सामग्री पर जाएँ
सर्वकोश
नागानन्दम् (सम्राट हर्षवर्धन - संस्कृत मूल एवं हिन्दी व्याख्या)

नागानन्दम् (सम्राट हर्षवर्धन - संस्कृत मूल एवं हिन्दी व्याख्या)

Nagananda Nataka of Emperor Harsha with Commentary

सम्राट हर्षवर्धन द्वारा

DevanagariHindipublished309 पृष्ठ

पृष्ठ 228, कुल 309 में से

संदर्भ में पढ़ें
पृष्ठ 228

( २०४ )
जीमूतकेतुः — (वामाक्षिरुस्पन्दनं सूचयन्)— जीमूतवाहन-
श्चिरयतीति पर्याकुलोऽस्मि हृदयेन ।—
स्फुरसि किमु दक्षिणेतर ! मुहुर्मुहुः सूचयन्ममानिष्टम् ।
हतचक्षुरपहतं ते स्फुरितं, मम पुत्रकः कुशली ॥ ४ ॥
(ऊर्ध्वमवलोक्य) अयमसौ त्रिभुवनैकचक्षुर्भगवान्
सहस्रदीधितिः स्फुटं जीमूतवाहनस्य श्रेयः करिष्यति ।
(अवलोक्य सविस्मयम्)—
आलोक्यमानमतिलोचनदुःखदायि,
रक्तच्छटा निजमरीचिरुचो¹ विमुञ्चत् ।
उत्पातवाततरलीकृततारकाभ-
मेतत्पुरः पतति किं सहसा नभस्तः ? ॥ ५ ॥
कथं चरणयोरेव पतितम् ? [सर्वे सविस्मयं निरूपयन्ति]
जीमूतकेतुः— अये ! कथं लग्नसरसमांसकेशचूडामणिः² !
कस्य पुनरयं स्यात् ?
श्लोकः नं०: ४, अन्वयः —
हतचक्षुः दक्षिणेतर ! मुहुः मुहुः मम अनिष्टं सूचयन् किमु
स्फुरसि ! ते स्फुरितम् अपहतम् ! मम पुत्रकः कुशली !!
श्लोक नं०: ५, अन्वयः —
आलोक्यमानम् अतिलोचनदुःखदायि, निजमरीचिरुचः रक्त-
च्छटाः विमुञ्चत् , उत्पातवाततरलीकृततारकाभम् एतत् नभस्तः
पुरः सहसा किं पतति ?