सामग्री पर जाएँ
सर्वकोश
नागानन्दम् (सम्राट हर्षवर्धन - संस्कृत मूल एवं हिन्दी व्याख्या)

नागानन्दम् (सम्राट हर्षवर्धन - संस्कृत मूल एवं हिन्दी व्याख्या)

Nagananda Nataka of Emperor Harsha with Commentary

सम्राट हर्षवर्धन द्वारा

DevanagariHindipublished309 पृष्ठ

पृष्ठ 264, कुल 309 में से

संदर्भ में पढ़ें
पृष्ठ 264

( २४० )
पडिहदं क्खु एदं ।
प्रतिहतं खल्वेतत् ।
जीमूतकेतुः - (सास्रमात्मगतम् )-
विलुप्तशेषाङ्गतया प्रयातान् निराश्रयत्वादिव कण्ठदेशम् ।
प्राणांस्त्यजन्तं तनयं निरीक्ष्य कथं न पापः शतधा व्रजामि? ॥२३॥
मलयवती - हा अज्जउत्त ! अदिदुक्खरकारिणी क्खु अहं जा
हा आर्यपुत्र ! अतिदुष्करकारिणी खल्वहं या
ईदिसं अज्जउत्तं पेक्खंती अज्जवि जीविअं ण परिच्चआमि ।
ईदृशमार्यपुत्रं प्रेक्षमाणापि जीवितं न परित्यजामि
वृद्धा-(नायकस्याङ्गानि स्पृशन्ती गरुडमुद्दिश्य) णिसंस !
नृशंस !
कहं दाणिं तुए एदं आपूरिअमाणाणवरूवजोव्वणसोहं
कथमिदानीं त्वया एतदापूर्यमाणनवरूपयौवनशोभं
तं ज्जेव्व एदावत्थं पुत्तअस्स मे सरीरं किदम् ?
तदेवैतदवस्थं पुत्रकस्य मे शरीरं कृतम् ?
नायकः-अम्ब ! मा मैवम् । किमनेन कृतम् ? ननु पूर्वमप्ये-
तदीदृशमेव परमार्थतः । पश्य -
श्लोक नं०: २३, अन्वयः -
विलुप्त शेषाङ्गतया निराश्रयत्वात् इव कण्ठदेशं प्रयातान् प्राणान्
त्यजन्तं तन निरीक्ष्य (अहं) पापः कथं न शतधा व्रजामि ?