नागानन्दम् (सम्राट हर्षवर्धन - संस्कृत मूल एवं हिन्दी व्याख्या)

नागानन्दम् (सम्राट हर्षवर्धन - संस्कृत मूल एवं हिन्दी व्याख्या)
Nagananda Nataka of Emperor Harsha with Commentary
सम्राट हर्षवर्धन द्वारा
DevanagariHindipublished309 पृष्ठ
पृष्ठ 176, कुल 309 में से
संदर्भ में पढ़ेंपृष्ठ 176(१४६)
(१४६)
मित्रावसुः-अनिहत्य तं सपत्नं कथमिव जीमूतवाहनस्याहम् ।
कथयिष्यामि हतं तव राज्यं रिपुणेति निर्लज्जः ? ॥१४॥
अनिवेद्य च न युक्तं गन्तुमिति निवेद्य गच्छामि ।
(इत्युपसर्पति)
नायकः-(मित्रवसुं दृष्ट्वा) - मित्रावसो ! इत आस्यताम् ।
मित्रावसुः— (उपविशति )
नायकः — (निरूप्य)— मित्रावसो ! संरब्ध ¹ इव लक्ष्यसे
मित्रावसुः — कः खलु मतङ्गेहतके ² संरम्भः ?
नायक — किं कृतं मतङ्गेन ?
मित्रावसुः- स्वनाशाय किल युष्मदीयं राज्यमाक्रान्तम् ।
नायकः— (सहर्षमात्मगतम् ) अपि नाम सत्यमेतत्स्यात् !
मित्रावसुः — अतस्तदुच्छित्तये आज्ञां दातुमर्हति कुमारः ।
किं बहुना ?–
श्लोक नं० : १४, अन्वयः—
जीमूतवाहनस्य तं सपत्नम् अनिहत्य अहं निर्लज्जः कथं
कथयिष्यामि (यत् ) तव राज्यं रिपुणा हतम् इति ।