नागानन्दम् (सम्राट हर्षवर्धन - संस्कृत मूल एवं हिन्दी व्याख्या)
Nagananda Nataka of Emperor Harsha with Commentary
सम्राट हर्षवर्धन द्वारा
पृष्ठ 168, कुल 309 में से
संदर्भ में पढ़ें( १३८ )
चेटी-(सस्मितं विदूषकं निर्दिश्य)
सुदं तुए, भद्दिदारिआ कहं वण्णिदेत्ति ।
श्रुतं त्वया; भर्तृदारिका कथं वर्णितेति ।
विदूषकः- (सस्मितम् ) चउरिए ! मा एवं गव्वं उव्वह ।
चतुरिके ! मैवं गर्वमुद्वह ।
अम्हाणं पि मज्झे दंसणीओ जणो अत्थि एव्व ।
अस्माकमपि मध्ये दर्शनीयो जनोऽस्त्येव ।
केवलं मच्छरेण को वि ण वण्णेदि ।
केवलं मत्सरेण कोऽपि न वर्णयति ।
चेटी-(सस्मितम्) अज्ज ! अहं तुमं वण्णामि ।
आर्य ! अहं त्वां वर्णयामि¹ ।
विदूषकः- (सहर्षम्) भोदि ! जीविदोम्हि । ता करेदु भोदि
भवति ! 'जीवितोऽस्मि । तत्करोतु भवती
पसादं, जेण एसो मं पुणोवि ण भणादि, जहा-
प्रसादं, येनैष मां पुनरपि न भणति, यथा-
तुमं ईदिसो तादिसो कविलमंकडाआरो त्ति ।
त्वमीदृशस्तादृशः कपिङ्गलमर्कटाकार इति ।
चेटी- अज्ज ! तुमं मए विआहजाअरणे णिद्दाअमाणो
आर्य ! त्वं मया विवाहजागरणे निद्रायमाणो
णिमीलिअ अच्छो सोहणो दिट्ठो । ता तह ज्जेव्व चिट्ठ,
निमीलिताक्षः शोभनो दृष्टः । तत्तथैव तिष्ठ,
जेण वण्णेमि ।
येन वर्णयामि ।