नागानन्दम् (सम्राट हर्षवर्धन - संस्कृत मूल एवं हिन्दी व्याख्या)
Nagananda Nataka of Emperor Harsha with Commentary
सम्राट हर्षवर्धन द्वारा
पृष्ठ 250, कुल 309 में से
संदर्भ में पढ़ें( १२६ )
1
आवर्जितं मया चञ्च्वा हृदयात्तव शोणितम् ।
अनेन धैर्येण पुनस्त्वया हृदयमेव नः ॥ १७ ॥
तत्कस्त्वमिति श्रोतुमिच्छामि ।
नायकः - एवं क्षुदुपतप्तो न श्रवणयोग्यस्त्वम् । कुरुष्व
तावन्मम मांसशोणितेन तृप्तिम् ।
शङ्खचूडः - (सहसोपसृत्य) तार्क्ष्य ! न खलु न खलु साहस-
मनुष्ठेयम् । नायं नागः । परित्यजैनम् । मां भक्षय ।
अहं तवाहारार्थं प्रेषितोऽस्मि वासुकिना ।
[इत्युरो ददाति]
नायकः-(शङ्खचूडं दृष्ट्वा सविषादमात्मगतम्) कष्टं !
विफलीकृतो मे मनोरथः शङ्खचूडेनागच्छता ।
गरुड़ः - (उभौ निरूप्य) द्वयोरपि भवतोर्वध्यचिह्नम् । कः
खलु नाग इति नावगच्छामि ।
शङ्खचूडः- अस्थान एव भ्रान्तिः ।
श्लोक न०: १७, अन्वयः-
मया चञ्च्वा तव हृदयात् शोणितम् (एव) आवर्जितम् । त्वया
पुनः अनेन धैर्येण नः हृदयमेव (आवर्जितम्) ।