सामग्री पर जाएँ
सर्वकोश
नागानन्दम् (सम्राट हर्षवर्धन - संस्कृत मूल एवं हिन्दी व्याख्या)

नागानन्दम् (सम्राट हर्षवर्धन - संस्कृत मूल एवं हिन्दी व्याख्या)

Nagananda Nataka of Emperor Harsha with Commentary

सम्राट हर्षवर्धन द्वारा

DevanagariHindipublished309 पृष्ठ

पृष्ठ 118, कुल 309 में से

संदर्भ में पढ़ें
पृष्ठ 118

( ८४ )
चेटी-(सविषादमात्मगतम्)कहं जीवदणिरवेक्खो विअ से आला वो ।
कथं जीवितनिरपेक्ष¹ इवास्या आलापः ।
(प्रकाशम् )
भट्टिदारिए ! णं गदा एव्व तहिं मणोहरिआ; ता कदावि
भर्तृदारिके ! ननु गतैव तत्र मनोहरिका ; तत्कदापि
भट्टा मित्तावसू इध एव्व आअच्छदि
भर्ता मित्रावसुरिहैवागच्छति ।
[ततः प्रविशति मित्रावसुः]
मित्रावसुः- आज्ञापितोऽस्मि तातेन, यथा-'वत्स मित्रावसो !
कुमारजीमूतवाहनोऽस्माभिरिहासनवासात्सुपरीक्षितः ।
कुतोऽस्माद्योग्यो वरः ? तदस्मै वत्सा मलयवती
प्रतिपाद्यताम्²' इति । अहन्तु स्नेहपराधीनतयाऽन्य-
देव किमप्यवस्थान्तरमनुभवामि । कुतः ?
यद्विद्याधरराजवंशतिलकः³ प्राज्ञः सतां सम्मतो
रूपेणाप्रतिमः पराक्रमधरो विद्वान् विनीतो युवा ।
यच्चासूनपि संत्यजेत्करुणया सत्त्वार्थमभ्युद्यत⁴-
स्तेनास्मै ददतः स्वसारमतुला⁵ तुष्टिर्विषादश्च मे ॥१०॥
श्लोक न०: १० अन्वयः-
अस्मै स्वसारं ददतः मे, यत् विद्याधरराजवंश तिलकः,
प्राज्ञः, सतां सम्मतः रूपेण अप्रतिमः, पराक्रमधरः, विद्वान् युवा-
तेन अतुला तुष्टिः ; यत् च करुणया सत्त्वार्थम् अभ्युद्यतः
असून्अपि सन्त्यजेत्, (तेन) विषादश्च ॥