नागानन्दम् (सम्राट हर्षवर्धन - संस्कृत मूल एवं हिन्दी व्याख्या)
Nagananda Nataka of Emperor Harsha with Commentary
सम्राट हर्षवर्धन द्वारा
पृष्ठ 150, कुल 309 में से
संदर्भ में पढ़ें( ११८ )
चेटः- जं भट्टके आणवेदि ।
यद्भर्त्ताज्ञापयति ।
विटः -(विदूषकं विमुच्य चेट्याः पादयोः पतति)
पसीद णोमालिए ! पसीद ।
प्रसीद नवमालिके ! प्रसीद ।
विदूषकः- (आत्मगतम् ) एसो मे अवकमिदुं अवसरो ।
एष मेऽपक्रमितुमवसरः ।
[पलायितुमीहते]
चेटः- (विदूषकं यज्ञोपवीते गृह्णाति । यज्ञोपवीतं त्रुट्यति)
कहिं कहिं कविलमंकडा पलाअसि ?
क्व क्व कपिलमर्कट ! पलायसे ?
[तदुत्तरीयेणैव गले बद्ध्वाकर्षति]
विदूषकः -भोदि णोमालिए ! पसीद । मोचेहि मं ।
भवति नवमालिके प्रसीद । मोचय माम् ।
चेटी-(विहस्य) जइ भूमीए सीसं णिवेसित्र पादेसु मे पडसि ।
यदि भूमौ शीर्षं निवेश्य पादयोर्मे पतसि ।
विदूषकः-(सरोषं सकम्पञ्च) भो ! कहं राजमित्तो बह्मणो
भो ! कथं राजमित्रं ब्राह्मणो
भविअ दासीए धीआए पादेसु पडइस्सं ?
भूत्वा दास्यापुत्र्याः पादयोः पतिष्यामि ?
चेटी- (अङ्गुल्या तर्जयन्ती¹ सस्मितम् ) दाणिं पाडइस्सं ।
इदानीं पातयिष्यामि ।