सामग्री पर जाएँ
सर्वकोश
मूलमध्यमककारिका (आचार्य नागार्जुन - चन्द्रकीर्ति प्रणीत प्रसन्नपदा व्याख्या सहित)

मूलमध्यमककारिका (आचार्य नागार्जुन - चन्द्रकीर्ति प्रणीत प्रसन्नपदा व्याख्या सहित)

Mulamadhyamakakarika of Nagarjuna with Prasannapada Commentary

आचार्य नागार्जुन (टीकाकार: आचार्य चन्द्रकीर्ति) द्वारा

DevanagariSanskritpublished176 पृष्ठ

पृष्ठ 168, कुल 176 में से

संदर्भ में पढ़ें
पृष्ठ 168

मध्यमकशास्त्रे षष्ठं परिशिष्टम् (पृ. ३०६)

प्रतिमासं च तेभ्यस्त्वं सर्वमायव्ययं शृणु ।
श्रुत्वा धर्माधिकारार्थं कार्यं सर्वं स्वयं वद ॥ २६ ॥
धर्मार्थं यदि ते राज्यं न कीर्त्यर्थं न कामतः ।
ततः सफलमर्थमनर्थार्थमतोऽन्यथा ॥ २७ ॥
परस्परामिषीभूते लोकेऽस्मिन् प्रायशो नृप ।
यथा राज्यं च धर्मश्च भवेत्तत्र तथा शृणु ॥ २८ ॥
ज्ञानवृद्धाः कुले जाता न्यायज्ञाः पापभीरवः ।
समेता बहवो नित्यं सन्तु ते कार्यदर्शिनः ॥ २९ ॥
दण्डबन्धप्रहारादीन् कुर्युस्ते न्यायतोऽपि चेत् ।
कारुण्यार्द्राः सदा भूत्वा त्वमनुग्रहवान् भव ॥ ३० ॥
हितायैव त्वया चित्तमुन्नाम्यं सर्वदेहिनाम् ।
कारुण्यात्संततं राजंस्तीव्रपापकृतामपि ॥ ३१ ॥
तीव्रपापेषु हिंसेषु कृपा कार्या विशेषतः ।
त एव हि कृपास्थानं हतात्मानो महात्मनाम् ॥ ३२ ॥
प्रत्यहं पञ्चरात्रं वा बद्धान् क्षीणान् विमोचय ।
शेषानपि यथायोगं मा कांश्चित् नैव मोचय ॥ ३३ ॥
येष्वमोक्षणचित्तं ते जायते तेष्वसंवरः ।
तस्मादसंवरात् पापमजस्रमुपचीयते ॥ ३४ ॥
यावच्च न विमुच्येरंस्तावत्स्युः सुखबन्धनाः ।
नापितस्नानपानान्नभैषज्यवसनान्विताः ॥ ३५ ॥
अपात्रेष्विव पुत्रेषु पात्रीकरणकाङ्क्षया ।
कारुण्या[त्ताडनं कार्यं न द्वेषान् ]नार्थलिप्सया ॥ ३६ ॥
विमृश्य सम्यग्विज्ञाय प्रदुष्टान् घातकानपि ।
अहत्वा पीडयित्वा च कुरु निर्विषयान् नरान् ॥ ३७ ॥
स्वतन्त्रः पश्य सर्वं च विषयं चारचक्षुषा ।
नित्याप्रमत्तः स्मृत्तिमान् कुरु कार्यं च धार्मिकम् । ३८ ॥
प्रदानमानसत्कारैर्गुणस्थान् सततं भज ।
उदारैरनुरूपैस्तु शेषानपि यथाविधि ॥ ३९ ॥
संमानस्फीतकुसुमः संप्रदानमहाफलः ।
राजवृक्षः क्षमाच्छायः सेव्यते भृत्यपक्षिभिः ॥ ४० ॥
त्यागशीलमयो राजा तेजस्वी भवति प्रियः ।
शर्करामोदको यद्वदेलामरिचकर्करः ॥ ४१ ॥


रत्नावली (पृ. ३०७)

मात्स्यन्यायश्च ते नैवं न्यायाद्राज्यं भविष्यति ।
न चान्यायो न चाधर्मो धर्मश्चैवं भविष्यति ॥ ४२ ॥
परलोकाद्यथा राज्यं नानीतं नापि नेष्यसि ।
धर्मात् प्राप्तमतोऽस्यार्थे नाधर्मं कर्तुमर्हसि ॥ ४३ ॥
राज्येन भाण्डमूल्येन दुःखभाण्डपरंपराम् ।
राजन् यथा नार्जयसि प्रयत्नः क्रियतां तथा ॥ ४४ ॥
राज्येन भाण्डमूल्येन राज्यभाण्डपरंपराम् ।
राजन् यथा निर्विशसि प्रयत्नः क्रियतां तथा ॥ ४५ ॥
चतुर्द्दीपमपि प्राप्य पृथिवीं चक्रवर्तिनः ।
शारीरं मानसं चैव सुखद्वयमिदं मतम् ॥ ४६ ॥
दुःखप्रतिक्रियामात्रं शारीरं वेदनासुखम् ।
संज्ञामयं मानसं तु केवलं कल्पनाकृतम् ॥ ४७ ॥
दुःखप्रतिक्रियामात्रं कल्पनामात्रमेव च ।
लोकस्य सुखसर्वस्वं व्यर्थमेतदतोऽर्थतः ॥ ४८ ॥
द्वीपदेशपुरावासप्रदेशस्थानवाससाम् ।
शय्यान्नपानहस्त्यश्वस्त्रीणां चैकैकभोग्यता ॥ ४९ ॥
यदा च यत्र चित्तं स्यात् तदानेन सुखं किल ।
शेषाणाममनस्कारात्तेषां व्यर्थत्वमर्थतः ॥ ५० ॥
विषयान् पञ्चभिः पञ्च चक्षुरादिभिरिन्द्रियैः ।
न कल्पयति चेद्धीर्न नास्मात्तेषु तदा सुखम् ॥ ५१ ॥
जानीते विषयं यं यं येन येनेन्द्रियेण च ।
तदा न शेषैः शेषाणि व्यर्थान्येव यतस्तदा ॥ ५२ ॥
इन्द्रियैरुपलब्धस्य विषयस्याकृतिं मनः ।
उपलभ्य व्यतीतस्य कल्पयन् मन्यते सुखम् ॥ ५३ ॥
एकमर्थं विजानाति यद्यप्येकमिहेन्द्रियम् ।
तदप्यर्थं विना व्यर्थं व्यर्थोऽर्थोऽपि च तद्विना ॥ ५४ ॥
प्रतीत्य मातापितरौ यथोक्तः पुत्रसंभवः ।
चक्षूरूपे प्रतीत्यैवमुक्तो विज्ञानसंभवः ॥ ५५ ॥
अतीतानागता व्यर्था विषयाः सार्धमिन्द्रियैः ।
तद्द्वयानतिरिक्तत्वाद् व्यर्था येऽपि च सांप्रताः ॥ ५६ ॥
अलातचक्रं गृह्णाति यथा चक्षुर्विपर्ययात् ।
तथेन्द्रियाणि गृह्णन्ति विषयान् सांप्रतानिव ॥ ५७ ॥


१ = MS, III, 7.