नागानन्दम् (सम्राट हर्षवर्धन - संस्कृत मूल एवं हिन्दी व्याख्या)
Nagananda Nataka of Emperor Harsha with Commentary
सम्राट हर्षवर्धन द्वारा
पृष्ठ 178, कुल 309 में से
संदर्भ में पढ़ें( १४८ )
संसर्पद्भिः समन्तात्कृतसकलवियन्मार्गयानैर्विमानैः
कुर्वाणाः प्रावृषीव स्थगितरविरुचः श्यामतां वासरस्य
एते याताश्च सद्यस्तव वचनमितः प्राप्य युद्धाय सिद्धाः,
सिद्धश्वोद्वृत्तशत्रुक्षयभयविनमद्राजकं ते स्वराज्यम् ॥१५॥
अथवा किं बलौघैः —
एकाकिनाऽपि हि मया रभसाऽवकृष्ट-
निस्त्रिंशदीधितिसटाभरभासुरेण।
आरान्निपत्य हरिणेव मतङ्गजेंद्र-
माजौ मतङ्गहतकं हतमेव विद्धि ॥ १६ ॥
नायकः-(कर्णौ पिधाय आत्मगतम् ) अहह दारुणमभिहितम् ।
अथवा एवं तावत् । (प्रकाशम्) मित्रावसो कियदेतत् ?
बहुतरमतोपि बाहुशालिनि त्वयि सम्भाव्यते ।
श्लोक नं०: १५, अन्वयः —
समन्तात् संसर्पद्भिः कृतसकलवियन्मार्गयानैः विमानैः
प्रावृषीव स्थगितरविरुचः वासरस्य श्यामतां कुर्वाणाः
एते सिद्धाः तव वचनं प्राप्य इतः युद्धाय सद्यः याताश्च
उद्वृत्तशत्रुक्षयभयविनमद्राजकं ते स्वराज्यं सिद्धञ्च ॥
श्लोक नं०: १६, अन्वयः —
एकाकिनापि हि रभसावकृष्ट-निस्त्रिंशदीधितिसटाभरभासुरेण
मया आरात् निपत्य हरिणा इव मतङ्गजेंद्रम् आजौ मतङ्गहतकं
हतमेव विद्धि ।