सामग्री पर जाएँ
सर्वकोश
मूलमध्यमककारिका (आचार्य नागार्जुन - चन्द्रकीर्ति प्रणीत प्रसन्नपदा व्याख्या सहित)

मूलमध्यमककारिका (आचार्य नागार्जुन - चन्द्रकीर्ति प्रणीत प्रसन्नपदा व्याख्या सहित)

Mulamadhyamakakarika of Nagarjuna with Prasannapada Commentary

आचार्य नागार्जुन (टीकाकार: आचार्य चन्द्रकीर्ति) द्वारा

DevanagariSanskritpublished176 पृष्ठ

पृष्ठ 94, कुल 176 में से

संदर्भ में पढ़ें
पृष्ठ 94

१५८ मध्यमशास्त्रे [ १८.९-

इत्यादित एव तावद्भगवता स्वप्रसिद्धपदार्थभेदस्वरूपविभागश्रवणसंजाताभिलाषस्य
विनेयजनस्य यदेतत् स्कन्धधात्वायतनादिकमविद्यातैमिकैः सत्यतः परिकल्पितमुपलब्धम्, तदेव
तावत् सत्यमित्युपवर्णितं भगवता तद्दर्शनापेक्षया, आत्मनि लोकस्य गौरवोत्पादनार्थम् ।
विदितनिरवशेषलोकवृत्तान्तोऽयं भगवान् सर्वज्ञः सर्वदर्शी, यः एवं भवाग्रपर्यन्तस्य वायुमण्डलादे-
राकाशधातुपर्यवसानस्य भाजनलोकस्य सत्त्वलोकस्य च अविपरीतं स्थित्युत्पादप्रलयादिकं
सातिविचित्रप्रभेदं सहेतुकं सफलं सास्वादं सादीनवं चोपदिष्टवानिति । तदेवं भगवति उत्पन्न-
सर्वज्ञबुद्धिविनेयजनस्य उत्तरकालं तदेव सर्वं न वा तथ्यमित्युपदेशितम् । तत्र तथ्यं नाम यस्य
अन्यथात्वं नास्ति । विद्यते च प्रतिक्षणविनाशित्वात् संस्काराणामन्यथाभावः, तस्मादन्यथाभाव-
सद्भावान्न वा तथ्यम् । वाशब्दश्चकारार्थो देशनासमुच्चये द्रष्टव्यः । सर्वं तथ्यं न च तथ्यमिति ॥

केषांचित् सर्वमेतत् तथ्यं च अतथ्यं चेति देशितम् । तत्र बालजनापेक्षया सर्वमेतत्
तथ्यम् । आर्यज्ञानापेक्षया तु सर्वमेतन्मृषा, तैरैवमनुपलम्भादिति ॥

केषांचित्तु अतिचिराभ्यस्ततत्त्वदर्शनानां किंचिन्मात्रानुत्खातावरणतरुमूलानां नैवातथ्यं
नैव तथ्यं तदिति देशितम् । तस्यापि किंचिन्मात्रस्यावरणस्य प्रहाणार्थं वन्ध्यासुतस्य अवदात-
श्यामताप्रतिषेधवदुभयमेतत् प्रतिषिद्धम् ॥

एतच्च बुद्धानां भगवतामनुशासनम् - उन्मार्गादपनीय सम्यग्मार्गप्रतिष्ठापनं शासनम् ।
एवमानुपूर्व्या शासनमनुशासनम् । विनेयजनानुरूप्येण वा शासनमनुशासनम् ।।

सर्वाश्चैता देशना बुद्धानां भगवतां महाकरुणोपायज्ञानवतां तत्त्वामृतावतारोपायत्वेन
व्यवस्थिताः । न हि तथागताः तत्त्वामृतावतारानुपायभूतवाक्यमुदाहरन्ति । व्याध्यनुरूपभैषज्योप-
संहारवत् ते विनेयजनानुजिघृक्षया यथानुरूपं धर्मं देशयन्ति । यथोक्तं शतके—

सदसत्सदसच्चेति नोभयं चेति कथ्यते ।
ननु व्याधिवशात्पथ्यमौषधं नाम जायते ॥
इति ॥ ८ ॥ [ चतुःशतक - ८.२० ]

किंलक्षणं पुनः तत् तत्त्वं यस्यैता देशना अवतारार्थमुपदिशन्ते भगवन्तः ? उक्तमेत-
दस्माभिः-
निवृत्तमभिधातव्यं निवृत्ते चित्तगोचरे । इति ।

यदा चैतदेवम्, तदा किमपरं पृच्छयते ? यद्यप्येवम्, तथापि व्यवहारसत्यानुरोधेन
लौकिकतथ्याद्यभ्युपगमवत् तस्यापि समारोपतो लक्षणमुच्यतामिति । तदुच्यते—

अपरप्रत्ययं शान्तं प्रपञ्चैरप्रपञ्चितम् ।
निर्विकल्पमनानार्थमेतत्तत्त्वस्य लक्षणम् ॥ ९ ॥


१ P तथ्यं for सत्यम् against Mss. २ P सर्वं for पथ्यम् against Mss. T however seems to read सर्वं. ३ T om. भगवन्तः.


-१८.९ ] आत्मपरीक्षा अष्टादशं प्रकरणम् । १५९

तत्र नास्मिन् परप्रत्ययोऽस्तीति अपरप्रत्ययम् । परोपदेशागम्यम् । स्वयमेवाधिगन्तव्य-
मित्यर्थः । यथा हि तैमिरिका वितथं केशमशकमक्षिकादिरूपं पश्यन्तो वितिमिरोपदेशेनापि न
शक्नुवन्ति केशानां यथावदवस्थितं स्वरूपमदर्शनन्यायेन अधिगन्तुम्, अतैमिरिका इवाधिगन्तुम्,
किं तर्हि अतैमिरिकोपदेशान्मिथ्यैतदित्येतावन्मात्रकमेव प्रतिपद्यन्ते । यदा तु तिमिरोपघात्य-
विपरीतशून्यतादर्शनाञ्जनाञ्जितबुद्धिनयनाः सन्तः समुपन्नतचक्षुर्ज्ञाना भवन्ति, तदा तत्
तत्त्वमनधिगमनयोगेन स्वयमधिगच्छन्तीति । एवमपरप्रत्ययं भावानां यत् स्वरूपं तत् तत्त्वम् ।
एतच्च शान्तस्वभावमतैमिरिककेशादर्शनवत् स्वभावविरहितमित्यर्थः । अत एव तत् प्रपञ्चै-
रप्रपञ्चितम् । प्रपञ्चो हि वाक्, प्रपञ्चयति अर्थानिति कृत्वा । प्रपञ्चैरप्रपञ्चितं वाग्भिरव्याहृतमित्यर्थः ॥

निर्विकल्पं च तत् । विकल्पश्चित्तप्रचारः । तद्रहितत्वात् तत् तत्त्वं निर्विकल्पम् ।
यथोक्तं सूत्रे —
परमार्थसत्यं कतमत् ? यत्र ज्ञानस्याप्यप्रचारः, कः पुनर्वादोऽक्षराणामिति ।
एवं निर्विकल्पम् ॥

नानार्थोऽस्येति नानार्थं भिन्नार्थम्, न नानार्थं अनानार्थम्, अभिन्नार्थमित्यर्थः । यथोक्त-
मार्यसत्यद्वयावतारसूत्रे —
देवपुत्र आह - कतमः पुनर्मञ्जुश्रीः सम्यक्प्रयोगः ? मञ्जुश्रीराह - यत्समा देवपुत्र
परमार्थतस्तथता धर्मधातुः अत्यन्ताजातिश्च, तत्समानि परमार्थतः पञ्चानन्तर्याणि, यत्समानि
पञ्चानन्तर्याणि तत्समानि दृष्टिकृतानि, यत्समानि दृष्टिकृतानि तत्समाः पृथग्जनधर्माः, यत्समाः
पृथग्जनधर्माः तत्समाः शैक्षधर्माः, यत्समाः शैक्षधर्माः तत्समा अशैक्षधर्माः, यत्समा अशैक्षधर्माः
तत्समाः सम्यक्संबुद्धधर्माः, यत्समाः सम्यक्संबुद्धधर्माः तत्समं निर्वाणम्, यत्समं निर्वाणं तत्समः
संसारः, यत्समः संसारः तत्समः परमार्थतः संक्लेशः, यत्समः परमार्थतः संक्लेशः तत्समं परमार्थतो
व्यवदानम्, यत्समं परमार्थतो व्यवदानं तत्समाः परमार्थतः सर्वधर्माः । एवं परमार्थतः सर्वधर्म-
समताप्रयुक्तो देवपुत्र भिक्षुः सम्यक्प्रयुक्त इत्युच्यते ॥

देवपुत्र आह – कतमया पुनर्मञ्जुश्रीः समतया यावत् परमार्थतो यत्समं व्यवदानं तत्समाः
सर्वधर्माः परमार्थत इति ? मञ्जुश्रीराह - परमार्थतः सर्वधर्मानुत्पादसमतया परमार्थतः सर्व-
धर्मात्यन्ताजातिसमतया परमार्थतः समाः सर्वधर्माः । तत् कस्माद्धेतोः ? परमार्थतो निर्वाणा-
नानाकरणा हि देवपुत्र सर्वधर्मा अत्यन्तानुत्पादतामुपादाय । तद्यथापि नाम देवपुत्र यच्च
मृद्भाजनस्याभ्यन्तरमाकाशम्, यच्च रत्नभाजनस्याकाशम्, आकाशधातोरेव एषः । तत् परमार्थतो
न किंचिन्नानाकरणम् । एवमेव देवपुत्र यः संक्लेशः, स परमार्थतोऽत्यन्तानुत्पादता । यदपि
व्यवदानं तदपि परमार्थतोऽत्यन्तानुत्पादता । संसारोऽपि परमार्थतोऽत्यन्तानुत्पादता । याव-


१ T यदा तु तिमिरोपघात्यञ्जनाञ्जितनयना अतैमिरिका एव [ भवन्ति ] तदा तत् केशादिस्वरूपमनधि-
गमनन्यायेनावगच्छन्ति । एवमार्यैः समारोपेण तत्त्वमपि देश्यताम्, तथापि तन्मात्रेण अनार्याणां तत्त्वरूपावगमो
न भवति । यदा तु अविद्यातिमिरोपघात्यविपरीत * . It is likely that available Mss. haplo-
graphicaly om. from तिमिरो° upto भवन्ति.