सामग्री पर जाएँ
सर्वकोश
नागानन्दम् (सम्राट हर्षवर्धन - संस्कृत मूल एवं हिन्दी व्याख्या)

नागानन्दम् (सम्राट हर्षवर्धन - संस्कृत मूल एवं हिन्दी व्याख्या)

Nagananda Nataka of Emperor Harsha with Commentary

सम्राट हर्षवर्धन द्वारा

DevanagariHindipublished309 पृष्ठ

पृष्ठ 164, कुल 309 में से

संदर्भ में पढ़ें
पृष्ठ 164

( १३२ )

नायकः- (विलोक्य) अहो नु कुसुमाकरोद्यानस्य परा श्रीः ! इह हि-
निष्यन्दश्चन्दनानां शिशिरयति लतामण्डपे ^1कुट्टिमान्तान्,
आराद् धारागृहाणां ^2 ध्वनिमनु तनुते ताण्डवं नीलकण्ठः।
यन्त्रोन्मुक्तश्च वेगाच्चलति विटपिनां पूरयन्नालवालान्,
आपातोत्पीडहेलाहृतकुसुमरजः ^3पिञ्जरोऽयं जलौघः ॥७॥
अपि च-
अमी गीतारम्भैर्मुखरितलतामण्डपभुवः,
परागैः पुष्पाणां ^4प्रकटपटवास^5व्यतिकराः
पिबन्तः पर्याप्तं सह सहचरीभिर्मधुरसं,
समन्तादापानोत्सवमनुभवन्तीह मधुपाः ॥८॥
विदूषकः- (उपसृत्य) जेदु जेदु भवं । सोत्थि भोदिए ।
जयतु जयतु भवान् । स्वस्ति भवत्यै ।

श्लोक नं०: ७, अन्वयः-
चन्दनानां निष्यन्दः लतामण्डपे कुट्टिमान्तान् शिशिरयति; आराद्
धारागृहाणां ध्वनिमनु नीलकण्ठः ताण्डवं तनुते । यन्त्रोन्मुक्तश्च
आपातोत्पीडहेलाहृतकुसुमरजः पिञ्जरोऽयं जलौघः विटपिनाम्
आलवालान् पूरयन् वेगात् चलति ।
श्लोक नंः ८, अन्वयः-
गीतारम्भैः मुखरितलतामण्डपभुवः,
पुष्पाणां परागैः प्रकटपटवासव्यतिकराः,
सहचरीभिः सह पर्याप्तं मधुरसं पिबन्तः,
अमी मधुपाः इह समन्ताद् आपानोत्सवम् अनुभवन्ति ।