नागानन्दम् (सम्राट हर्षवर्धन - संस्कृत मूल एवं हिन्दी व्याख्या)
Nagananda Nataka of Emperor Harsha with Commentary
सम्राट हर्षवर्धन द्वारा
पृष्ठ 170, कुल 309 में से
संदर्भ में पढ़ें( १४० )
विदूषकः - ( तथा करोति )
चेटी - (स्वगतम्)- जाव एसो णिमीलिअअच्छो चिट्ठदि
यावदेष निमीलिताक्षस्तिष्ठति,
दाव णीलरसाणुआरिणा तमालपल्लवरसेण मुहं से
तावन्नीलरसानुकारिणा तमालपल्लवरसेन मुखमस्य
कालीकरिस्सं ।
कालीकरिष्यामि ।
[उत्थाय तमालपल्लवग्रहणं तन्निपीडनं च नाटयति ।
नायको नायिका च विदूषकं पश्यतः।]
नायकः- वयस्य ! धन्यः खल्वसि, योऽस्मासु १ तिष्ठत्सु
त्वमेवं वर्ण्यसे ।
[ चेटी तमालरसेन विदूषकस्य मुखं कालीकरोति, ]
नायिका--[सस्मितं विदूषकं दृष्ट्वा नायकं पश्यति]
नायकः-(नायिकामुखं दृष्ट्वा)-
स्मितपुष्पोद्गमोऽयं ते दृश्यतेऽधरपल्लवे ।
२ फलं त्वन्यत्रमुग्धाक्षि ! चक्षुषोर्मम पश्यतः ३ ॥ १२ ॥
विदूषकः - भो दे ! किं तुए किदं ?
भवति ! कि त्वया कृतम् ?
श्लोक नं : १२, अन्वयः-
(हे) मुग्धाक्षि ! अधरपल्लवे तेऽयं स्मितपुष्पोद्गमो दृश्यते ।
(परमस्य पुष्पोद्गमस्य) फलं तु अन्यत्र पश्यतः मम चक्षुषोः (जातम्) ।