सामग्री पर जाएँ
सर्वकोश
नागानन्दम् (सम्राट हर्षवर्धन - संस्कृत मूल एवं हिन्दी व्याख्या)

नागानन्दम् (सम्राट हर्षवर्धन - संस्कृत मूल एवं हिन्दी व्याख्या)

Nagananda Nataka of Emperor Harsha with Commentary

सम्राट हर्षवर्धन द्वारा

DevanagariHindipublished309 पृष्ठ

पृष्ठ 204, कुल 309 में से

संदर्भ में पढ़ें
पृष्ठ 204

( १८० )
वृद्धा- (कर्णौ विधाय) पडिहदं अमंगलं । तुमं पि संखचूड-
प्रतिहतममङ्गलम् । त्वमपि शङ्खचूड-
णिव्विसेसो पुत्तो । अहवा संखचूड़ादो वि अहिअअरो,
निर्विशेषः^१ - पुत्रः । अथवा शङ्खचूड़ादप्यधिकतरः
जो एवं बंधुजणपरिच्चत्तं वि पुत्तअं मे सरीरपदाणेण
य एवं बन्धुजनपरित्यक्तमपि पुत्रकं मे शरीरप्रदानेन
रक्खिदुमिच्छसि ।
रक्षितुमिच्छसि ।
शङ्खचूडः -अहो ! जगद्विपरीतमस्य महासत्त्वस्य चरितम् । कुतः
विश्वामित्रः श्वमांसं श्वपच^२ इव पुराभक्षयद्यन्निमित्तं,
नाडीजङ्घो निजघ्ने^३ कृततदुपकृतिर्यत्कृते गौतमेन ।
पुत्रोऽयं काश्यपस्य प्रतिदिनमुरगानत्ति तार्क्यो यदर्थं,
प्राणांस्तानेष साधुस्तृणमिव कृपया यः परार्थं ददाति ॥१५
(नायकमुद्दिश्य) - भो महासत्त्व ! त्वया दर्शितेवात्मप्रदान-
व्यवसायान्निर्व्याजा मयि कृपालुता । तदलमनेन
निर्बन्धेन । पश्य-
श्लोक नं० १५, अन्वयः -
यन्निमित्तं विश्वामित्रः श्वपच इव पुरा श्वमांसं अभक्षयत् ,
यत्कृते गौतमेन कृततदुपकृतिः नाडीजङ्घो निजघ्ने,
यदर्थं काश्यपस्य अयं पुत्रः तार्क्ष्यः प्रतिदिनम् उरगान् अत्ति,
तान् प्राणान् यः एष साधुः कृपया परार्थं तृणमिव ददाति ।