नागानन्दम् (सम्राट हर्षवर्धन - संस्कृत मूल एवं हिन्दी व्याख्या)
Nagananda Nataka of Emperor Harsha with Commentary
सम्राट हर्षवर्धन द्वारा
पृष्ठ 266, कुल 309 में से
संदर्भ में पढ़ें( २४२ )!
मेदोऽस्थिमांसमज्जाऽसृक् सङ्घातेऽस्मिंस्त्वचावृते ।
शरीरे खलु का शोभा सदा बीभत्सदर्शने ? ॥२४॥
गरुडः— भो महात्मन् ! नरकानलज्वालावलीढमिवात्मानं
मन्यमानो दुःखं तिष्ठामि । तदुपदिश्यतां, येन
मुच्येऽहमस्मादेनसः³
नायकः— अनुजानातु मां तातः, यावदस्य पापस्य
प्रतिपत्तमुपदिशामि ।
जीमूतकेतुः— वत्स ! एवं क्रियताम् ।
नायकः— वैनतेय ! श्रूयताम् ।
गरुडः- (जानुभ्यां स्थित्वा कृताञ्जलिः) आज्ञापयतु भगवान् ,
नायकः—नित्यं प्राणाभिघातात् प्रतिविरम कुरु प्राक्कृते चानुतापं।
यत्नात् पुण्यप्रवाहं समुपचिनु दिशन् सर्वसत्त्वेष्वभीतिम् ।
मग्नं येनात्र नैनः फलति परिमित प्राणिहिंसात्तमेतद्
दुग्धापारावारेलवणपलमिव क्षिप्तमन्तर्ह्रदस्य ॥२५।
श्लोक न०: २४, अन्वयः — मेदोऽस्थिमांसमज्जाऽसृक्सङ्घाते त्वचावृते
सदा बीभत्सदर्शने अस्मिन् शरीरेः खलु का शोभा ?
श्लोक न०: २५, अन्वयः- नित्यं प्राणाभिघातात् प्रतिविरम, प्राक्कृते
चानुतापं कुरु । सर्वसत्त्वेष्वभीतिं दिशन् यत्नात् पुण्यप्रवाहं
समुपचिनु येन दुग्धापारावारेः ह्रदस्यान्तः क्षिप्तं लवणपलमिव
परिमितप्राणिहिंसात्तमेतद् एनः अत्र मग्नं न फलति ।