सामग्री पर जाएँ
सर्वकोश
नागानन्दम् (सम्राट हर्षवर्धन - संस्कृत मूल एवं हिन्दी व्याख्या)

नागानन्दम् (सम्राट हर्षवर्धन - संस्कृत मूल एवं हिन्दी व्याख्या)

Nagananda Nataka of Emperor Harsha with Commentary

सम्राट हर्षवर्धन द्वारा

DevanagariHindipublished309 पृष्ठ

पृष्ठ 102, कुल 309 में से

संदर्भ में पढ़ें
पृष्ठ 102

( ६८ )
नायकः- व्यावृत्यैव सितासितेक्षणरुचा तानाश्रमे शाखिनः
कुर्वत्या विटपावसक्तविलसत्कृष्णाजिनौघानिव ।
यद्दृष्टोऽस्मि तया मुनेरपि पुरस्तेनैव मय्याहते
⁴पुष्पेषो ! भवता मुधैव किमिति क्षिप्यन्त एते शराः ? ॥२॥
विदूषकः- भो वअस्स ! कहिं क्खु गदं दे तं धीरत्तणं ?
भो वयस्य ! कुत्र खलु गतं ते तद्धीरत्वम् ?
नायकः - वयस्य ! ननु धीर एवास्मि । कुतः ?—
नीताः किं न निशाः शशाङ्कधवला नाघ्रातमिन्दीवरं ?
किं नोन्मीलितमालतीसुरभयः सोढाः प्रदोषानिलाः ?'
झङ्कारः कमलाकरे मधुलिहां किं वा मया न श्रुतो,
निर्व्याजं विधुरेष्वधीर इति मां येनाभिधत्से भवान् ? ॥३॥
श्लोक नं० २ः अन्वयः —
सितासितेक्षणरुचा आश्रमे तान् शाखिनः विटपावसक्त-
विलसत्कृष्णाजिनौघान इव कुर्वत्या तया मुनेरपि
पुरा यद् व्यावृत्य एव दृष्टोऽस्मि, तेन एव आहते मयि
पुष्पेषो ! भवता मुधा एव एते शराः किमिति क्षिप्यन्ते ॥
श्लोक नं० ३, अन्वयः—
किं शशाङ्कधवला निशाः न नीताः ? (किम्) इन्दीवरं न आघ्रातम् ?'
किम् उन्मीलितमालतीसुरभयः प्रदोषादिलाः न सोढाः ?
किं वा मया कमलाकरे मधुलिहां झङ्कारः न श्रुतः ?
येन भवान् निर्व्याजं मां विधुरेषु अधीरः इति अभिधत्ते ॥