सामग्री पर जाएँ
सर्वकोश
नागानन्दम् (सम्राट हर्षवर्धन - संस्कृत मूल एवं हिन्दी व्याख्या)

नागानन्दम् (सम्राट हर्षवर्धन - संस्कृत मूल एवं हिन्दी व्याख्या)

Nagananda Nataka of Emperor Harsha with Commentary

सम्राट हर्षवर्धन द्वारा

DevanagariHindipublished309 पृष्ठ

पृष्ठ 152, कुल 309 में से

संदर्भ में पढ़ें
पृष्ठ 152

( १२० )

... ! उट्ठेहि पसण्णा दे अहं । (कण्ठे गृह्णाति) एसो
...खरक ! उत्तिष्ठ । प्रसन्ना तेऽहम् । एष
उण जामाउअस्स पिअवअस्सो तुए खलीकीदो। एव्वञ्च
पुनर्जामातुः प्रियवयस्यस्त्वया खलीकृतः १ । एवञ्च
सुणिअ कदावि भट्टा मित्तावसू तव कुप्पइ । ता आदरेण
श्रुत्वा कदापि भर्ता मित्रावसुस्तुभ्यं कुप्यति । तदादरेण
सम्माणेहि एणं ।
सम्मानयैनम् ।
विटः-जं णोमालिआ आणवेदि । (विदूषकं कण्ठे गृहीत्वा)
यन्नवमालिकाज्ञापयति ।
अज्ज ! तुमं मए सम्बन्धिओ त्ति करिअ परिहसिदो ।
आर्य ! त्वं मया सम्बन्धीति कृत्वा परिहसितः ।
(घूर्णन्) किं सच्चं ज्जेव्व सेहरओ मत्तो किदो परिहासो ।
किं सत्यमेव शेखरको मत्तः ? कृतः २ परिहासः ।
(उत्तरीयं वर्तुलीकृत्य आसनं ददाति) इध उबविसदु सम्बन्धिओ ।
इहोपविशतु सम्बन्धी ।
विदूषकः- (स्वगतम्) दिट्ठिआ अवगदो विअ से मदावेगो ।
दिष्ट्याऽपगत इवास्य मदावेगः ।
[उपविशति]
विटः- णोमालिए ! उबविस तुमं पि एदस्स पासे, जेण दुवेवि
नवमालिके ! उपविश त्वमप्येतस्य पार्श्वे, येन द्वावपि
तुम्हे समं ज्जेव्व सम्मणाइस्सं ।
युवां सममेव सम्मानयिष्यामि ।