सामग्री पर जाएँ
सर्वकोश
नागानन्दम् (सम्राट हर्षवर्धन - संस्कृत मूल एवं हिन्दी व्याख्या)

नागानन्दम् (सम्राट हर्षवर्धन - संस्कृत मूल एवं हिन्दी व्याख्या)

Nagananda Nataka of Emperor Harsha with Commentary

सम्राट हर्षवर्धन द्वारा

DevanagariHindipublished309 पृष्ठ

पृष्ठ 208, कुल 309 में से

संदर्भ में पढ़ें
पृष्ठ 208

( १८४ )
अयमभ्युपायः । तदर्पय त्वरितं वध्यचिह्नं, यावदने-
नात्मानं प्रच्छाद्य वध्यशिलामारोहामि । त्वमपि जननीं
पुरस्कृत्यास्माद्देशान्निवर्त्तस्व कदाचिदम्बावलोक्य सन्नि-
कृष्टं घातस्थानं स्त्रीस्वभावकातरत्वेन जीवितं जह्यात् ।
किं न पश्यति भवानिदं विपन्नपन्नगानेककङ्कालसङ्कुलं
महाश्मशानम् ? तथा हि, —
चञ्चच्चञ्चूद्धृतार्धच्युतपिशितलवग्राससंवृद्धगन्धै-
र्गृध्रैरारब्धपक्षद्वितयविधुतिभिर्बद्धसान्द्रान्धकारे ।
वक्त्रोद्धान्ताः पतन्त्यश्छमिति शिखिशिखाश्रेणयोऽस्मिञ्छिवाना-
मस्रस्रोतस्यजस्रस्रुतबहलवसावासविस्रे स्वनन्ति ॥ १८ ॥
शङ्खचूडः — कथं न पश्यामि ? —
प्रतिदिनमहिनाहारेण विनायकाहिप्रीति ।
शशिधवलास्थिकपालं वपुरिव रौद्रं श्मशानमिदम् ॥ १९ ॥
श्लोक नं०: १८, अन्वयः—
चञ्चच्चञ्चूद्धृतार्धच्युतपिशितलवग्रास संवृद्धगन्धैः गृध्रैः
व्याबद्धपक्षद्वितयविधूतिभिः बद्धसान्द्रान्धकारे अस्मिन् (श्मशाने)
अजस्रस्रुतबहलवसावासविस्रे अस्रस्रोतसि शिवानां
वक्त्रोद्धान्ताः शिखिशिखाश्रेणयः शमिति पतन्ति ।
श्लोक नं०: १९, अन्वयः —
प्रतिदिनमहिना आहारेण विनायकाहितप्रीति इदं श्मशानं
शशिधवलास्थिकपालं रौद्रम् वपुरिव ॥