सामग्री पर जाएँ
सर्वकोश
नागानन्दम् (सम्राट हर्षवर्धन - संस्कृत मूल एवं हिन्दी व्याख्या)

नागानन्दम् (सम्राट हर्षवर्धन - संस्कृत मूल एवं हिन्दी व्याख्या)

Nagananda Nataka of Emperor Harsha with Commentary

सम्राट हर्षवर्धन द्वारा

DevanagariHindipublished309 पृष्ठ

पृष्ठ 234, कुल 309 में से

संदर्भ में पढ़ें
पृष्ठ 234

( २१० )
तन्नाहमेवंविधः क्षणमपि जीवन्नुपहास्यमात्मानं करोमि ।
यावदेतदनुगमनं प्रति यतिष्ये । [परिक्रामन्, भूमौ दत्तदृष्टिः]-
आदावुत्पीडपृथ्वीं प्रविरलपतितां स्थूलबिन्दुं ततोऽग्रे,
ग्रावस्वापातशीर्णप्रसृततनुकणां कीटकीर्णां स्थलीषु ।
दुर्लक्ष्यां धातुभित्तौ घनतरुशिखरे स्त्याननीलस्वरूपा-
मेनां तार्क्ष्यं दिदृक्षुर्निपुणमनुसरन् रक्तधारां व्रजामि ॥६॥
वृद्धा-(ससाध्वसम् ) - महाराअ ! एसो ससोओ विअ रुदि-
महाराज ! एष सशोक इव रुदि-
दवअणो इदो जेव्व तुरिदं आअच्छंतो हिअअं मे आ-
तवदन इत इव त्वरितमागच्छन् हृदयं मे आ-
कुलीकरेदि । ता जाणीअदु दाव को एसो त्ति ।
कुलीकरोति । तज्ज्ञायतां तावत्क एष इति ।
जीमूतकेतुः — यथाह देवी ।
शङ्खचूडः-(साक्रन्दम्)-हा त्रिभुवनैकचूडामणे ! क्व मया
द्रष्टव्योऽसि । मुषितोऽस्मि भो मुषितोऽस्मि ।
श्लोक नं०: ६, अन्वयः-
(या) आदौ उत्पीडपृथ्वीं, ततोऽग्रे प्रविरलपतितां स्थूलबिन्दुं,
ग्रावस्वापातशीर्णप्रसृततनुकणां, स्थलीषु कीटकीर्णां, धातुभित्तौ
दुर्लक्ष्यां, घनतरुशिखरे स्त्याननीलस्वरूपां एनां रक्तधारां
निपुणम् अनुसरन् (अहं) तार्क्ष्यं दिदृक्षुः व्रजामि ।