नागानन्दम् (सम्राट हर्षवर्धन - संस्कृत मूल एवं हिन्दी व्याख्या)
Nagananda Nataka of Emperor Harsha with Commentary
सम्राट हर्षवर्धन द्वारा
पृष्ठ 132, कुल 309 में से
संदर्भ में पढ़ें( ६८ )
पडिवादअंतस्सवि मित्तावसुणो णाहं पडिच्छिदेत्ति
प्रतिपादयतोऽपि मित्रावसोर्नाहं प्रतीष्टेति
जादणिव्वेदाए इमाए एव्वं व्ववसिदं ।
¹जातनिर्वेदाऽनयैवं व्यवसितम् ।
नायकः-(सहर्षमात्मगतम्)-कथमियमेवासौ विश्वावसोर्दुहिता
मलयवती ! अथवा रत्नाकरादृते ²कुतश्चन्द्रलेखायाः
प्रसूतिः ? हा ! कथं वञ्चितोऽस्म्यनया ?
विदूषकः-भोदि ! जइ एवं ता अणवराद्धो दाणी पियवयस्सो।
भवति, यद्येवं तदनपराध इदानीं प्रियवयस्यः ।
अहवा जइ मम ण पत्तिआअदि, तदा सअं ज्जेव्व
अथवा यदि मम न प्रत्येति, तदा स्वयमेव
गदुअ सिलाअलं पेक्खदु भोदि ।
गत्वा शिलातलं प्रेक्षतां भवती ।
नायिका-(सहर्षं सलज्जञ्च नायकं पश्यन्ती हस्तमाक्षेप्तुमिच्छति)
मुञ्च मुञ्च मे अग्गहत्थं ।
मुञ्च मुञ्च मेऽग्रहस्तम् ।
नायकः-(सस्मितं) न तावन्मुञ्चामि यावन्मम हृदयवल्लभां
शिलायामालिखितां न पश्यसि ।
[ सर्वे चन्दनलतागृहं प्रविशन्ति ]
विदूषकः— (कदलीपत्रमपनीय)
भोदि ! पेक्ख एदं से हिअवल्लहं जणं ।
भवति ! प्रेक्षस्व, एतमस्य हृदयवल्लभं जनम् ।