सामग्री पर जाएँ
सर्वकोश
नागानन्दम् (सम्राट हर्षवर्धन - संस्कृत मूल एवं हिन्दी व्याख्या)

नागानन्दम् (सम्राट हर्षवर्धन - संस्कृत मूल एवं हिन्दी व्याख्या)

Nagananda Nataka of Emperor Harsha with Commentary

सम्राट हर्षवर्धन द्वारा

DevanagariHindipublished309 पृष्ठ

पृष्ठ 270, कुल 309 में से

संदर्भ में पढ़ें
पृष्ठ 270

( २४६ )
नायकः- साधु महासत्त्व ! साधु !! अनुमोदामहे । सर्वथा
दृढसमाधानो भव। (शङ्खचूडं निर्दिश्य)-शङ्खचूड !
त्वयापि स्वगृहमिदानीं गम्यताम् ।
[शङ्खचूडः निश्वस्य अधोमुखस्तिष्ठति]
नायकः- (निश्वस्य मातरं पश्यन् )-
उत्प्रेक्षमाणा त्वां तार्क्ष्यचञ्चुकोटिविपाटितम्।
त्वद्दुःखदुःखिता दुःखमास्ते सा जननी तव ॥२६॥
वृद्धा-(सास्रम् ) धण्णा क्खु सा जणणी जा गरुडमुहपडि-
धन्या खलु सा जननी, या गरुडमुखपति-
दस्स अक्खदसरोरस्स जेव्व पुत्तअस्स मुहं पेक्खस्सदि ।
तस्याक्षतशरीरस्यैव पुत्रकस्य मुखं प्रेक्षिष्यते ।
शङ्खचूडः- अम्ब ! सत्यमेवैतत् यदि कुमारः स्वस्थो भविष्यति
नायकः-(वेदनां नाटयन् ) अहह ! परार्थसम्पादनामृतरसा-
स्वादोध्दितत्वादेतावतीं वेलां मया न लक्षिताः; सम्प्रति
तु मां बाधितुमारब्धा मर्मच्छेदिन्यो वेदनाः ।
[मरणावस्थां नाटयति]
जीमूतकेतुः- (ससम्भ्रमम् )- हा वत्स ! किमेवं करोषि ?
श्लोक नं०: २६, अन्वयः-
त्वद् दुःखदुःखिता सा तव जननी त्वां तार्क्ष्यचञ्चुकोटिविपाटित-
मुत्प्रेक्षमाणा दुःखमास्ते ॥