नागानन्दम् (सम्राट हर्षवर्धन - संस्कृत मूल एवं हिन्दी व्याख्या)
Nagananda Nataka of Emperor Harsha with Commentary
सम्राट हर्षवर्धन द्वारा
पृष्ठ 202, कुल 309 में से
संदर्भ में पढ़ेंशङ्खचूड़ः—अम्ब ! ¹अलं त्रासेन । न खल्वयं नागशत्रुः । पश्य-
²
महाहिमस्तिष्कविभेदमुक्तरक्तच्छटाचर्चितचण्डचञ्चुः ।
क्वासौ गरुत्मान् ? क्व च नाम सौम्यस्वभावरूपाकृतिरेष साधुः ॥१३॥
वृद्धा - अह क्खु तुज्झ मरणभीआ सव्वं जेव्व लोअं गलुडमयं
अहं खलु तव मरणभीता सर्वमेव लोकं गरुड़मयं³
पेक्खामि ।
प्रेक्षे ।
नायकः—अम्ब ! मा भैषीः । नन्वयमहं विद्याधरस्त्वत्सुत-
संरक्षणार्थमेवायातः ।
वृद्धा—(सहर्षम्) पुत्तअ ! पुणो पुणो एव्वं भण ।
पुत्रक ! पुनः पुनरेवं भण । 4
नायकः—अम्ब ! किं पुनःपुनरभिहितेन ? ननु कर्मणैव सम्पादयामि
वृद्धा—(शिरस्यञ्जलिं बद्ध्वा) पुत्तअ ! चिरं जीव ।
पुत्रक ! चिरं जीव ।
नायकः—ममैतदर्पय वध्यचिह्नं प्रावृत्य यावद्विनतात्मजाय ।
पुत्रस्य ते जीवितरक्षणाय स्वदेहमाहारयितुं ददामि ॥१४॥
श्लोक नं०: १३, अन्वयः—
क्व महाहिमस्तिष्कविभेदमुक्तरक्तच्छटाचर्चितचण्डचञ्चुः
असौ गरुत्मान् ? क्व च नाम सौम्यस्वभावरूपाकृतिः एष साधुः ?
श्लोक नं०: १४, अन्वयः—
अम्ब ! एतद् वध्यचिह्नं मम अर्पय; यावद् (अनेन) प्रावृत्य,
ते पुत्रस्य जीवितरक्षणाय, विनतात्मजाय आहारयितुं स्वदेहं ददामिः