सामग्री पर जाएँ
सर्वकोश
नागानन्दम् (सम्राट हर्षवर्धन - संस्कृत मूल एवं हिन्दी व्याख्या)

नागानन्दम् (सम्राट हर्षवर्धन - संस्कृत मूल एवं हिन्दी व्याख्या)

Nagananda Nataka of Emperor Harsha with Commentary

सम्राट हर्षवर्धन द्वारा

DevanagariHindipublished309 पृष्ठ

पृष्ठ 162, कुल 309 में से

संदर्भ में पढ़ें
पृष्ठ 162

( १३० )
पिअंपि भणितुं जाणादि ।
प्रियमपि भणितुं जानाति ।
चेटी - (विहस्य) अयि पडिपक्खवादिणि ! सच्चं जेव एदं,
अयि ¹प्रतिपक्षवादिनि ! सत्यमेवैतत् ।
किं एत्थ पिअवअणं ?
किमत्र प्रियवचनम् ?
नायकः—चतुरिके ! आदेशय मार्गं कुसुमाकरोद्यानस्य ।
चेटी - एदु एदु भट्टा ।
एतु एतु भर्त्ता ।
नायकः-(परिक्रामन्नायिकां निर्दिश्य) स्वैरं स्वैरमागच्छतु भवती ।
खेदाय स्तनभार एव, किमु ते मध्यस्य हारोऽपरः ?
²ताम्यत्यूरयुगं नितम्बभरतः, काञ्च्याऽनया किं पुनः ?
शक्तिः पादयुगस्य नोरुयुगलं वोढुं, कुतो नूपुरौ ?
स्वाङ्गैरैव विभूषिताऽसि, वहसि क्लेशाय किं मण्डनम् ? ॥६॥
चेटी-एदं क्खु तं कुसुमाअरुज्जाणं ता पविसदु भट्टा
एतत्खलु तत्कुसुमाकरोद्यानम् । तत्प्रविशतु भर्त्ता ।
[सर्वे प्रविशन्ति]
श्लोक नं०: ६, अन्वयः -
स्तनभार एव ते मध्यस्य खेदाय, किमु अपरः हारः ?
नितम्बभरतः (एव) ऊरुयुगं ताम्यति, अनया काञ्च्या पुनः किम् ?
ऊरुयुगलं वोढुं पादयुगस्य शक्तिः न, कुतो नूपुरौ ? स्वाङ्गैः एव
विभूषिताऽसि, (तत् ) क्लेशाय मण्डनं कि वहसि ?