सामग्री पर जाएँ
सर्वकोश
नागानन्दम् (सम्राट हर्षवर्धन - संस्कृत मूल एवं हिन्दी व्याख्या)

नागानन्दम् (सम्राट हर्षवर्धन - संस्कृत मूल एवं हिन्दी व्याख्या)

Nagananda Nataka of Emperor Harsha with Commentary

सम्राट हर्षवर्धन द्वारा

DevanagariHindipublished309 पृष्ठ

पृष्ठ 142, कुल 309 में से

संदर्भ में पढ़ें
पृष्ठ 142

( ११० )
पिअवअस्सो कुसुमाअरुज्जाणं गमिस्सदि त्ति ।
प्रियवयस्यः कुसुमाकरोद्यानं गमिष्यतीति :
ता जाव तहिंज्जेव्व गमिस्सं । (परिक्रम्य विलोक्य च) इदं
तद्यावत्तत्रैव गमिष्यामि । इदं
कुसुमाअरुज्जाणं, जाव पविसासि । (प्रविश्य भ्रमरबाधां नाटयन्),
कुसुमाकरोद्यानं, यावत्प्रविशामि ।
अरे कीस उण एदे दुट्ठमहुअरा मं ज्जेव्व अभिभवंति
अरे कथं पुनरेते दुष्टमधुकरा मामेवाभिभवन्ति¹ ।
(आत्मानमाघ्राय) भोदु जाणिदं, जं तं मलयवदीबंधुजणेण
भवतु ज्ञातं, मत्तन्मलयवतीबन्धुजनेन
जामातुअस्स पिअवअस्सो त्ति कदुअ सवहुमाणं
जामातुः प्रियवयस्य इति कृत्वा सबहुमानं
वण्णएहिं विलित्तोम्हि । सन्ताणकुसुमसेहरअं च मम सीसे
²वर्णकैर्विलिप्तोऽस्मि । ³सन्तानकुसुमशेखरश्च मम शीर्षे
पिणद्धं । सो क्खु एसो अच्चाअरो अणत्थीभूदो किं दाणिं
पिणद्धः । स खलु एषोऽत्यादरो ऽनर्थीभूतः । किमिदानीमत्र
एत्थ करिस्सं ? अहवा एदेण जेव्व मलयवदीए
करिष्यामि ? अथवा, एतेनैव मलयवत्याः
स आसादो लद्धेण रत्तंसुअजुअलण इत्थिआवेसं विहिअ
सकाशाल्लब्धेन रक्तांशुकयुगलेन स्त्रीवेषं विधाय
उत्तरीअकिदावगुण्ठणो गमिस्सं । पेक्खामि दाव
उत्तरीयकृतावगुण्ठनं गमिष्यामि । प्रेक्षे तावत्