सामग्री पर जाएँ
सर्वकोश
नागानन्दम् (सम्राट हर्षवर्धन - संस्कृत मूल एवं हिन्दी व्याख्या)

नागानन्दम् (सम्राट हर्षवर्धन - संस्कृत मूल एवं हिन्दी व्याख्या)

Nagananda Nataka of Emperor Harsha with Commentary

सम्राट हर्षवर्धन द्वारा

DevanagariHindipublished309 पृष्ठ

पृष्ठ 134, कुल 309 में से

संदर्भ में पढ़ें
पृष्ठ 134

( १०० )
नायिका-(निरूप्यापवार्य सस्मितं) चदुरिए ! अहं वित्र आलिहिदा!
चतुरिके ! अहमिवालिखिता !
चेटी-(चित्राकृतिं नायिकाञ्च निर्वर्ण्य) भट्‍टिदारिए किं भणसि-
भर्तृदारिके ! किं भणसि-
अहंवित्र आलिहिदेत्ति । ईरिसं से सारिच्छं जेण णा
अहमिवालिखितेति । ईदृशमस्य सादृश्यं येन न
जाणीअदि किं दाव इध ज्जेव्व सिलाअले भट्‍टिदारिआए
ज्ञायते किं तावदिहैव शिलातले भर्तृदारिकायाः
पडिबिम्वं संकंतं, उद तुमं आलिहिदेत्ति ।
प्रतिबिम्बं सङ्क्रान्तम्, उत त्वमालिखितेति ।
नायिका — (विहस्य) हज्जे दुज्जणीकिदम्हि इमिणा मं
हञ्जे ¹दुर्जनीकृतास्म्यनेने मां
चित्तगदं दंसअंतेण ।
चित्रगतां दर्शयता ।
विदूषकः— भो ! णिव्वुत्तो दाणीं दे गन्धव्वो विवाहो ।
भो ! निर्वृत्त² इदानीं ते • गन्धर्वविवाहः ।
ता मुञ्च दाव से अग्गहत्थं । एसा क्खु कावि
तन्मुञ्च तावदस्या अग्रहस्तम् । एषा खलु कापि
तुरिदतुरिदा इध ज्जेव्व आअच्छदि ।
त्वरितत्वरिता इहैवागच्छति ।
नायकः— (मुञ्चति)
[ ततः प्रविशति चेटी ]