नागानन्दम् (सम्राट हर्षवर्धन - संस्कृत मूल एवं हिन्दी व्याख्या)
Nagananda Nataka of Emperor Harsha with Commentary
सम्राट हर्षवर्धन द्वारा
पृष्ठ 280, कुल 309 में से
संदर्भ में पढ़ें( २४६ )
देवि, किमपरं रुद्यते ? तदुत्तिष्ठ चितायामारोहामः ।
[सर्वे उत्तिष्ठन्ति]
मलयवती-(बद्धाञ्जलिरूर्ध्वं पश्यन्ति)-भअवदि गौरि !
भगवति गौरि !
तुए आणत्तं जहा 'विज्जाहरचक्कवट्टी भट्ठा दे भविस्सदि' त्ति
त्वयाज्ञप्तं¹, यथा—विद्याधरचक्रवर्त्ती भर्त्ता ते भविष्यतीति ।
ता कहं मम मन्दसग्गाए किदे तुमं पि अलीअवादिणी संवुत्ता ?
तत्कथं मम मन्दभाग्यायाः ²कृते त्वमप्यलीकवादिनी संवृत्ता ?.
[ततः प्रविशति ससम्भ्रमा गौरी]
गौरी-महाराज जीमूतकेतो ! न खलु न खलु साहसम्-
नुष्ठातव्यम् ।
जीमूतकेतु :-अये कथममोघदर्शना गौरी ?
गौरी-(मलयवतीमुद्दिश्य)-वत्से कथमहमलीकवादिनी भवेयम् ?
(नायकमपसृत्य कमण्डलुजलेनाभ्युक्षन्ती)-
निजेन जीवितेनापि जगतामुपकारिणः ।
परितुष्टास्मि ते वत्स ! जीव जीमूतवाहन ॥३४॥
[नायकः उत्तिष्ठति]
जीमूतकेतु:-(सहर्षं) देवि दिष्ट्या वर्धसे ! प्रत्युज्जीवितो वत्सः।
श्लोक नं०: ३४, अन्वयः- हे वत्स जीमूतवाहन ! निजेन जीवितेनापि
जगतामुपकारिणः ते परितुष्टास्मि । जीव ।