सामग्री पर जाएँ
सर्वकोश
नागानन्दम् (सम्राट हर्षवर्धन - संस्कृत मूल एवं हिन्दी व्याख्या)

नागानन्दम् (सम्राट हर्षवर्धन - संस्कृत मूल एवं हिन्दी व्याख्या)

Nagananda Nataka of Emperor Harsha with Commentary

सम्राट हर्षवर्धन द्वारा

DevanagariHindipublished309 पृष्ठ

पृष्ठ 236, कुल 309 में से

संदर्भ में पढ़ें
पृष्ठ 236

( २१२ )
जीमूतकेतुः - (आकर्ण्य, सहर्षम् विहस्य) देवि ! मुञ्च
शोकम् । अस्यायं चूडामणिर्नूनं मांसलोभात् केनापि
पक्षिणा मस्ताकदुत्खायानीयमानोऽस्यां भूमौ पपात ।
वृद्धा-(सपरितोषं मलयवतीं समालिङ्ग्य)-अविधवे ! धीरा
अविधवे ! धीरा
होहि । ण क्खु ईरिसी आकिदी वेहव्वदुक्खं अणुहोदि ।
भव । न खल्वीदृशी आकृतिर्वैधव्यदुःखमनुभवति ।
मलयवती-(सहर्षम्) अम्ब ! तुम्हाणं आसिसां पभाएण ।
अम्ब ! युष्माकमाशिषां प्रभावेण ।
[पादयोः पतति]
जीमूतकेतुः--(शङ्खचूडमुपसृत्य) वत्स ! किं तव चूडा-
मणिरपहृतः ?
शङ्खचूडः- आर्य ! न ममैकस्य, त्रिभुवनस्यापि ।
जीमूतकेतुः - कथमिव ?
शङ्खचूडः- दुःखातिभाराद्वाष्पोपरुध्यमानकण्ठो न शक्नोमि
कथयितुम् ।
जीमूतकेतुः-आवेदय ममात्मीयं पुत्र ! दुःखं सुदुःसहम् ।
मयि सङ्क्रान्तमेतत्ते येन सह्यम् भविष्यति ॥१०॥
श्लोक नं० : १०, अन्वयः-
पुत्र ! आत्मीयं सुदुःसहं दुःखं मम आवेदय, येन मयि
सङ्क्रान्तम् एतत् सह्यं भविष्यति ।