नागानन्दम् (सम्राट हर्षवर्धन - संस्कृत मूल एवं हिन्दी व्याख्या)
Nagananda Nataka of Emperor Harsha with Commentary
सम्राट हर्षवर्धन द्वारा
पृष्ठ 128, कुल 309 में से
संदर्भ में पढ़ें( ६४ )
'ता जम्मन्तरे जहा ण ईरिसी दुक्खभाइणी होमि, तथा करेसि
तज्जन्मान्तरे यथा नेदृशी दुःखभागिनी भवामि तथा करिष्यसि।
(कण्ठेपाश मपर्यति)
चेटी — (दृष्ट्वा ससम्भ्रममुपेत्य) पलित्ताअदु पलित्ताअदु
परित्रायतां परित्रायताम् ।
एसा भट्टिदारिआ उव्वन्धित्र अत्ताणं वावादेदि ।
एषा भर्तृदारिकोद्वध्य आत्मानं व्यापादयति ।
नायकः — (ससम्भ्रममुपसृत्य) क्वासौ ? क्वासौ ?
चेटी — अअं असोअपादवे ।
इयमशोकपादपे ।
नायकः — (सहर्षमवलोक्य) कथं सैवेयमस्मन्मनोरथभूमिः¹ ?
(नायिकां पाणौ गृहीत्वा लतापाशमाक्षिपन्)—
न खलु न खलु मुग्धे² ! साहसं कार्यमीदृक्
व्यपनय करमेतं पल्लवाभं लतायाः ।
कुसुममपि विचेतुं यो न मन्ये समर्थः
कलयति³ स कथं ते पाशमुद्वन्धनाय ॥ ११ ॥
नायिका — (ससाध्वसम्)हज्जे ! को उण एसो ?
हञ्जे ! कः पुनरेषः ?
श्लोक नं०: ११, अन्वयः—
मुग्धे ! न खलु न खलु ईदृक् साहसं कार्य्यम् ।
पल्लवाभम् एतं करं लतायाः व्यपनय । मन्ये,
य ते (करः) कुसुमम् अपि विचेतुं न समर्थः
स उद्वन्धनाय पाशं कथं कलयति ?