नागानन्दम् (सम्राट हर्षवर्धन - संस्कृत मूल एवं हिन्दी व्याख्या)
Nagananda Nataka of Emperor Harsha with Commentary
सम्राट हर्षवर्धन द्वारा
पृष्ठ 252, कुल 309 में से
संदर्भ में पढ़ें( २२८ )
आस्तां स्वस्तिकलक्ष्म वक्षसि तनौ नालोक्यते कञ्चुको
जिह्वे जल्पत एव मे न गणिते नाम त्वया द्वे अपि ?
तिस्रस्तोत्रविषाग्निधूमपटलव्याजिह्मरत्नत्विषो
नैता दुःसहशोकफूत्कृतमरुत्स्फीताः फणाः पश्यसि? ॥१८॥
गरुडः- (उभौ निरूप्य, शङ्खचूडस्य फणां दृष्ट्वा)-तत्कः
खल्वयं मया व्यापादितः ?
शङ्खचूडः-विद्याधरवंशतिलको जीमूतवाहनः । कथमकारु-
णिकेन त्वया इदमनुष्ठितम् ?
गरुडः - (स्वगतम्) अये, अयमसौ विद्याधरकुमारो
जीमूतवाहनः !
मेरौ मन्दरकन्दरासु हिमवत्सानौ महेन्द्राचले
कैलासस्य शिलातलेषु मलयप्राग्भारदेशेष्वपि
दिक्कुञ्जेषु च तेषु बहुशो यस्य श्रुतं तन्मया
लोकालोकविचारिचारणगणैरुद्गीयमानं यशः ॥१६॥
श्लोक नं०: १८, अन्वयः—
वक्षसि स्वस्तिकलक्ष्म आस्ताम् तनौ । कञ्चुको नालोक्यते ।
जल्पत एव मे द्वे जिह्वे अपि त्वया न गणिते नाम ? तीव्रविषा-
ग्निधूमपटलव्याजिह्मरत्नत्विषः, दुःसहशोकफूत्कृतमरुत्स्फीताः
एताः तिस्रः फणाः (अपि किं त्वं) न पश्यसि ?
श्लोक नं०: १६, अन्वयः—
पश्य तत् यशः मेरौ, मन्दरकन्दरासु, हिमवत्सानौ, महेन्द्राचले,
कैलासस्य शिलातलेषु, मलयप्राग्भारदेशेषु अपि, तेषु दिक्कुञ्जेषु
च लोकालोकविचारिचारणगणैः उद्गीयमानं मया श्रुतम् ।