सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

मुण्डकोपनिषद् (शाङ्करभाष्य सहित)

Mundaka Upanishad Shankara Bhashya

आदि शङ्कराचार्य द्वारा

DevanagariHindipublished134 पृष्ठ

खण्ड २ ] शाङ्करभाष्यार्थ ११९

उपसंहार

तदेतत्सत्यमृषिरङ्गिराः पुरोवाच नैतदचीर्णव्रतोऽधीते । नमः परमऋषिभ्यो नमः परमऋषिभ्यः ॥ ११ ॥

उस इस सत्यका पूर्वकालमें अङ्गिरा ऋषिने [ शौनकजीको ] उपदेश किया था। जिसने शिरोव्रतका अनुष्ठान नहीं किया वह इसका अध्ययन नहीं कर सकता। परमर्षियोंको नमस्कार है, परमर्षियोंको नमस्कार है ॥ ११ ॥

तदेतदक्षरं पुरुषं सत्यमृषि-
रङ्गिरा नाम पुरा पूर्वं शौनकाय
विधिवदुपसन्नाय पृष्टवत उवाच ।
तद्वदन्योऽपि तथैव श्रेयोऽर्थिने
मुमुक्षवे मोक्षार्थं विधिवदुपसन्नाय
ब्रूयादित्यर्थः । नैतद्ग्रन्थरूपम्
अचीर्णव्रतोऽचरितव्रतोऽप्यधीते
न पठति । चीर्णव्रतस्य हि विद्या
फलाय संस्कृता भवतीति ।उस इस अक्षर पुरुष सत्यको अंगिरानामक ऋषिने पूर्वकालमें अपने समीप विधिपूर्वक आये हुए प्रश्नकर्ता शौनकजीसे कहा था। उनके समान अन्य किसी गुरुको भी उसी प्रकार अपने समीप विधिपूर्वक आये हुए कल्याणकामी मुमुक्षुपुरुषको उसके मोक्षके लिये इसका उपदेश करना चाहिये—यह इसका तात्पर्य है। इस ग्रन्थरूप उपदेशका 'अचीर्णव्रत' पुरुष—जिसने कि शिरोव्रतका आचरण न किया हो—अध्ययन नहीं कर सकता, क्योंकि जिसने उस व्रतका आचरण किया होता है उसीकी विद्या संस्कारसम्पन्न होकर फलवती होती है।

१२० मुण्डकोपनिषद् [ मुण्डक ३

समाप्ता ब्रह्मविद्या, सा येभ्यो ब्रह्मादिभ्यः पारम्पर्यक्रमेण संप्राप्ता तेभ्यो नमः परमऋषिभ्यः परमं ब्रह्म साक्षाद्दृष्टवन्तो ये ब्रह्मादयोऽवगतवन्तश्च ते परमर्षयस्तेभ्यो भूयोऽपि नमः । द्विर्वचनमत्यादरार्थं मुण्डकसमाप्त्यर्थं च ॥ ११ ॥यहाँ ब्रह्मविद्या समाप्त हुई । वह जिन ब्रह्मा आदिसे परम्परा-क्रमसे प्राप्त हुई है उन परमर्षियोंको नमस्कार है । जिन्होंने परब्रह्मका साक्षात् दर्शन किया है और उसका बोध प्राप्त किया है वे ब्रह्मा आदि परम ऋषि हैं; उन्हें फिर भी नमस्कार है । यहाँ 'नमः परमऋषिभ्यो नमः परमऋषिभ्यः' यह द्विरुक्ति ऋषियोंके अधिक आदर और मुण्डककी समाप्तिके लिये है ॥११॥

इत्यथर्ववेदीयमुण्डकोपनिषद्भाष्ये तृतीयमुण्डके द्वितीयः खण्डः ॥ २ ॥

समाप्तमिदं तृतीयं मुण्डकम् ।

इति श्रीमद्गोविन्दभगवत्पूज्यपादशिष्यस्य परमहंसपरिव्राजकाचार्यस्य श्रीमच्छङ्करभगवतः कृतावाथर्वणमुण्डकोपनिषद्भाष्यं समाप्तम् ॥

शान्तिपाठः

ॐ भद्रं कर्णेभिः शृणुयाम देवा
भद्रं पश्येमाक्षभिर्यजत्राः ।
स्थिरैरङ्गैस्तुष्टुवाꣳसस्तनूभि-
र्व्यशेम देवहितं यदायुः ॥
स्वस्ति न इन्द्रो वृद्धश्रवाः
स्वस्ति नः पूषा विश्ववेदाः ।
स्वस्ति नस्तार्क्ष्योऽरिष्टनेमिः
स्वस्ति नो बृहस्पतिर्दधातु ॥

ॐ शान्तिः ! शान्तिः !! शान्तिः !!!

मन्त्रप्रतीक-सूची (परिशिष्ट)

श्रीहरिः

मन्त्राणां वर्णानुक्रमणिका

मन्त्रप्रतीकानिमुं०खं०मं०पृ०
अग्निर्मूर्धा चक्षुषी२१४५२
अतः समुद्रा गिरयश्च२१९५९
अथर्वणे यां प्रवदेत११२७
अरा इव रथनाभौ२२६७०
अविद्यायामन्तरे१२८३४
अविद्यायां बहुधा१२९३५
आविः संनिहितम्२२१६२
इष्टापूर्तं मन्यमानाः१२१०३५
ॐ ब्रह्मा देवानां प्रथमः१११५
एतस्माज्जायते प्राणः२१३५०
एतेषु यश्चरते१२५३०
एषोऽणुरात्मा चेतसा३१९१००
एह्येहीति तमाहुतयः१२६३१
कामान्यः कामयते३२२१०४
क्रियावन्तः श्रोत्रियाः३२१०११७
काली कराली च१२४२९
गताः कलाः पञ्चदश३२७११३
तत्रापरा, ऋग्वेदः११५१२
तदेतत् सत्यमृषिः३२११११९
तदेतत् सत्यं मन्त्रेषु१२१२४
तदेतत् सत्यं यथा२११४४

( २ )

मन्त्रप्रतीकानिमुं०खं०मं०पृ०
तपसा चीयते ब्रह्म११८१९
तपःश्रद्धे ये ह्युपवसन्ति१२११३६
तस्माच्च देवा बहुधा२१७५६
तस्मादग्निः समिधः२१५५४
तस्मादृचः साम यजूंषि२१६५५
तस्मै स विद्वानुपसन्नाय१२१३४२
तस्मै स होवाच११४११
दिव्यो ह्यमूर्तः पुरुषः२१२४६
द्वा सुपर्णा सयुजा३११८३
धनुर्गृहीत्वौपनिषदम्२२३६६
न चक्षुषा गृह्यते३१८९८
न तत्र सूर्यो भाति२२१०७८
नायमात्मा प्रवचनेन३२३१०६
नायमात्मा बलहीनेन३२४१०८
परीक्ष्य लोकान्कर्मचितान्१२१२३९
पुरुष एवेदं विश्वम्२११०६०
प्लवा ह्येते अदृढा१२७३२
प्रणवो धनुः शरः२२४६७
प्राणो ह्येष यः सर्वभूतैः३१४८८
बृहच्च तद्दिव्यम्३१७९६
ब्रह्मैवेदममृतम्२२११८०
भिद्यते हृदयग्रन्थिः२२८७५
यत्तदद्रेश्यमग्राह्यम्११६१५
यथा नद्यः स्यन्दमानाः३२८११५
यथोर्णनाभिः सृजते११७१८
यदर्चिमद्यदणुभ्यः२२२६४
यदा पश्यः पश्यते३१३८७

( ३ )

मन्त्रप्रतीकानिमुं०खं०मं०पृ०
यदा लेलायते ह्यर्चिः१२२२६
यं यं लोकं मनसा३११०१०१
यः सर्वज्ञः सर्वविद्यस्य११९२१
,, ,,२२७७२
यस्मिन्द्यौः पृथिवी२२५६९
यस्याग्निहोत्रमदर्शम्१२३२७
वेदान्तविज्ञानसुनिश्चितार्थाः३२६११०
शौनको ह वै महाशालः११३८
सत्यमेव जयति३१६९४
सत्येन लभ्यस्तपसा३१५९२
सप्त प्राणाः प्रभवन्ति२१८५७
समाने वृक्षे पुरुषः३१२८५
स यो ह वै तत्परमम्३२९११६
स वेदैतत्परमम्३२११०३
संप्राप्यैनमृषयः३२५१०६
हिरण्मये परे कोशे२२९७६