्टिः ! भगवति किमेतत् ?
गौरी-राजन् जीमूतकेतो ! जीमूतवाहनं प्रत्युज्जीवयितुमेतां-
श्वास्थिशेषानुरगपतीन् समुपजातपश्चात्तापेन पक्षिपतिना
देवलोकादियममृतवृष्टिः पातिता³। (अङ्गुल्या निर्दिश्य)-
किं न पश्यति भवान्⁴ ?—
————————————————————————————
श्लोक नं०, ३५, अन्वयः— अभिलषिताधिकवरदे ! प्रणिपतितजनार्त्ति-
हारिणि ! शरण्ये ! विद्याधरदेवते ! गौरि ! अहं चरणौ ते
नमामि ।