नागानन्दम् (सम्राट हर्षवर्धन - संस्कृत मूल एवं हिन्दी व्याख्या)
Nagananda Nataka of Emperor Harsha with Commentary
सम्राट हर्षवर्धन द्वारा
पृष्ठ 196, कुल 309 में से
संदर्भ में पढ़ें°( १७० ).
मालापः। कदाचिदत एवास्याभिव्यक्तिर्भविष्यति।
तद्विटपान्तरितस्तावच्छृणोमि [ तथा करोति ]
किङ्करः-(सास्रम् कृताञ्जलिः) कुमाल संखचूड ! एसो
कुमार शङ्खचूड ! 'एष
सामिणो आदेशो त्ति करित्र ईरिसं णिट्ठुरं मन्तीयदि ।
स्वामिन आदेश' इति कृत्वा ईदृशं निष्ठुरं मन्त्र्यसे ।
शङ्खचूडः- भद्र ! कथय ।
किङ्करः- नागलाओ वासुई आणवेदि—
नागराजो वासुकिराज्ञापयति—
शङ्खचूडः-(शिरस्यञ्जलिं बद्ध्वा सादरम्) किमाज्ञापयति देवः?
किङ्करः- 'एदं लत्तंसुअजुअलं परिहित्र आलुह वज्झसिलं
इदं रक्तांशुकयुगलं परिधाय आरोह वध्यशिलां,
जेण लत्तंसुअं उवलक्खित्र गलुडो आहालइस्सदित्ति।
येन रक्तांशुकमुपलक्ष्य¹ गरुड़ आहारयिष्यति इति ।
नायकः — (श्रुत्वा) कथमसौ वासुकिना परित्यक्तः ?
किङ्करः— कुमाल ! गेण्ह एदं वसणजुअलं ।
कुमार ! गृहाणैतद्वसनयुगलम् । [ इत्यर्पयति ]
शङ्खचूडः-(सादरम्) उपनय । (गृहीत्वा) शिरसि स्वाम्यादेशः।
वृद्धा- (पुत्रस्य हस्ते वाससी दृष्ट्वा सोरस्ताडम्) हा वच्छ !
हा वत्स !
एदं क्खु वज्जपाडसणिहं संभावीयदि ।
इदं खलु वज्रपातसन्निभं सम्भाव्यते [मोहं गता]