सामग्री पर जाएँ
सर्वकोश
नागानन्दम् (सम्राट हर्षवर्धन - संस्कृत मूल एवं हिन्दी व्याख्या)

नागानन्दम् (सम्राट हर्षवर्धन - संस्कृत मूल एवं हिन्दी व्याख्या)

Nagananda Nataka of Emperor Harsha with Commentary

सम्राट हर्षवर्धन द्वारा

DevanagariHindipublished309 पृष्ठ

पृष्ठ 212, कुल 309 में से

संदर्भ में पढ़ें
पृष्ठ 212

( १८८ )
कञ्चुकी—इदं वासोयुगं देव्या मित्रवसुजनन्या कुमाराय
प्रेषितम् । तदेतत् परिधत्तां कुमारः ।
नायकः-(सादरम् ) उपनय ।
कञ्चुकी—(उपनयति)
नायकः-(गृहीत्वात्मगतम्) सफलीभूतो मे मलयवत्याः
पाणिग्रहः । (प्रकाशम्) कञ्चुकिन् ! गम्यतां,
मद्वचनादभिवादनीया देवी ।
कञ्चुकी—यदाज्ञापयति कुमारः । [इति निष्क्रान्तः]
नायकः-वासोयुगमिदं रक्तं प्राप्ते काले समागतम् ।
महतीं प्रीतिमाधत्ते परार्थे देहमुज्झतः ॥२१॥
(दिशोऽवलोक्य) यथायं चलितमलयाचलशिखरशिला-
सञ्चयः प्रचण्डो ¹ नभस्वाँस्तथो तर्कयाम्यासन्नीभूतः
खलु पत्तिगज इति । तथा हि—
श्लोक नं० : २१, अन्वयः—
प्राप्ते काले समागतम् इदं रक्तम् वासोयुगं
परार्थे देहमुज्झतः (मम) महतीं प्रीतिम् आधत्ते ।