सामग्री पर जाएँ
सर्वकोश
नागानन्दम् (सम्राट हर्षवर्धन - संस्कृत मूल एवं हिन्दी व्याख्या)

नागानन्दम् (सम्राट हर्षवर्धन - संस्कृत मूल एवं हिन्दी व्याख्या)

Nagananda Nataka of Emperor Harsha with Commentary

सम्राट हर्षवर्धन द्वारा

DevanagariHindipublished309 पृष्ठ

पृष्ठ 260, कुल 309 में से

संदर्भ में पढ़ें
पृष्ठ 260

( २३६ )
वृद्धा - महोराअ ! किअत्थम्हि । अक्खदसरीरस्स एव्व
महाराज ! कृतार्थास्मि । अक्षतशरीरस्यैव
पुत्तअस्स मुहं दिट्ठं ।
पुत्रकस्य मुखं दृष्टम् ।
मलयवती- अहं अज्जउतं पेक्खन्ती वि असंभावणीयं ति
अहमार्यपुत्रं प्रेक्षमाणापि असम्भावनीयमिति
करिअ ण पत्तिआमि ।
कृत्वा न प्रत्येमि ।
जीमूतकेतुः - (उपसृत्य) वत्स ! एह्येहि, परिष्वजस्व माम् ।
[ नायकः उत्थातुमिच्छन् पतितोत्तरीयो मूर्च्छति ]
शङ्खचूडः- कुमार, समाश्वसिहि, समाश्वसिहि ।
जीमूतकेतुः-- हा वत्स ! कथं मां दृष्ट्वापि परित्यज्य गतोऽसि?
वृद्धा--हा पुत्तअ ! कहं वाआमेत्तकेण वि, तुए ण संभाविदम्हि ?
हा पुत्रक ! कथं वाङ्मात्रेणापि त्वया न सम्भावितास्मि ?
मलयवती- हा अज्जउत्त ! कहं गुरुअणो वि दे ण पेक्खिदव्वो ?
हा आर्यपुत्र ! कथं गुरुजनोऽपि ते न प्रेक्षितव्यः?
(सर्वे मोहं गच्छन्ति)
शङ्खचूडः — हा शङ्खचूडहतक ! कथं गर्भ एव न विपन्नो-
ऽसि, येनैवं क्षणे क्षणे, मरणातिगं दुःखमनुभवसि ?
गरुडः - सर्वमिदं मम नृशंसस्यासमीक्ष्यकारिताया विजृम्भि-
तम् । तदेवं तावत् करोमि । (पक्षाभ्यां वीजयन् )—