नागानन्दम् (सम्राट हर्षवर्धन - संस्कृत मूल एवं हिन्दी व्याख्या)
Nagananda Nataka of Emperor Harsha with Commentary
सम्राट हर्षवर्धन द्वारा
पृष्ठ 120, कुल 309 में से
संदर्भ में पढ़ें( ८६ )
श्रुतश्च मया - 'असौ जीमूतवाहनोऽत्रैव गौर्याश्रमसम्बद्धे
चन्दनलतागृहे वर्तते' इति । तदेतच्चन्दनलतागृहम् ।
यावत्प्रविशामि । [प्रविशति]
विदूषकः — (ससम्भ्रममवलोक्य) भो वअस्स ! पच्छादेहि
भो वयस्य ! प्रच्छादया-
इमिणा कअलिवत्तेण इमं चित्तगदं कण्णअं । एसो क्खु
ऽनेन कदलीपत्रेणेमां चित्रगतां कन्यकाम् । एष खलु
सिद्धजुवराओ मित्तावसू इध इव आअदो । कदावि (एसो)
सिद्धयुवराजो मित्रावसुरीहैवागतः । कदापि¹ (एष)
पेक्खिस्सदि ।
प्रेक्षिष्यते ।
नायकः— (कदलीपत्रेण प्रच्छादयति)
मित्रावसुः-(उपसृत्य) कुमार ! मित्रावसुः प्रणमति ।
नायकः-(दृष्ट्वा) मित्रावसो ! स्वागतम् । इहोपविश्यताम् ।
चेटी—भट्टिदारिए ! आअदो भट्टा मित्तावसू ।
भर्तृदारिके ! आगतो भर्त्ता मित्रावसुः ।
नायिका- हज्जे ! पिअं मे ।
हञ्जे ! प्रियं मे ।
नायकः — मित्रावसो ! अपि कुशली सिद्धराजो विश्वावसुः ?
मित्रावसुः-कुशली तातः। तदादेशेनैवास्मि त्वत्सकाशमागतः ।
नायकः — किमाह तत्रभवान् ?