सामग्री पर जाएँ
सर्वकोश
नागानन्दम् (सम्राट हर्षवर्धन - संस्कृत मूल एवं हिन्दी व्याख्या)

नागानन्दम् (सम्राट हर्षवर्धन - संस्कृत मूल एवं हिन्दी व्याख्या)

Nagananda Nataka of Emperor Harsha with Commentary

सम्राट हर्षवर्धन द्वारा

DevanagariHindipublished309 पृष्ठ

पृष्ठ 172, कुल 309 में से

संदर्भ में पढ़ें
पृष्ठ 172

( १४२ )
चेटी- णं वञ्चिणादोसि ।
ननु वञ्चितोऽसि ।
विदूषकः- (हस्तेन मुखं प्रमृज्य हस्तं दृष्ट्वा सरोषं दण्डकाष्ठमुद्यम्य)
आः दासीए धीए ! राअउलं क्खु एदं । किं क्ख करिस्सं ?
आः दास्याः पुत्रि ! राजकुलं खल्वेतत् । किं तव करिष्यामि ?
(नायकमुद्दिश्य) भो ! तुम्हाणं पुरदो एव्व अहं दासीए-
भो ! युवयोः पुरत एवाहं दास्याः-
धीआए खलीकिदो । ता किं मम इध ट्ठिदेण ? अण्णदो
पुत्र्या खलीकृतः¹ । तत्किं ममेह स्थितेन ? अन्यतो
गमिस्सं ।
गमिष्यामि । [निष्क्रामति]
चेटी-कुविदो मे अज्जअत्तेओ, जाव णं गदुअ पसादइस्सं ।
कुपितो मे आर्यात्रेयः, यावदेनं गत्वा प्रसादयिष्यामि ।
[गन्तुमिच्छति]
नायिका-हञ्जे चदुरिए ! कहं मं एआइणीं उज्झिअ
हञ्जे चतुरिके ! कथं मामेकाकिनीमुज्झित्वा
गच्छसि ?
गच्छसि ?
चेटी-(नायकमुद्दिश्य सस्मितम् ) एव्वं एआइणी चिरं होहि ।
एवमेकाकिनी चिरं भव ।
[इति निष्क्रान्ता]