नागानन्दम् (सम्राट हर्षवर्धन - संस्कृत मूल एवं हिन्दी व्याख्या)
Nagananda Nataka of Emperor Harsha with Commentary
सम्राट हर्षवर्धन द्वारा
पृष्ठ 140, कुल 309 में से
संदर्भ में पढ़ेंअथ तृतीयोऽङ्कः ।
I
[ततः प्रविशति मत्तो विचित्रविह्वलवेषश्चषकहस्तो विटः
स्कन्धारोपितसुराभाण्डश्चेटश्च]
विटः—णिच्चं जो पिवइ सुरं जणस्स पिअसङ्गमञ्च जो कुणइ।
नित्यं यः पिबति सुरां जनस्य प्रियसङ्गमञ्च यः करोति।
मह दे दो अवि देवा बलदेवो कामदेवो अ ॥ १ ॥
मम तौ द्वावपि देवौ बलदेवः कामदेवश्च ॥
(घूर्णन्)—सफलं क्खु मे सेहरअस्स जीविदं ।
सफलं खलु मे शेखरकस्य जीवितम् ।
वच्छत्थलम्हि दइआ णीलुप्पलवासिआ मुहे मइरा ।
वक्षःस्थले दयिता नीलोत्पलवासिता मुखे मदिरा ।
सीसम्मि अ सेहअरो णिच्चं विअ संठिआ जस्स ॥ २ ॥
शीर्षे च शेखरको नित्यमिव संस्थिता यस्य ॥
(प्रस्खलन्) अरे को मं चालेदि ? (सहर्षम्) अवस्सं
अरे! को मां चालयति ? अवश्यं
णोमालिआ मं परिहसदि।
नवमलिका मां परिहसति ।
श्लोक नं० १, अन्वयः—
यः नित्यं सुरां पिबति, यः च जनस्य प्रियसङ्गमं करोति
तौ द्वौ अपि— बलदेवः कामदेवः च— मम देवौ ।
श्लोक नं० २, अन्वयः—
यस्य वक्षःस्थले दयिता, मुखे नीलोत्पलवासिता मदिरा,
शीर्षे च शेखरकः नित्यमिव संस्थिताः ।