मुद्गल पुराण (अष्टावतार चरितम्)
Mudgala Puranam with Commentary
महर्षि मुद्गल द्वारा
स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)
जगाद देवराजं तं महाबाहुर्विचक्षणः ॥९॥ श्रीहरिरुवाच । हनिष्यामि महादैत्यं लोभं दानवसंयुतम् । मा कुरुष्व वृथा चिंतां कुरु
राज्यं मयार्पितम् ॥१०॥ एवमुक्त्वा महेंद्रं स देवेंद्रैः सह माधवः । वेगेनारुह्य गरुडं ययौ ताममरावतीम् ॥११॥ समागतं
महाविष्णुं महासैन्यसमाकुलम् । ज्ञात्वा दूर्मुखात् सर्वे दानवाः सज्जका ययुः ॥१२॥ लोभः क्रोधसमाविष्ट आययौ
योद्धुमाहवः । रथारूढः स्वयं साक्षान् मृत्युरूपोऽयमुच्यते ॥१३॥ लोभं दृष्ट्वाऽसुराः सर्वे भयभीताः समंततः । महाकायं
महावीर्यं कालकालं प्रदुद्रुवुः ॥१४॥ पलतस्तान् समाश्वास्य विष्णुर्युद्धोद्यतोऽभवत् । तेन सार्थं ययुः सर्वे महेंद्राद्याश्च
दंशिताः ॥१५॥ समागतं रमानाथं रणभूमौ प्रतापवान् । लोभः क्रोधसमाविष्टो चोदयत् सोऽसुरांस्ततः ॥१६॥ ततो युद्धं
समभवद्देवानां दानवैः सह । तुमुलं शस्त्रसंघातैर्मारयंतः परस्परम् ॥१७॥ अन्योन्यं ते जयं सर्वे दानवाः सुरनायकाः ।
इच्छंतो न जयं तत्राप्नुवन् दक्ष हतोद्यमाः ॥१८॥ रक्तौघैः संप्रवृत्ता स्म नदी परमभीतिदा । विश्रामं निशि चक्रुर्न क्रोधा-
वेशैः परस्परम् ॥१९॥ दिनत्रयं महाघोरं युद्धं दारुणरूपकम् । तत्र प्रवृत्तं क्रोधेन युक्ता देवाः समाययुः ॥२०॥ गणा
विष्णोश्च संक्रुद्धास्तथा देवेंद्रमुख्याकाः । नानास्त्रैर्दानवान् सर्वान् ममर्दुः सर्वतः प्रभो ॥२१॥ ततो हाहारवं कृत्वा दानवा
भयसंयुताः । न लेभिरे यशो दैत्याः पलायंत समंततः ॥२२॥ ततो हर्षयुता देवा नादं चक्रुः सुदारुणम् । जय विष्णो
महाभाग वदंति स्म परस्परम् ॥२३॥ ततोऽतिक्रोधसंयुक्ता दानवेंद्राः समाययुः । विप्रचित्तिमुखास्तत्र शरवृष्टिं प्रचक्रिरे
॥२४॥ तेषां बाणैः सुराः सर्वे छिन्नांगाः पतिता मृधे । तद् दृष्ट्वा क्रोधयुक्ताश्च देवेंद्रस्तान् प्रदुद्रुवुः ॥२५॥ अभवत् द्वंद्वयुद्धं
च नियतं रोमहर्षणम् । तेषां मध्येऽथ किंचित्त्वां कथयामि समासतः ॥२६॥ इंद्रेण युयुधे तत्र गजासुरः प्रतापवान् ।
अग्निना च स्वयं तारो वायुना विप्रचित्तिकः ॥२७॥ वरुणेन ययौ तत्र बलिः क्रोधसमन्वितः । कुबेरेण प्रहेतिश्च मदनेन
च हेतिकः ॥२८॥ सूर्येण युयुधे क्रोधात् स प्रतापी नरांतकः । देवांतको विष्णुना स क्रोधयुक्तः समाययौ ॥२९॥ जृंभः
सोमेन दैत्येशो युयुधे बलसंयुतः । यमेनैव महाबाहुर्वृत्रश्च युयुधे भृशम् ॥३०॥ नानाद्वंद्वभवं युद्धं चक्रुर्देवेंद्रकैः सह ।
दैत्येंद्रा बलगर्विष्ठा वर्णनाय न शक्यते ॥३१॥ अहोरात्रं रता युद्धे न विरामं प्रचक्रिरे । नानाशास्त्रास्त्रवर्षेण ववृषुस्ते
परस्परम् ॥३२॥ दिवसास्तत्र पंचैव गतास्तेषां प्रयुध्यताम् । नाप्राप्यत जयो देवैर्दैत्यैः परमदुर्जयैः ॥३३॥ ततोऽतिक्रोप-
संयुक्तः स प्रतापी गजासुरः । इंद्रं संगृह्य चिक्षेप महापर्वतमस्तके ॥३४॥ मूर्च्छितो देवराजः स ततो देवाः पलायिताः ।
******************************************************************** पान १००
एवं द्वंद्वरतैर्दैत्यैर्देवेंद्रा मूर्च्छिताः कृताः ॥३५॥ हा हा कृत्वा ततः सर्वं देवसैन्यं दिशो दश । पपाल तन् महाश्चर्यं दृष्ट्वा
विष्णुश्चकोप ह ॥३६॥ चक्रं प्रगृह्य चिक्षेप महाबाहुः स दारुणम् । दैत्यसैन्ये ततस्तेन हता दैत्या अनेकशः ॥३७॥
केषांचिन्मस्तकेष्वेतदपतद्दारुणं महत् । चिच्छेद हस्तपादादीन् दानवानामितस्ततः ॥३८॥ ततो दैत्येंद्राः सर्वे आययुस्ते
जनार्दनम् । शस्त्रास्त्रैः सर्वतो दुष्टा मारयामासुरेव तम् ॥३९॥ नारायणस्ततः कोपसंयुक्तोऽतिप्रतापवान् । गजासुरं स
विव्याध बाणैर्दशभिरावृतम् ॥४०॥ तं मूर्च्छितं चकाराऽसौ ततो देवांतकं हरिः । सप्तभिस्ताडयामास पातयामास भूतले
॥४१॥ एवं सर्वान् महाविष्णुः दानवेंद्रान् सुदारुणान् । विव्याध मूर्च्छितांश्चक्रे शरवर्षैः समंततः ॥४२॥ ततो हाहारवं
कृत्वाऽपलत्तत् सैन्यमुल्बणम् । दानवानां भयार्तं वै दशदिक्षु विशेषतः ॥४३॥ ततो लोभः समायातः क्रोधयुक्तो
जनार्दनम् । जगाद वचनं सोऽपि मोहयुक्तो महासुरः ॥४४॥ लोभ उवाच । सम्यक् कृतं त्वया विष्णो येन मे दर्शनं गतः ।
अधुना त्वां न मुंचामि जीवयुक्तं कदाचन ॥४५॥ नामरूपात्मकेभ्यश्च मरणं नैव मे भवेत् । ज्ञात्वा किमर्थमायातो
ज्ञानहीनो यथा नरः ॥४६॥ गदां गृहीत्वैवमुक्तवा ताडयामास केशवम् । पपात मूर्च्छया विष्णुस्ततः सैन्यं व्यमर्दयत्
॥४७॥ मुहूर्तमात्रकालेन सावधानो बभूव ह । पपाल देवराजैः स त्यक्त्वा संग्राममंडलम् ॥४८॥ प्रहस्य दानवान्
सर्वान् सावधानांस्तथाऽकरोत् । लोभासुरः प्रसन्नात्मा तैः सार्धं स्वपुरेऽगमत् ॥४९॥ स्तुतो बंदिजनैस्तेभ्यो दत्त्वा दानानि
हर्षितः । इंद्रासने समासीनो रेजे दानवसत्तमः ॥५०॥
॥ ओमिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे चतुर्थे खंडे गजाननचरिते विष्णुपराजयो नामाष्टत्रिंशोऽध्यायः ॥
❧❧❧
॥ श्रीगणेशाय नमः ॥ मुद्गल उवाच । ततोऽतिदुःखितो विष्णुर्देवेंद्रैश्च समन्वितः । त्यक्त्वा वैकुंठमेवं स ययौ शंभुं
शरण्यकम् ॥१॥ गत्वा कैलासके दक्ष शिवं नत्वा जनार्दनः । स्तुत्वा वृत्तांतमेवं स कथयामास विस्तरात् ॥२॥ श्रुत्वा
महेश्वरो विष्णुं स देवं स्वपुरागतम् । सांत्वयामास युक्तैश्च नानादृष्टांतदर्शनैः ॥३॥ शिव उवाच । मा चिंतां कुरु विष्णो
त्वं सर्वज्ञ जगदीश्वर । तपःपुण्यं महोग्रं यत्तेन त्वं स पराजितः ॥४॥ तपः कृतं च लोभेन फलं तस्य जनार्दन । भुक्त्वा
खं. ४ अ. ३९ पान १०१
मरिष्यते नाथ कालस्तत्र प्रतीक्ष्यताम् ॥५॥ देवैः सह महाविष्णो मत्समीपे स्थिरो भव । मदीयभक्तियुक्तो ह्यागमिष्य-
त्यत्र नैव सः ॥६॥ एवमुक्त्वा वचो विष्णुं शंकरः शोकसंयुतः । देवैस्तेन समायुक्तोऽतिष्ठत् कैलासपर्वते ॥७॥ अथ
लोभासुरं सर्वैः संस्थितं दानवैर्वृतम् । इंद्रासने महाबाहुं तमूचुर्दानवोत्तमाः ॥८॥ विप्रचित्त्याद्या ऊचुः । लोभ लोभ महाभाग
शृणु नो वचनं हितम् । विष्णुर्देवगणैः सर्वैः कैलासे शंकरं ययौ ॥९॥ अस्माकं शंकरः सोऽपीष्टदेवः पूज्य आदरात् ।
शत्रून् रक्षति नः शंभुर्भविष्यति विपक्षगः ॥१०॥ अधुना शंकरस्यास्य भावार्थं प्रेष्यतां महान् । दूतः सर्वार्थसूज्ञः कस्ततः
क्षेमं भविष्यति ॥११॥ शिवो यदि स देवानां पक्षगो भवति प्रभो । तदा शंभुं प्रजेष्यामस्तपोबलसमन्विताः ॥१२॥
न ते शंभुर्वरस्यैव दाता जानीहि मानद । कर्मणां फलदातारः कृता देवाश्च कर्मणा ॥१३॥ कर्माधीनं जगत् सर्वं सदेवासुर-
मानुषम् । कर्माज्ञावशगं दैत्य कर्मणा त्वं महाप्रभुः ॥१४॥ देवाः कर्मफलं लोभाद्दते न विशेषतः । तदैश्वर्यविहीनास्ते
पतंति स्वपदात् किल ॥१५॥ अतस्त्यक्त्वा स्वसंदेहं त्यज शंभुं विपक्षगम् । कुरु कर्माश्रयं त्वं वै तेन क्षेमं भविष्यति ॥१६॥
इत्युक्त्वा दानवेंद्रास्ते विरामं चक्रुरंजसा । लोभासुरस्तस्तेषां वचने निरतोऽभवत् ॥१७॥ गजासुरं महावीर्यं प्रेषयामास
सत्वरम् । कैलासे शंकरस्यैव भावार्थं भावधारकः ॥१८॥ गत्वा शंभुं महादैत्यः प्रणम्य प्रत्युवाच सः । वचनं लोभदैत्येन
प्रेषितं सामपूर्वकम् ॥१९॥ गजासुर उवाच । महादेव नमस्तुभ्यं शृणु मे वचनं हितम् । लोभासुरेण देवेश प्रेषितोऽहं
विशेषतः ॥२०॥ तेन संकथितं वाक्यं तच्छृणुष्व सुखप्रदम् । त्वं साक्षादीश्वरः पूर्णोऽस्माकं पूज्यो निरंतरम् ॥२१॥
विष्णुर्देववरः स्वामिन्नागतस्ते प्रसन्निधौ । अस्माकं शत्रुरेवाऽसौ तं त्यज त्वं सदाशिव ॥२२॥ वयं भक्तास्त्वदीयाश्चास्माकं
मित्रं तदेव ते । मित्रं शत्रुस्तथा शंभो पालयस्वावराद्वि नः ॥२३॥ नो चेत् संग्रामभावेन जेष्यामस्त्वां न संशयः । कर्मणा
त्वं समर्थश्चेत् संजातो भुंक्ष्व विष्टपम् ॥२४॥ कर्मणा लोभकः शंभो सर्वैश्वर्ययुतोऽधुना । तस्मादस्मान् महाभाग रक्ष ते
भक्तिसंयुतान् ॥२५॥ तस्य तद्वचनं श्रुत्वाऽब्रवीन्निःश्वस्य शंकरः । गुजासुरं स्वयं साम्ना वचनं हितकारकम् ॥२६॥
शिव उवाच । गजासुर महालोभं वद मे वचनं हितम् । गत्वा तं दानवेंद्रं त्वं सर्वासुरसमन्वितम् ॥२७॥ कैलासं विष्णुना
त्यक्त्वा सहितोऽहं स्वदेवपैः । गच्छामि यत्र कुत्रापि न त्यजामि जनार्दनम् ॥२८॥ कर्मणा त्वं समर्थश्चेत् संजातो भुंक्ष्व
विष्टपम् । सर्वं चराचरं तेऽभूत् स्वाधीनं नात्र संशयः ॥२९॥ एवमुक्त्वा सुदुर्बुद्धिं शंकरः सुरनायकैः । जगाम पर्वतोद्देशे
खं. ४ अ. ४०
पान १०२
त्यक्त्वा कैलासमात्मनः ॥३०॥ महावने महेशानः पर्वतद्रोणिमाश्वितः । देवैर्विष्णुमुखैः सर्वैः पशुवत् कालचालकः ॥३१॥
गजासुरः सभां गत्वा जगाद सकलैर्युतम् । लोभासुरं स वृत्तांतं श्रुत्वा संहर्षितोऽभवत् ॥३२॥ ततः स सत्यलोके च
वैकुंठेशंकरालये । दानवान् स्थापयामास नानादेवपदेषु वै ॥३३॥ इंद्रासनं परित्यज्य ययौ भूम्यां महासुरः । स्वपुरे
दानवेंद्रैश्चावसद्रोगपरायणः ॥३४॥ न ममर्शा निजात्मानं गर्वितः केवलं स तु । स्त्रीमांसमदिरादिष्वासंसक्तोऽभूत्
सुदुर्मतिः ॥३५॥ धन्यमात्मानमेवं स मन्यते स्म कृतार्थकम् । ब्रह्मांडं वशगं मेऽभून्न मत्तः श्रेष्ठ एककः ॥३६॥
॥ ओमिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे चतुर्थे खण्डे गजाननचरिते लोभासुरब्रह्माण्डजयो नामैकोनचत्वारिंशोऽध्यायः ॥
॥ श्रीगणेशाय नमः ॥ मुद्गल उवाच । ततो बहौ गते काले दानवा बलदर्पिताः । जगुर्लोभासुरं तत्र लोभयुक्ता विशेषतः
॥१॥ दानवेंद्रा ऊचुः । देवा लोभासुर स्वामिन्नस्माकं शत्रवो मताः । सुराश्चासुरवर्याणां वेदे प्रोक्ता विचारय ॥२॥ शस्त्रास्त्रै-
र्देवसंघास्ते न मरिष्यंति कर्हिचित् । अमरा वेदशास्त्रेषु कथिता नात्र संशयः ॥३॥ कर्मान्ना देवताः स्वामिन् क्षते कर्मणि
तत्क्षणात् । मरिष्यंति महाभाग तदर्थं यत्नमाचर ॥४॥ जित्वा ब्रह्मांडगोळं किं संस्थितोऽसि महासुर । न कृतार्थस्त्वमेवैवं
कदा जीवत्सु शत्रुभु ॥५॥ हिरण्यकशिपुर्जित्वा पुरा देवगणान् स्वयम् । राज्यं चकार सर्वत्र भुवनेषु न संशयः ॥६॥ ततो
देवैः प्रयत्नेन निर्मितो नृहरिः प्रभो । तेन हत्वा सुराधीशं देवाः स्वस्थानगा बभुः ॥७॥ अतस्त्वं दैत्यराजेंद्र हितं कुरु
विशेषतः । तदा चिरं महाराज सुखयुक्तो भविष्यसि ॥८॥ तेषां वचनमाकर्ण्य लोभासुरः सुमंदधीः । आज्ञापयत्ततो
दैत्यो दैत्येंद्रान् कर्मखंडने ॥९॥ ततो गजासुराद्याश्च निर्गता क्रोधसंयुताः । यत्र तत्र द्विजान् धृत्वा जघ्नुर्यज्ञान् विशेषतः
॥१०॥ यज्ञवृक्षांस्तथा गाश्च तीर्थानि यत्र तत्र ते । जघ्नुर्बभंजुरत्यंतं कर्मखंडनकारणात् ॥११॥ बभंजुः क्रोधसंयुक्ता देवता-
ऽऽयतनानि ते । स्वधर्मस्थं जनं दृष्ट्वा जघ्नुर्दानवसत्तमाः ॥१२॥ सर्वत्र दानवाधीशैर्लोभासुरस्य मूर्तयः । जनैः पूज्याः कृता दक्ष
तदाधारं बभूव ह ॥१३॥ न स्वाहा न स्वधा कुत्र बभूव प्रलये यथा । न वषट्कारगं कर्म त्रासितं भूमिमंडलम् ॥१४॥
लोभासुरयुतं सर्वैः कर्म तैः प्रतिपादितम् । ततो हाहारवैर्युक्ता बभूवुर्मानवाः प्रभो ॥१५॥ ब्राह्मणा वनगा भूत्वा केचिन-
मरणनिश्चयाः । चक्रुः कर्म तथा भ्रष्टा बभूवुर्बहवो द्विजाः ॥१६॥ एवं बहौ गते काले देवाः परमदुःखिताः । उपवासपराः
सर्वे बभूवुस्ते प्रजापते ॥१७॥ ततोऽतियत्नसंयुक्ता विचारं चक्रुरंजसा । लोभासुरविनाशाय न प्रापुस्ते दिवौकसः ॥१८॥
ततोऽतिदुःखिताः सर्वे किं कुर्म इति विह्वलाः । संतस्थुः पर्वतोद्देशे गुप्तभावेन देवपाः ॥१९॥ तत्राऽऽजगाम योगींद्रो रैभ्यः
सर्वप्रियंकरः । अवधूतः स्वरूपेण साक्षाद्विघ्नेश्वरो यथा ॥२०॥ तं प्रणम्य शिवाद्यास्ते पप्रच्छुर्लोभनाशकम् । उपायं
दीनभावेन सास्थिचर्मावशेषिताः ॥२१॥ ततोऽतिकरुणायुक्तो रैभ्यः सर्वार्थकोविदः । जगाद तान् सुरेंद्रान् स दीनान्
दृष्ट्वा विशेषतः ॥२२॥ रैभ्य उवाच । शृणुध्वं विष्णुशंभावाद्या मुनयस्तत्त्वभाविताः । लोभासुरो महापापी दुर्जयो नात्र संशयः
॥२३॥ विघ्नराजं तदपि वै भजध्वं भक्तिसंयुताः । तेनाऽयं सुजयो देवा भविष्यति विशेषतः ॥२४॥ स्वयं साक्षाद् बुद्धि-
पतिर्बुद्धिं संचालयिष्यति । गजाननस्य मंत्रं वै जपध्वं विधिपूर्वकम् ॥२५॥ एवमुक्त्वा महायोगी रैभ्यः स्वच्छंदगोऽभवत् ।
शिवाद्यो महाभागा हर्षिताः संबभूविरे ॥२६॥ गजाननस्य मंत्रं ते जेपुस्तपःपरायणाः । सविधिं ध्यानसंयुक्तास्तोषया-
मासुरन्वहम् ॥२७॥ निराहारप्रभावेण संतुष्टो भक्तिभावितः । शतवर्षेषु देवेशानाययौ स गजाननः ॥२८॥ दृष्ट्वा गजाननं
ते तु हर्षिता देवनायकाः । देवा मुनिगणाः सर्वे पुपूजुः स्नेहसंयुताः ॥२९॥ कृत्वा करपुटं भक्त्या तुष्टुवुस्तं गजाननम् ।
पुनरुत्थाय ते सर्वे प्रणेमुस्तं गजाननम् ॥३०॥ देवर्षय ऊचुः । गजानन नमस्तुभ्यं सर्वेषां बीजरूपिणे । निर्बीजाय गणेशाय
विघ्नानां पतये नमः ॥३१॥ अनंतायैकदंताय हेरंबाय नमो नमः । चतुर्भुजाय सर्वेश सर्वपूज्याय ते नमः ॥३२॥ सर्वसिद्धि-
प्रदात्रे च सुरासुरमयाय ते । सिद्धिबुद्धिप्रचालाय सिद्धिबुद्धिपते नमः ॥३३॥ अगुणाय गुणेशाय गुणरूपाय गौणिने ।
मायामयाय मायायाश्चालकाय परात्मने ॥३४॥ सर्वाद्ये महोदार पराक्रमपराय ते । स्वानंदवासिने तेऽस्तु नमः स्वानंद-
दायिने ॥३५॥ योगाकाराय योगानां स्वामिने शांतिदायिने । ब्रह्मणस्पतये तेऽस्तु ब्रह्मणां ब्रह्मणे नमः ॥३६॥ अनाधाराय
सर्वेषामाधाराय नमो नमः । आदिमध्यांतहीनायादिमध्यांताय ते नमः ॥३७॥ परश्वंकुशहस्ताय त्रिनेत्राय महोदर ।
नमो मूषकवाहाय मूषकध्वजिने नमः ॥३८॥ नमो नमस्ते सकलाय धाम्ने सदा सुखानंदकराय पात्रे । जगत् सुस्रष्ट्रे
सकलस्य हंत्रे गुणैर्विहीनाय गणाधिपाय ॥३९॥ विदेहरूपाय पराय भोक्त्रे बोधेन हीनाय सुसांख्यकाय । सदा स्वबुद्धौ
परसंस्थिताय गजात्मरूपाय नमो नमस्ते ॥४०॥ बोधहीनं च यद्ब्रह्म तदेव गजवाचकम् । गजचिह्नेन योगींद्राः पश्यंति
खं. ४ अ. ४१ पान १०४
त्वां गजाननम् ॥४१॥ यथा मुखस्य चिह्नेन ज्ञायंते मानवादयः । तथा विदेहचिह्नेन ज्ञायसे त्वं तु योगिभिः ॥४२॥ विदेहं
गजरूपं यत्तेन ते मुखमुच्यते । गणेशस्य प्राप्तिकरं गजानन नमोऽस्तु ते ॥४३॥ किं स्तवाम गणाधीश यन्न वेदादिकास्तथा ।
योगिनः शांतिमापन्नास्तं वयं शरणं गताः ॥४४॥ स्तुत्वा विघ्नेश्वरं ते तु प्रणेमुस्तं पुनः पुनः । तानुवाच गणाधीशो हर्षयन्
सर्वभाववित् ॥४५॥ गजानन उवाच । स्तोत्रं भवत्कृतं देवा ईश्वरा मुनयश्च मे । सर्वसिद्धिप्रदं पूर्णं भविष्यति निरंतरम्
॥४६॥ यद्यदिच्छति तत्तद्वै दास्यामि भक्तियंत्रितः । पठनाच्छ्रवणादस्य संतुष्टोऽहं विशेषतः ॥४७॥ वरदोऽहं वृणुत वो
दास्यामि वरमीप्सितम् । तपसा भक्तिभावेन स्तोत्रेण तुष्टिमागतः ॥४८॥ गजाननवचः श्रुत्वा हर्षिता देवतर्षयः ।
प्रत्यूचिरे प्रणम्येदं वचनं सर्वसौख्यदम् ॥४९॥ देवर्षय ऊचुः । लोभासुरेण भो स्वामिन् त्रासितं भुवनत्रयम् । वयं
कर्मविहीनत्वादुपोषणयुताः कृताः ॥५०॥ अतस्त्वं जहि दैत्येशं सर्वाजेयं गजानन । तव भक्तिं दृढां देहि लोभहीनां
विशेषतः ॥५१॥ तेषां वचनमाकर्ण्य गजानन उवाच तान् । मा भयं कुरुत प्राज्ञा हनिष्यामि महासुरम् ॥५२॥ लोभहीना
मदीया या भक्तिर्वश्च भविष्यति । अधुना दानवेंद्रं तं जेष्यामि च न संशयः ॥५३॥ मुनीन् देवानेवमुक्त्वाऽभवत्तत्रैव
संस्थितः । सर्वेषां कार्यसिद्ध्यर्थं गजाननः प्रतापवान् ॥५४॥
॥ ओमिति श्रीमदन्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे चतुर्थे खंडे गजाननचरिते गजाननप्रादुर्भावो नाम चत्वारिंशोऽध्यायः ॥
❖❖❖❖
॥ श्रीगणेशाय नमः ॥ मुद्गल उवाच । दूतं गजाननस्तत्र प्रेषयामास शंकरम् । स गत्वा दैत्यपं दक्ष जगाद शृणु तद्वचः ॥१॥
शिव उवाच । शृणु लोभासुर त्वं मे वचनं हितकारकम् । करिष्यसि यदा सान्ना भविष्यसि तदा सुखी ॥२॥ गजाननः स्वयं
साक्षाद्ब्रह्मणो नायकः स्मृतः । स आगतः सुरैः सर्वैर्देवेंद्रैर्मुनिभिर्वृतः ॥३॥ नगरप्रांतभागे ते दशयोजनदूरतः । संस्थितेन
च दैत्येश प्रेषितोऽहं विशेषतः ॥४॥ मदीयवरदानेन निर्भयोऽसि हि मानद । अतस्त्वदीयरक्षार्थं प्रेषयामास मां प्रभुः
॥५॥ ब्रह्मांडं वशमानीय त्वं सर्वेशोऽसि सांप्रतम् । देवान् पशुसमानांश्च कृत्वा दैत्यैर्निरंतरम् ॥६॥ अधुना वैरमुत्सृज्य
स्नेहं कुरु महामते । देवाः स्वपदगाः संतु ब्राह्मणाः कर्मकारिणः ॥७॥ गजाननस्य वर्तस्व मित्रभावेन दानव । भुंक्ष्व
खं. ४ अ. ४१ पान १०५
भोगान् महाभाग नोचेत्त्वां स हनिष्यति ॥८॥ शिवस्य वचनं श्रुत्वा क्रोधयुक्तो महासुरः । जगाद तं तिरस्कृत्य महादेवं
मदान्वितः ॥९॥ लोभासुर उवाच । कोऽसौ गजाननः शंभो त्वं भेदकर एव च । मोहयस्यधुना मां किं देवानां पक्षगः पुरः
॥१०॥ अधुना त्वां महादेव हन्मि क्रोधसमन्वितः । किं करोमि च दूतस्त्वं गच्छ देवं गजाननम् ॥११॥ वद वाक्यं मदीयं
त्वं हनिष्यामि सदेवकम् । गजाननं न संदेहः पश्य मे पौरुषं महत् ॥१२॥ एवं निर्भर्त्सितः शंभुः क्रोधारुणविलोचनः ।
जगाद तं महादैत्यं विशेषज्ञः सुदुर्मतिम् ॥१३॥ शिव उवाच । मृत्युयोगेन पापिष्ठ त्वं युतोऽसि न संशयः । गजाननं तेन
लोभ निंदसि ब्रह्मनायकम् ॥१४॥ शिवः पुनः सुदुर्बुद्धिमेवमुक्त्वा ययौ प्रभुम् । गजाननं प्रणम्यादौ वृत्तांतं संजगौ
पुनः ॥१५॥ तदाकर्ण्य वचः क्रूरं गजाननः प्रतापवान् । क्रोधसंरक्तचक्षुः सन् परशुं त्वक्षिपत्ततः ॥१६॥ अनंतादित्यसंकाशः
परशुः कालभीतिदः । आययौ दैत्यपुर्यां वै ज्वालामालाभिरावृतः ॥१७॥ तेजोमयं महास्त्रं तद् दृष्ट्वा दैत्यगणाः परम् ।
भयभीता ययुस्तं ते हाहाकाररवाकुलाः ॥१८॥ दानवेंद्रैः सभासंस्थं लोभं दृष्ट्वा सुखं वचः । जगुर्दारुणरूपं यत् सर्वेभ्यो
भयदायकम् ॥१९॥ नागरा ऊचुः । किं स्थितोऽसि महादैत्य लोभ ज्वालासमाकुलम् । अस्त्रं समागतं क्रूरं दाहयामास
दानवान् ॥२०॥ तेषां तद्वचनं श्रुत्वा भयहर्षसमन्वितः । जगाद दानवाधीशान् महाकोपयुतोऽसुरः ॥२१॥ लोभासुर उवाच ।
गजाननोऽमरैः सार्धं समायातो न संशयः । समर्थो दृश्यते नूनं यस्यास्त्रबलमीदृशम् ॥२२॥ तस्य तद्वचनं श्रुत्वा दानवेंद्रा
महाबलाः । ऊचुः प्रांजलयः सर्वे मा भयं कुरु सत्तम ॥२३॥ गजाननं हनिष्यामः पश्यति त्वयि मानद । एवमुक्त्वा ययुः
सर्वे दंशिता योद्धुमाहताः ॥२४॥ ततस्तैर्यमसङ्काशैर्दृष्टं तेजोमयं महत् । अस्त्रं ब्रह्मपते क्रूरं प्रलयस्य प्रकाशकम् ॥२५॥
ददाह दानवांस्तत्र सर्वतस्तीक्ष्णतेजसा । हाहाकाररवाः सर्वे पप्लुर्भयविह्वलाः ॥२६॥ दानवेंद्रैस्ततो दक्ष मेघास्त्रं मोचितं
महत् । जलौघैः सर्वतो मेघा ववृषुद्दारुणं परम् ॥२७॥ जलं सर्वं महास्त्रं तच्छोषयामास तत्क्षणात् । मेघस्थं ते ततो
मेघा निस्तेजस्का बभूविरे ॥२८॥ दैत्येंद्रान् दैत्यमुख्यांश्च ज्वालया परशुस्तदा । ददाह च ततो भीता पप्लुर्यत्र तत्र ते
॥२९॥ तद् दृष्ट्वा परमाश्चर्यं स लोभासुर आययौ । रथारूढो महातेजास्तन्निवृत्त्यर्थमाहतः ॥३०॥ पश्यतो दैत्यराजस्य
ज्वालाऽकस्मात् समागता । रथं साश्वं ददाहाऽपि ततः शस्त्राणि सर्वतः ॥३१॥ ततः पपाल दैत्येंद्रः कविं लोभासुरो
ययौ । तं प्रणम्य महाभागं पप्रच्छ विनयान्वितः ॥३२॥ लोभासुर उवाच । स्वामिन् गजाननो देव आगतः स महाबलः ।
खं. ४ अ. ४१
पान १०६
दाहयामास शस्त्रेणाऽनिवार्येण रथं स मे ॥३३॥ तन्निवृत्त्यर्थमेवाहं न पश्यामीह किंचन । अतस्ते शरणं नाथ प्राप्तोऽहं रक्ष
मां मुने ॥३४॥ मनोवाणीमयं सर्वं तस्मान् मृत्युनं मे भवेत् । नामरूपधरः सोऽपि कथं मां धक्ष्यति प्रभो ॥३५॥ यदि मे
मरणं प्राप्तमेवं तर्ह्यस्तु सांप्रतम् । देवानां शरणं नाथ न गमिष्यामि कर्हिचित् ॥३६॥ अतो वद महाभाग उपायं
हितदायकम् । त्वदाधारं च योगींद्र जीवनं मे प्रवर्तते ॥३७॥ इति तस्य वचः श्रुत्वा शुक्रः सर्वज्ञमुख्यकः । लोभासुरं
भयोद्विग्नं तं जगाद प्रहर्षयन् ॥३८॥ शुक्र उवाच । मा कुरुष्व भयं वत्स शृणु मे वचनं हितम् । तत् समाचर दैत्येंद्र ततः
क्षेमं भविष्यति ॥३९॥ गजाननः प्रसन्नात्मा यदिच्छति महासुर । तदेव सत्यरूपं वै भविष्यति न संशयः ॥४०॥
ब्रह्मणां नायकः प्रोक्तो गच्छ तं विनयान्वितः । नाऽयं देवाधिपो दैत्य सुरासुरमयः प्रभुः ॥४१॥ एवं तस्य वचः श्रुत्वा
लोभस्तं पुनरब्रवीत् । निःश्वस्य देवपैः सार्धं कथं योद्धुं समाययौ ॥४२॥ मध्यस्थश्चेन् महाभागं तं गच्छामि शरण्यकम् ।
न लज्जा तेन मे स्वामिन् संशयं छिंधि हृत्स्थितम् ॥४३॥ शुक्र उवाच । देहरूपं महद्ब्रह्म देहात्मा वेदभाषितम् । तयोर्योगे
महादैत्य बोधोऽसि पदवाचकः ॥४४॥ बोधनाशे विदेहाख्यं ब्रह्म सौख्यं प्रकीर्तितम् । सुसिद्धिदं तदेव त्वं विजानीहि
गजाननम् ॥४५॥ सर्वेषां बीजरूपं यत्तस्य बीजं न विद्यते । तदेव गजशब्दाख्यं ब्रह्म वेदे प्रकीर्तितम् ॥४६॥ गजचिह्नेन
गच्छंति योगिनो हि गजाननम् । तेन नाम्ना समाख्यातो मुनिभिस्तत्त्वदर्शिभिः ॥४७॥ यथा मुखस्य चिह्नेन ज्ञायते
मानवादिभिः । गजचिह्नेन तद्ब्रह्म ज्ञायते योगिभिः सदा ॥४८॥ तेनैव स्थापितं विश्वं बोधरूपं महामते । स्वस्वधर्मयुतं
पूर्णं तत्राऽयं संस्थितोऽभवत् ॥४९॥ पाताले दानवानां च राज्यं स्वर्गे दिवौकसाम् । पृथिव्यां मानवानां वै त्रिविधं
रचितं पुरा ॥५०॥ यदा देवा महाभाग लोभयुक्ता मदान्विताः । पातालस्थान् दैत्यगणाञ्जघ्नुर्मूलविनाशकाः ॥५१॥ तदाऽयं
देहधारी च दैत्येभ्यो वरदोऽभवत् । देवानां विघ्नसंदाता गणेशः सर्वभाववित् ॥५२॥ ततो दैत्यगणाः सर्वे बलयुक्ता
सुरेंन्द्रकान् । जघ्नुर्वीरश्रिया राजन् विघ्नहीनप्रभावतः ॥५३॥ यदा दैत्या महालोभ लोभयुक्ता विशेषतः । देवानां
जीवनाशार्थमभवन् कर्मखंडनात् ॥५४॥ तदा विघ्नेश्वरः साक्षाद्देहं धृत्वा च दानवान् । हत्वा स्वस्थानगान् देवानकरोद्धर्म-
पालकः ॥५५॥ सुराऽसुरादयः सर्वे स्वस्वधर्मरता यदा । तदाऽयं ब्रह्मरूपः संश्चित्ते चिंतामणिर्बभौ ॥५६॥ चित्तरूपा स्वयं
बुद्धिर्भ्रांतिरूपा महामते । सिद्धिस्ताभ्यां गणाधीशः खेलति ब्रह्मनायकः ॥५७॥ स्वसंवेद्यात् मनस्तस्य दर्शनं जायते यतः ।
खं. ४ अ. ४२ पान १०७
तेनाऽयं गणपः स्वानंदवासी कथ्यते बुधैः ॥५८॥ अतस्तस्यैव दैत्येंद्र शरणं सुखदं भवेत् । अन्यथा सकलं हत्वा मरिष्यसि
न संशयः ॥५९॥ गजाननस्य दैत्येश शस्त्रं ब्रह्ममयं ह्यतः । तस्मै कुरु नमो भक्त्या शांतरूपं भविष्यति ॥६०॥
॥ ओमिति श्रीमदांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे चतुर्थे खंडे गजाननचरिते शुक्नोपदेशवर्णनं नामैकचत्वारिंशोऽध्यायः ॥
॥ श्रीगणेशाय नमः ॥ मुद्गल उवाच । शुक्रस्य वचनं श्रुत्वा लोभासुरः प्रणम्य तम् । तथेति प्रतिपाद्यैव सकविः शरणं
ययौ ॥१॥ नगरप्रांतभागे तच्छस्त्रं गजाननस्य च । समीपसंस्थान् जज्वल दानवादीन् समास्थितम् ॥२॥ तं प्रणम्य
महादैत्यो लोभः परशुमुत्तमम् । कृतांजलिः प्रतुष्टाव भयभीतः समंततः ॥३॥ लोभासुर उवाच । नमस्ते शस्त्रराजाय शस्त्राणां
ब्रह्मरूपिणे । नानाशस्त्राणि शस्त्रेश त्वदाधाराणि ते नमः ॥४॥ प्रलयानलसंकाशं स्वरूपं धरते नमः । अनंतवीर्ययुक्ताय
भास्करामिततेजसे ॥५॥ दृश्यादृश्यमयायैव सर्वदर्पहराय ते । धर्मसंस्थापनार्थाय नानारूपधराय च ॥६॥ साक्षाद्गजाननस्यैव
यद्वीर्यं नियतात्मकम् । तदेव त्वं महाशस्त्रं किं ते स्तौमि नमो नमः ॥७॥ शरणागतपालाय सदा स्वानंदसंस्थित । रक्ष
मां भयभीतं भोः परशो ते नमो नमः ॥८॥ एवं लोभासुरं संस्तुवंतं तं तु महाबलम् । काव्येन शस्त्रराजं तच्छांतिरूपधरं
बभौ ॥९॥ गत्वा गजाननस्यैव हस्तगं तद्बभूव ह । लोभासुरः स शुक्रेणाऽऽययौ विघ्नेश्वरं ततः ॥१०॥ समागतं महादैत्यं
दृष्ट्वा देवर्षयोऽभवन् । विस्मिता हर्षिताः सर्वे परस्परमुखेक्षणाः ॥११॥ गजाननं प्रणम्यैव लोभासुरः प्रतापवान् । काव्येन
पूजयामास भक्तियुक्तो विशेषतः ॥१२॥ प्रणम्य तं पुनर्देत्यः कृत्वा करपुटं प्रभुम् । गजाननं भावसंयुक्तस्तुष्टाव
प्रहर्षितः ॥१३॥ लोभासुर उवाच । नमस्ते गजवक्त्राय नानासिद्धिप्रदायिने । बुद्धिचालकवेषाय ब्रह्मणे वै नमो नमः ॥१४॥
हेरंबाय सदा स्वानंदवासिने महात्मने । परात्परतरायैव विघ्नेशाय नमो नमः ॥१५॥ सुरासुरप्रियकर सुरासुरमयाय ते ।
लोभयुक्तान् विधर्मस्थान्नाशनाय नमो नमः ॥१६॥ देवानां पालकायैव दैत्यानां रक्षकाय ते । सर्वेषां दर्पहंत्रे वै गणेशाय
नमो नमः ॥१७॥ लंबोदराय देवेश दैत्येश मूषकध्वज । अनादये च सर्वेषामादिरूपाय ते नमः ॥१८॥ आदिमध्यांत-
हीनायादिमध्यांतस्वरूपिणे । ब्रह्मेशाय महेशानां पालकाय नमो नमः ॥१९॥ ब्रह्मभ्यो ब्रह्मदात्रे च सदा शांतिधराय
खं. ४ अ. ४२ | पान १०८
ते । शांतीनां शांतिरूपाय नमो योगाय वै नमः ॥२०॥ एकदंताय सर्वेश वक्रतुंडाय ते नमः । महोदराय पूर्णाय पूर्णानंदाय
ते नमः ॥२१॥ सर्वेषां मूलबीजाय मात्रे पित्रे नमो नमः । ज्येष्ठराजाय ज्येष्ठानां पालकाय नमो नमः ॥२२॥ बीजरूपं
गणाधीश जगतां ब्रह्मणां गजम् । चिह्नेन लभ्यसे तेन गजानन नमोऽस्तु ते ॥२३॥ बोधहीनाय रूपाय सदा सांख्यमयाय
च । विदेहाय नमस्तुभ्यं प्रत्यक्षं रूपधारिणे ॥२४॥ यं स्तोतुं न समर्थाश्च वेदा योगिशिवादयः । तं किं स्तौमि गणाधीश
नमस्ते वरदो भव ॥२५॥ त्वद्दर्शनजमाहात्म्यात् संस्तुतोऽसि महाप्रभो । तेन मेऽभयदो भूत्वा रक्ष दासं विशेषतः ॥२६॥
एवं स्तुत्वा महालोभः प्रणनाम गजाननम् । तमुवाच दयासिंधुर्भक्तं भक्तप्रपालकः ॥२७॥ गजानन उवाच । वरं वृणु महालोभ
ददामि मनसीप्सितम् । प्रसन्नोऽहं विशेषेण भक्त्या काव्यप्रदत्तया ॥२८॥ त्वया कृतमिदं स्तोत्रं सर्वसिद्धिकरं भवेत् ।
पठतः शृणवतश्चैव लोभ तं नैव पीडय ॥२९॥ पुत्रपौत्रादिसंयुक्तो भुक्त्वा भोगान् मनेप्सितान् । अंते स्वानंदलोके स
ब्रह्मभूतो भविष्यति ॥३०॥ यः स्तौति मामनेनैव स मे मान्यो न संशयः । सदा सुरस्वभावेन हीनः सोऽपि भविष्यति
॥३१॥ त्वां हंतुं क्रोधसंयुक्त आगतोऽहं न संशयः । शरणागतमेवं तु दानवोत्तम हन्मि न ॥३२॥ गजाननवचः श्रुत्वा लोभो
हर्षसमन्वितः । उवाच तं महाबुद्धिर्भावेन ब्रह्मनायकम् ॥३३॥ लोभासुर उवाच । गजानन वरं मे त्वं देहि संपूर्णदायक ।
तव भक्तिस्वरूपं च गाणपत्यप्रियात्मताम् ॥३४॥ स्थानं देहि विशेषेण प्रभो वृत्तिं च शाश्वतीम् । कार्यं कथय सर्वेश
करिष्यामि गजानन ॥३५॥ गजानन उवाच । मदीया भक्तिराद्या ते भविष्यति महामते । गाणपत्येषु ते स्नेहो वृद्धिं यास्यति
नित्यदा ॥३६॥ स्वस्थाने त्वं स्थिरो भूत्वा तिष्ठ मे भक्तिसंयुक्तः । यत्र मे स्मरणं नास्ति पूजनं वाऽसुरोत्तम ॥३७॥ आदौ
कर्मादिषु प्राज्ञ तत् समाहर नित्यदा । यथा देवाः प्रिया मे तु तथा त्वमपि लोभक ॥३८॥ मम भक्ताश्च ये दैत्य तान्
रक्षस्व विशेषतः । मदीयभक्तिरूपं तु लोभ वर्धय तेषु वै ॥३९॥ एवमुक्तः प्रभुं लोभस्तं प्रणम्य गजाननम् । काव्येन
सहितः सोऽपि स्वपुरं प्रययौ प्रभो ॥४०॥
॥ ओमिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे चतुर्थे खण्डे गजाननचरिते लोभासुरशांतित्वर्णनं नाम द्विचत्वारिंशोऽध्यायः ॥
खं. ४ अ. ४३ पान १०९
॥ श्रीगणेशाय नमः ॥ मुद्गल उवाच । शांतिरूपधरं लोभं दृष्ट्वा देवर्षयोऽमलाः । गजाननं निजं नाथं हर्षिता नेमुरादरात् ॥१॥
गजाननं पूजयित्वा विधानेन सुरर्षयः । पुनः प्रणम्य तं सर्वे तुष्टुवुः करसंपुटैः ॥२॥ विदेहरूपं भवबंधहारं सदा स्वनिष्ठं
स्वसुखप्रदं तम् । अमेयसांख्येन च लभ्यमीशं गजाननं भक्तियुता भजामः ॥३॥ मुनींद्रवंद्यं विधिबोधहीनं सुबुद्धिदं
बुद्धिधरं प्रशांतम् । विकालहीनं सकलांतगं वै गजाननं भक्तियुता भजामः ॥४॥ अमेयरूपं हृदि संस्थितं तं ब्रह्माहमेकं
भ्रमनाशकारम् । अनादिमध्यांतमपाररूपं गजाननं भक्तियुता भजामः ॥५॥ जगत्प्रमाणं जगदीशमेवमगम्यमाद्यं जगदादि-
हीनम् । अनात्मनां मोहप्रदं पुराणं गजाननं भक्तियुता भजामः ॥६॥ न भूर्न रूपं न जलं प्रकाशं न तेजसिस्थं न समीरण-
स्थम् । न खे गतं पंचविभूतिहीनं गजाननं भक्तियुता भजामः ॥७॥ न विश्वगं तैजसगं न प्राज्ञं समष्टिव्यष्टिस्थमनंतगं न ।
गुणैर्विहीनं परमार्थभूतं गजाननं भक्तियुता भजामः ॥८॥ गुणेशगं नैव च बिंदुसंस्थं न देहिनं बोधमयं न हुंढिम् ।
संयोगहीनाः प्रवदंति तत्स्थं गजाननं भक्तियुता भजामः ॥९॥ अनागतं नैव गतं गणेशं कथं तदाकारमयं वदामः ।
तथापि सर्वं प्रभुदेहसंस्थं गजाननं भक्तियुता भजामः ॥१०॥ यदि त्वया नाथ कृतं न किंचित्तदा कथं सर्वमिदं विभाति ।
अतो महात्मानमचिंत्यमेव गजाननं भक्तियुता भजामः ॥११॥ सुसिद्धिदं भक्तजनस्य देवं स कामिकानामिह सौख्यदं
तम् । अकामिकानां भवबंधहारं गजाननं भक्तियुता भजामः ॥१२॥ सुरेंद्रसेव्यं ह्यसुरैः सुसेव्यं समानभावेन विराजयंतम् ।
अनंतवाहं मुषकध्वजं तं गजाननं भक्तियुता भजामः ॥१३॥ सदा सुखानंदमये जले च समुद्रजे चेक्षुरसे निवासम् ।
द्वंद्वस्य पानेन च नाशरूपे गजाननं भक्तियुता भजामः ॥१४॥ चतुःपदार्था विविधप्रकाशास्त एव हस्ताः स चतुर्भुजं
तम् । अनाथनाथं च महोदरं वै गजाननं भक्तियुता भजामः ॥१५॥ महाखुमारूढमकालकालं विदेहयोगेन च लभ्यमानम् ।
अमायिनं मायिकमोहदं तं गजाननं भक्तियुता भजामः ॥१६॥ रविस्वरूपं रविभासहीनं हरिस्वरूपं हरिबोधहीनम् ।
शिवस्वरूपं शिवभासनाशं गजाननं भक्तियुता भजामः ॥१७॥ महेश्वरीस्थं च सुशक्तिहीनं प्रभुं परेशं परवंद्यमेवम् ।
अचालकं चालकबीजभूतं गजाननं भक्तियुता भजामः ॥१८॥ शिवादिदेवैश्च खगैः सुवंद्यं नरैर्लतावृक्षपशुप्रभूमिः ।
चराचरैर्लोकविहीनमेवं गजाननं भक्तियुता भजामः ॥१९॥ मनोवचोहीनतया सुसंस्थं निवृत्तिमात्रं ह्यजमव्ययं तम् ।
तथापि देवं पुर आस्थितं तं गजाननं भक्तियुता भजामः ॥२०॥ वयं सुधन्या गणपस्तवेन तथैव नत्यार्चनतस्तवैव ।
पान ११०
गणेशरूपाश्च कृतास्त्वया तं गजाननं भक्तियुता भजामः ॥२१॥ गजाख्यबीजं प्रवदंति वेदास्तदेव चिह्नेन च योगिनस्त्वाम् ।
गच्छंति तेनैव गजाननस्त्वं गजाननं भक्तियुता भजामः ॥२२॥ पुराणवेदाः शिवविष्णुकाद्याऽमराः शुकाद्या गणपस्तवे
वै । विकुंठिताः किं च वयं स्तवाम गजाननं भक्तियुता भजामः ॥२३॥ मुद्गल उवाच । एवं स्तुत्वा गणेशानं नेमुः सर्वे पुनः
पुनः । तानुत्थाप्य वचो रम्यं गजानन उवाच ह ॥२४॥ गजानन उवाच । वरं ब्रूत महाभागा देवाः सर्षिगणाः परम् ।
स्तोत्रेण प्रीतिसंयुक्तः परं दास्यामि वाञ्छितम् ॥२५॥ गजाननवचः श्रुत्वा हर्षयुक्ताः सुरर्षयः । जगुस्तं भक्तिभावेन
साश्रुनेत्राः प्रजापते ॥२६॥ देवर्षय ऊचुः । गजानन यदि स्वामिन् प्रसन्नो वरदोऽसि भोः । तदा भक्तिं दृढां देहि लोभहीनां
त्वदीयकाम् ॥२७॥ लोभासुरस्य देवेश कृता शांतिः सुखप्रदा । तदा जगदिदं सर्वं वरयुक्तं कृतं त्वया ॥२८॥ अधुना
देवदेवेश कर्मयुक्ता द्विजादयः । भविष्यंति धरायां वै वयं स्वस्थानगास्तथा ॥२९॥ स्वस्वधर्मरताः सर्वे गजानन कृतास्त्वया ।
अतःपरं वरं याचामहे ढुंढे कमप्यहो ॥३०॥ यदा ते स्मरणं नाथ करिष्यामो वयं प्रभो । तदा संकटहीनान् वै कुरु त्वं नो
गजानन ॥३१॥ एवमुक्त्वा प्रणेमुस्तं गजाननमनामयम् । स तानुवाच प्रीतात्मा भक्त्यधीनस्वभावतः ॥३२॥ गजानन उवाच ।
यच्च प्रार्थितं देवा मुनयः सर्वमंजसा । भविष्यति न संदेहो मत्स्मृत्या सर्वदा हि वः ॥३३॥ भवत्कृतमदीयं वै
स्तोत्रं सर्वत्र सिद्धिदम् । भविष्यति विशेषेण मम भक्तिप्रदायकम् ॥३४॥ पुत्रपौत्रप्रदं पूर्णं धनधान्यविवर्धनम् । सर्व-
संपत्करं देवाः पठनाच्छ्रवणा न्नृणाम् ॥३५॥ मारणोच्चाटनादीनि नश्यंति स्तोत्रपाठतः । परकृत्यं च विप्रेन्द्रा अशुभं नैव
बाधते ॥३६॥ संग्रामे जयदं चैव यात्राकाले फलप्रदम् । शत्रूच्चाटनकार्येषु प्रशस्तं तद्भविष्यति ॥३७॥ कारागृहगतस्यैव
बंधनाशकरं भवेत् । असाध्यं साधयेत् सर्वमनेनैव सुरर्षयः ॥३८॥ एकविंशतिवारं चैकविंशति दिनावधिम् । प्रयोगं यः
करोत्येव स भवेत् सर्वसिद्धिभाक् ॥३९॥ धर्मार्थकाममोक्षाणां ब्रह्मभूयस्य दायकम् । भविष्यति न संदेहः स्तोत्रं मद्भक्ति-
वर्धनम् ॥४०॥ एवमुक्त्वा गणाधीशस्तत्रैवांतरधीयत । देवाः सर्षिगणाः सर्वेऽभवन् खिन्ना इव प्रभो ॥४१॥ गजाननस्य
मूर्तिस्तैः स्थापिता सिद्धिदा ततः । नैर्ऋते कोणभागे स्म दर्शनेन सुखप्रदा ॥४२॥ तत्रैव संस्थिता देवा मुनयो भक्ति-
संयुताः । अंशेन स्वाधिकारेषु स्वाश्रमेषु गता बभुः ॥४३॥ ततः स्वधर्मसंयुक्ता बभूवुर्मानवा भुवि । यथायोग्यं जगत् सर्वं
बभूवे हर्षितं विधे ॥४४॥ एतद्गजाननस्यैव चरितं पापनाशनम् । भुक्तिमुक्तिप्रदं दक्ष कथितं ब्रह्मदं परम् ॥४५॥ यः पठेत्
पाठयेद्वापि शृणुते श्रद्धयान्वितः । स ईप्सितफलं भुक्त्वा ब्रह्मभूतो भविष्यति ॥४६॥
॥ ओमिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे चतुर्थे खण्डे गजाननचरिते देवमुनिकृतस्तुतिवर्णनं नाम त्रिचत्वारिंशोऽध्यायः ॥
॥ श्रीगणेशाय नमः ॥ दक्ष उवाच । धन्योऽहं मुद्गल स्वामिंस्त्वत्संङ्गान्नात्र संशयः । लोभशांतिकरं चित्रं श्रुतं भक्त्या
चरित्रकम् ॥१॥ न तृप्तोऽहं गजास्यस्य सुधापान इव प्रभो । वद क्षेत्रस्य माहात्म्यमधुना तस्य सर्वदम् ॥२॥ गजाननस्य
भक्त्यर्थमवतारान् धृतान् वद । संक्षेपेण महाभाग सर्वज्ञोऽसि च ते नमः ॥३॥ सूत उवाच । दक्षस्य वचनं श्रुत्वा मुद्गलो
हर्षसंयुतः । जगाद तं महाभागं महाभागो दयान्वितः ॥४॥ मुद्गल उवाच । अवतारा अनंताश्च गजाननस्य मानद । भक्तानां
कार्यसिद्ध्यर्थं कथनं नैव शक्यते ॥५॥ तथापि शृणु दक्ष त्वमवतारचरित्रकम् । गजाननस्य कथयामि समासेन सर्वदम्
॥६॥ पार्वत्या शंकरेणैवाऽऽराधितो गणनायकः । दिव्यवर्षसहस्रेण प्रसन्नो वरदोऽभवत् ॥७॥ ताभ्यां संपूजितो देवः स्तुतः
संयाचितोऽभवत् । त्वं पुत्रो भव नौ स्वामिन् संसारोत्तारणाय वै ॥८॥ तथेति प्रतिपाद्याऽसौ गणेशोऽन्तर्दधे स्वयम् ।
पुत्रः सिंधुवधायाभून् मयूरेश इति स्मृतः ॥९॥ हत्वा सिंधुं महावीर्यं गतः स्वानंदके पुरे । एवं नानाऽवतारान् स दधार
शिवयोर्गृहे ॥१०॥ अष्टकोट्यवताराश्च गणेशस्य प्रकीर्तिताः । शिवपुत्राश्च ते ख्याताः कार्यार्थं त्वंशभावतः ॥११॥
केचिच्छिवात् समुद्भूताः केचिच्छक्तेर्महात्मनः । उभयोर्योगतः केचित् कलांशा अभवन् पराः ॥१२॥ यादृशं संकटं प्राप्तं
तदर्थं संस्मृतो विभुः । तावत् कलांशयोगेन पुत्रोऽभूत् सुखदायकः ॥१३॥ कृत्वा कार्यस्य संसिद्धिं पुनः स्वानंदगोऽभवत् ।
तद्वियोगेन संतप्तौ शिवौ किल बभूवतुः ॥१४॥ अन्ये नानाऽवताराश्च कश्यपादिगृहेऽशतः । धृता गजाननेनैव वक्तुं नैव
प्रशक्यते ॥१५॥ इतिहास प्रवक्ष्यामि सर्वसिद्धिप्रदायकम् । गजाननावतारेण युक्तं शृणु प्रजापते ॥१६॥ एकदा निद्रितं
शंभुं ब्रह्माणं प्रययौ प्रभुः । किंचित् कार्यार्थमेवं तमुत्थाप्य स्वगृहेऽगमत् ॥१७॥ स उत्थितो महाजृंभां चकार क्रोधसंयुतः ।
तस्माज्जातः पुमानेको रक्तवर्णः सुशोभनः ॥१८॥ सुवासबहुलेनैव युक्तः काम इवापरः । तं दृष्ट्वा विस्मितो ब्रह्मा जगाद
यहाँ दिए गए पृष्ठ का देवनागरी में लिप्यंतरण प्रस्तुत है:
खं. ४ अ. ४४ | पान ११२
स महाबलम् ॥१९॥ ब्रह्मोवाच । कोऽसि त्वं पुरुषश्रेष्ठ किमर्थं ह्यागतो वद । एवं पृष्टः स तं देवं जगाद मेघनिःस्वनः ॥२०॥
पुमानुवाच । जृंभायास्ते समुत्पन्नः पुत्रोऽहं देवनायक । स्थानं नामादिकं देहि भक्षणं विविधं पितः ॥२१॥ ततोऽतिहर्षितो
ब्रह्मा पुत्रं दृष्ट्वा महाद्भुतम् । ददौ तस्मै विशेषेण वरांस्ताञ् शृणु मानद ॥२२॥ सुवासबहुलं रक्तं वपुस्ते तेन सिंदुर ।
नाम नानाविधान् भोगान् भुंक्ष्व सर्वत्रगः स्वयम् ॥२३॥ न बलेन समस्ते वै भविष्यति चराचरे । ब्रह्मांडजयसंयुक्तो
भव पुत्र ममाज्ञया ॥२४॥ यद्यदिच्छसि तत्तत्ते सफलं प्रभविष्यति । क्रोधादालिंगसे यं त्वं भस्मसात्तं करिष्यसि ॥२५॥
एवं नानावरान् दत्त्वा संस्थितं प्रपितामहम् । तं प्रणम्य स सिंदूरो जगामास्तुत्य भूतले ॥२६॥ शौनक उवाच । तपोहीनाय
दाताऽसौ ददौ संदुर्लभान् वरान् । किं कारणं वद प्राज्ञ संशयो मे महान् हृदि ॥२७॥ सूत उवाच । इच्छासंकल्पसिद्ध्यर्थं
तपस्तपति यो नरः । विपुले सोऽपि तपसि मृतो यदि भवेन् मुने ॥२८॥ अन्यस्मिन् जन्मनि प्राज्ञः फलयुक्तः प्रजायते ।
स्वल्पश्रमेण देवोऽपि वरं ददाति निश्चितम् ॥२९॥ एतत् ते कथितं सर्वं संशयच्छेदनं वचः । अधुना शृणु संवादं प्रकृतं यं
पुरा भवम् ॥३०॥ विचारं मार्गमध्ये स गत्वा सिंदूर आकरोत् । तपोहीनायाऽपि देवो मे ददाति वरं कथम् ॥३१॥
अतोऽहं वंचितो नूनं विधिना नात्र संशयः । लिंगयित्वा मृतं कुर्वे तं सत्यत्वदिदृक्षया ॥३२॥ निःसंशयं भवेदेवं विचार्य
सिंदुरासुरः । आययौ ब्रह्मणः सोऽपि समीपे क्रोधसंयुक्तः ॥३३॥ गर्जयित्वा विधातारमालिङ्गितुं प्रचक्रमे । तद् दृष्ट्वा
परमाश्चर्यं ब्रह्मोवाच सुदारुणम् ॥३४॥ ब्रह्मोवाच । मद्धरस्य प्रभावेन मां हंतुं समुपागतः । अतो दैत्योऽसि दुष्ट त्वमभाग्या-
न्नात्र संशयः ॥३५॥ पुत्रस्नेहेन रे दुष्ट वरा दत्ताः सुदुर्लभाः । अतो गजाननस्त्वां वै हनिष्यति कुलाधम ॥३६॥ एवमुक्त्वा
पपालाऽसौ विकुंठे शरणं ययौ । नारायणं च सिंदूरस्तमनु प्रययौ खलः ॥३७॥ नारायणाय वृत्तांतं कथयामास विस्तरात् ।
सोऽपि श्रुत्वा विनिःश्वस्याऽभवत् संपूज्य संस्थितः ॥३८॥ एतस्मिन्नंतरे तत्र सिंदूरश्च समागमत् । जगाद विष्णुमव्यक्तं
वचः क्रोधसमन्वितः ॥३९॥ सिंदूर उवाच । विष्णो रक्ष विधातारं मां शश्वा प्रसमागतम् । हनिष्यामि त्वया सार्धं पश्य मे
पौरुषं परम् ॥४०॥ विष्णुरुवाच । अहं सत्त्वगुणश्चायं वेदाध्ययनतत्परः । आवां हत्वा महादैत्य न यशस्ते भविष्यति ॥४१॥
त्वदधीनौ च सिंदूर आवां जानीहि मानद । शंकरः सर्वसंहर्ता स यशस्ते हरिष्यति ॥४२॥ विष्णोर्वचनमाकर्ण्य त्यक्त्वा
विष्णुं चतुर्मुखम् । जगाम शंकरं सद्यः कैलासे युद्धलालसः ॥४३॥ ध्यानस्थं शंकरं दृष्ट्वा विचारमकरोद्धृदि । अमुं नग्नं
[Header]
खं. ४ अ. ४५ | पान १६३
तपोयुक्तं किमर्थं हन्मि मूर्खवत् ॥४४॥ वामांगे संस्थितां नारीं रूपेणाप्रतिमां पराम् । तां गृहीत्वा गमिष्यामि स्वेच्छया
क्रीडानोत्सुकः ॥४५॥
॥ ओमिति श्रीमदांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे चतुर्थे खंडे गजाननचरिते सिंदूरशिवसमागमो नाम चतुश्चत्वारिंशोऽध्यायः ॥
॥ श्रीगणेशाय नमः ॥ मुद्गल उवाच । एवं निश्चितसंकल्पः सिंदूरो गिरिजां ततः । गृह्योड्डीय ययौ सद्यो मूर्च्छितां भयविह्वलाम्
॥१॥ तस्य श्वसनवेगेन पतिता नंदिमुख्यकाः । गणाः पुनः समुत्थाय हाहाकारं प्रचक्रिरे ॥२॥ हस्तगा पार्वती तत्र
सावधाना बभूव ह । सस्मार गणपं देवं दैत्यपाशनियंत्रिता ॥३॥ गौर्युवाच । गजानन ज्ञानविहारकारिन् न मां च
जानासि परावमर्शाम् । गणेश रक्षस्व न चेच्छरीरं त्यजामि सद्यस्त्वयि भक्तियुक्ता ॥४॥ विघ्नस्य शत्रोऽसुरसंघहंतर्विघ्नेश
हेरंब महोदरप्रिय । मां रक्ष दैत्यात्त्वयि भक्तियुक्तां लंबोदर प्रेमविवर्धनाच्युत ॥५॥ किं सिद्धिबुद्धिप्रसरेण मोहयुक्तोऽसि
किं वा निशि निद्रितोऽसि । किं लक्षलाभार्थविचारयुक्तः किं मां च विस्मृत्य सुसंस्थितोऽसि ॥६॥ किं भक्तसंगेन च
देवदेव नानोपचारैश्च सुयंत्रितोऽसि । किं मोदकाद्यैर्गणपाऽऽवृतोऽसि नानाविहरेषु च वक्रतुंड ॥७॥ स्वानंदभोगेषु
परिप्लुतोऽसि दासीं च विस्मृत्य महानुभाव । अनंतलीलासु सलालसोऽसि किं भक्तरक्षार्थसुसंकटस्थ ॥८॥ अहो गणेशा-
मृतपानदक्षामरैस्तथा वाऽसुरपैः स्मृतोऽसि । तदर्थनानाविधिसंयुतोऽसि विसृज्य दासीं त्वमनन्यभावाम् ॥९॥ रक्षस्व मां
दीनतमां परेश सर्वत्र चित्तेषु च संस्थितस्त्वम् । प्रभो विलंबेन विनायकोऽसि ब्रह्मेश किं देव नमो नमस्ते ॥१०॥
भक्ताभिमानीति च नाम मुख्यं वेदे बभूवात्र न किं महात्मन् । आगत्य हत्वा दितिजं सुरेश मां रक्ष दासीं हृदि
पादनिष्ठाम् ॥११॥ अहो न दूरं बत किंचिदेव कथं न बुद्धीश समागतोऽसि । संचिंत्य देहं प्रजहामि ते हि यशः करिष्ये
विपरीतमेव ॥१२॥ रक्ष रक्ष दयासिंधोऽपराधान् मे क्षमस्व च । क्षणे क्षणे वयं दास्यो रक्षितव्या विशेषतः ॥१३॥
स्तुवंत्यामेव पार्वत्यां शंकरो बोधसंयुतः । बभूव गणपानां वै श्रुत्वा हाहारवं विधे ॥१४॥ गणेशं मनसा स्मृत्वा वृषारूढः
समाययौ । क्षणेन दैत्यराजं तं दृष्ट्वा डमरुणा त्वहन् ॥१५॥ ततः सोऽपि शिवं वीक्ष्याऽऽलिंगितुं धावितोऽभवत् । शिवस्य
[खं. ४ अ. ४५]
[पान ११४]
शूलकादीनि शस्त्राण्याकुंठितानि वै ॥१६॥ तद् दृष्ट्वा परमाश्चर्यं भयभीतो महेश्वरः। सस्मार गणपं सोऽपि निर्विघ्नार्थं
प्रजापते ॥१७॥ पार्वत्याः स्तवनं श्रुत्वा स गजानन आययौ। ब्राह्मणस्य स्वरूपेण तयोर्मध्ये प्रयुद्ध्यतोः ॥१८॥ गणेशेन
कृतं तत्र कौतुकं परमाद्भुतम्। पपात गुप्तस्वरूपश्च परशुर्दैत्यवक्षसि ॥१९॥ तेनाहतं महादैत्यं व्याकुलं वीक्ष्य विघ्रपः।
ततस्तं ब्राह्मणः प्राह शृणु दैत्य वचो हितम् ॥२०॥ जगज्जनिमिमां शक्तिं मुंच नो चेच्छिवः स्वयम्। गुप्तरूपेण सद्यस्त्वां
मारयिष्यति निश्चितम् ॥२१॥ अहं शंभुं करिष्यामि त्वदाज्ञावशवर्तिनम्। भार्यां तस्य परित्यज्य कुरु राज्यं त्रिलोकगः ॥२२॥
तथेति सिंदुरेणैव कृतं सोऽपि शिवं वचः। जगाद हास्यवदनो दैत्याधीनो भव प्रभो ॥२३॥ ब्रह्मलब्धवरं दैत्यं न जेतुं तं
क्षमो भवान्। महेशशक्तिं संगृह्य कालस्य क्रमणं कुरु ॥२४॥ तथेति शंकरेणोक्तं ददौ शक्तिं शिवाय सः। दैत्यः
कैलासगो भूत्वा ननंद विजयी ततः ॥२५॥ ततः कैलासमेवं स त्यक्त्वा भूलोकगोऽभवत्। दैत्यस्त्रिभुवनं जित्वा जगदीश्रो
बभूव ह ॥२६॥ अंतर्धानं चकाराऽसौ गणेशो द्विजरूपधृक्। तत् दृष्ट्वा पार्वती तत्र शोकयुक्ता बभूव ह ॥२७॥ अहो
ब्राह्मणरूपेणाऽऽगतोऽयं गणनायकः। मोचयित्वा स मां शंभो त्वां संरक्ष्य ययौ पुनः ॥२८॥ ततस्तौ पार्वतीशंभू
परलीवनगौ प्रभू। बभूवतुश्च विघ्नेशं तपसा हृदि चिंतकौ ॥२९॥ तताप तप उग्रं स सस्त्रीकः शंकरस्ततः। गते वर्षशते
पूर्णे तं गजानन आययौ ॥३०॥ गणेश उवाच। वरं वृणु महादेव यत्ते चित्ते प्रवर्तते। दास्यामि तपसा तुष्टो वाञ्छितं प्राह
शंकरम् ॥३१॥ ततस्तं शंकरो नत्वा स्तुत्वा नानाविधैः स्तवैः। पार्वत्या पूज्य विघ्नेशं प्रणम्य प्रत्युवाच ह ॥३२॥ शिव उवाच।
वरदोऽसि गणाधीश तदा मे त्वं सुतो भव। यावज्जीवनपर्यतं तिष्ठ नाथ नमोऽस्तु ते ॥३३॥ त्वया नानाऽवताराश्च धृता
मदीयवेश्मनि। ते सर्वे स्वल्पकांशस्था बभूवुर्गणनायक ॥३४॥ तादृशं मा कुरु स्वामिन् वस नित्यं च मे गृहे। तन्त्राऽहं त्वां
भजिष्यामि पुत्रभावेन विघ्रप ॥३५॥ संसारे पुत्रभावेन मूर्तौ त्वां कुलदैवतम्। हृदये योगयुक्तोऽहं भजिष्यामि गजानन
॥३६॥ तथेति गणनाथास्तं जगादांतर्दधे पुनः। कैलासमागतः शंभुः शोकयुक्तो विशेषतः ॥३७॥ ततः किंचिद्गते काले
पार्वती स्नानमाचरत्। नग्ना तत्र महेशानः सहसा समुपागतः ॥३८॥ लज्जिता तं निरीक्ष्यैव जगदंबा स्वकेशतः।
देहं सञ्छादयामास शंकरो गृहगोऽभवत् ॥३९॥ ततः कदाचित्सा देवी सखीभ्यां संस्थिताऽभवत्। उवाच तां सखी तत्र
जया च विजया परा ॥४०॥ जयाविजये ऊचतुः। गणा नंदिमुखाः सर्वेऽस्मदीया नात्र संशयः। शिवं यदि निरुद्ध्यैव
खं. ४ अ. ४६ पान ११९
निष्ठामश्लेच्छिवात्मकाः ॥४१॥ अतः कं च महादेवि स्वकीयं वशगं गणम् । कुरु त्वं सा ततः शक्तिस्तथेति प्रत्युवाच ते
॥४२॥ स्वांगान् मलं समाकृष्य कृत्वा तं पुरुषाकृतिम् । पुनः संजीवयामास पार्वती तं जगाद ह ॥४३॥ द्वारे तिष्ठ महाबाहो
मदाज्ञावशगः सदा । मदाज्ञया विना पुत्र मा प्रवेश्यस्त्वया नरः ॥४४॥ अहं स्नानार्थमत्रैव संस्थिता कालपर्यये । पतिर्मे
तत्र रे वत्स त्वागतोऽपि भवेत् स्वयम् ॥४५॥ केनापि कथितं तत्राऽन्तो मा कुरु च तादृशम् । स्वामिनं शंकरं पुत्र निषेधस्व
मदाज्ञया ॥४६॥ तथेति तां प्रणम्याऽऽदौ द्वारसंस्थो बभूव सः । पुरुषः सा सखीभ्यां च मुदिता संस्थिताऽभवत् ॥४७॥
एतस्मिन्नंतरे तत्र गणयुक्तः शिवो ययौ । तं न्यषेधत् स्ववेगेन बोधितोऽपि प्रजापते ॥४८॥ ततोऽतिकोपसंयुक्तः शंकरः
प्रबभूव ह । तज्ज्ञात्वा सा सखीभ्यां च मुदिता संस्थिताऽभवत् ॥४९॥ ततोऽतिक्रोधसंयुक्तो गणान्नंदिमुखान् शिवः ।
आज्ञापयच्च युद्धाय हंतव्योऽयं न संशयः ॥५०॥ ततस्ते शस्त्रसंघातैर्जग्मुस्तं क्रोधसंयुताः । पार्वत्या तेज उग्रं यन्निक्षिप्तं
पुरुषे तदा ॥५१॥ तेजसा शस्त्रसंघाता मोघा जाता विशेषतः । मुसलेन जघानाऽसौ गणान् सर्वान् महाबलः ॥५२॥
ततः पलायनं चक्रुर्गुणाः सर्वे भयान्रिताः । ततः स्कंदं शिवः क्रुद्धः प्रेषयामास दारुणम् ॥५३॥ कुंठितास्त्रो भयोद्विग्नः
सेनानीस्ताडितो भृशम् । पपाल च ततः शंभुः सस्मराऽमरमुख्यकान् ॥५४॥ ब्रह्मा विष्णुश्च देवेंद्रो यमाद्याः सर्व आगताः ।
प्रणिपत्य महेशानं संस्थिताश्चाऽभवन् पुरः ॥५५॥ तान् शिवः कथयामास वृत्तांतं ते ततो ययुः । इंद्रादयः सगंधर्वा युयुधुः
पुरुषेण च ॥५६॥ पलायनं तेऽपि चक्रुः कुंठितास्त्रा भयातूराः । ताडिता मुसलेनैव शंकरः क्षोभितोऽभवत् ॥५७॥
ततस्तत्र विचारं ते चक्रुः सर्वे सुरेंद्रकाः । विष्णुमुख्याः शिवेनैव मुनिभिश्च प्रजापते ॥५८॥
॥ ओमिति श्रीमदांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे चतुर्थे खंडे गजाननचरिते शिवविचारवर्णनप्रसंगो नाम पंचचत्वारिंशोऽध्यायः ॥
॥ श्रीगणेशाय नमः ॥ मुद्गल उवाच । विचार्य देवपैः सर्वैः प्रेषयामास शंकरः । ब्रह्माणं ब्राह्मणैः सार्धं स्नेहार्थं सोऽपि तं
ययौ ॥१॥ तं दृष्ट्वा गृह्य पुरुषो मुसलं सोऽपि दारुणम् । आययौ तं निरीक्ष्यैव पपाल स पितामहः ॥२॥ वयं सर्वे द्विजाः
पुत्र शस्त्रहीनाः समागताः । शृणु वाक्यं विचारज्ञ पलंतस्ते तमब्रुवन् ॥३॥ तथापि न बुबोधैव पुरुषस्तं विलोक्य सः ।
ब्रह्मा जगाम शंभुं तं वृत्तांतमवदत्ततः ॥४॥ ततो विष्णुयुतः शंभुः क्रोधानलविलोचनः । संग्रामाय ययौ तत्र मुसलं
सोऽपि चाददे ॥५॥ आगत्यैव न्यहञ्छंभुं हृदये यमसंनिभः । शूलं पपात तद्धस्ताच्छिवश्च व्याकुलोऽभवत् ॥६॥ ततस्तं
गदया विष्णुर्योधयामास दारुणम् । ततस्त्रिशूलघातेन शिरश्चिच्छेद शंकरः ॥७॥ ममार पुरुषस्तत्र श्रुत्वा सा पार्वती
पुनः । कोपयुक्ता च कोटीः सा शक्तीस्ता नव निर्ममे ॥८॥ तयाऽऽज्ञप्ता महादेव्यः संहर्तुं सकलं जगत् । प्राप्ता आलोक्य
देवास्ते भयभीता बभूविरे ॥९॥ शंकरेण द्विजास्तत्र प्रेषिता नारदायः । अंतरिक्षचराः सर्वे प्रणेमुः पार्वतीं ततः ॥१०॥
रक्ष रक्ष जगत्सर्वं जगदंब त्वदुद्भवम् । तुष्टुवुस्तामथोवाच मुनीन् क्रोधयुता सती ॥११॥ पार्वत्युवाच । मम पुत्रः किमर्थं तैर्हतः
सर्वैः सुरेश्वरैः । सजीवं संहरिष्यामि कुरुध्वं चेन्न संशयः ॥१२॥ तथेति प्रतिपाद्यैव गतास्ते शंकरं पुनः । शक्तय-
स्तंमिताः सर्वाः शिवः सर्वैः समाययौ ॥१३॥ युद्धे मृतस्य बालस्य मस्तकं त्वप्सरोगणाः । जगृहुस्तत्र तं दृष्ट्वा शिरोहीनं
सुदुःखितः ॥१४॥ शिवस्ततो गणान् प्राह यः पूर्वं दृश्यते त्वया । तमानयत हत्वा वै तस्य मस्तकमत्र यत् ॥१५॥ ततो
गजासुरः प्राप्तः सहसा नारदेरितः । हंतुं देवगणान् सर्वान् महाबलपराक्रमः ॥१६॥ ततश्च क्षोभिताः सर्वे पलायंत दिशो
दश । शूलघातेन शंभुस्तं मारयामास तत्क्षणात् ॥१७॥ तस्य मस्तकयोगेन पुरुषं ते दिवौकसः । योजयित्वा प्रजानाथ
सजीवं चक्रिरे नरम् ॥१८॥ सर्वे हतोद्यमा जातास्ततो ब्रह्मा समागतः । जीवयामास तं तत्र सजीवो न बभूव ह ॥१९॥
ततो विष्णुः स्वयं तत्र जीवयामास विद्यया । सजीवो न बभूवाऽपि दुःखितोऽतिततोऽभवत् ॥२०॥ ततः शिवः स्वयं
तत्र जीवयुक्तं चकार तम् । सजीवं न ददर्शैव दुःखितोऽतितरां तदा ॥२१॥ ततो विघ्नेश्वरं सर्वे तुष्टुवुः कार्यसिद्धये ।
अथर्वशिरसा दक्ष शंकराद्याः सुरेश्वराः ॥२२॥ प्रार्थयामासुरत्यंतं निर्विघ्नं कुरु विघ्नप । अधुना विश्वमेवेदमकाले लयमेष्यति
॥२३॥ गणेशस्मरणेन स्म बुद्धिः प्राप्ता दिवौकसाम् । वेदमंत्रेण देवास्ते तारमावाहयंति च ॥२४॥ ओंकारस्तत्र मंत्रेणाऽऽकर्षितः
सहसाऽऽगतः । शवं प्रविश्य संतस्थौ ततः सोऽभवदुत्थितः ॥२५॥ ततो ज्ञानयुता देवा जाता विघ्नविहीनकाः ।
तं दृष्ट्वा गजवक्त्रं वै प्रणवं प्रणवाकृतिम् ॥२६॥ तुष्टुवुर्देवदेवेशं नानास्तोत्रैः प्रजापते । पूपुजुस्तं च सर्वादौ पूज्यं चक्रुः
स्वमूलकम् ॥२७॥ दक्ष उवाच । साक्षादोंकाररूपश्च गणेशोऽयं न संशयः । स कथं मलजः शक्तेर्दैत्यमस्तकधारकः ॥२८॥
एनं मे संशयं ब्रह्मञ्छेत्तुमर्हसि सांप्रतम् । श्रुत्वा कथां महारम्यां ज्ञानयुक्तो भवाम्यहम् ॥२९॥ मुद्गल उवाच । सती दक्षगृहे
तात दग्धा सा शैलजाऽभवत् । हिमाचले स्वयं शंभुस्तताप तप उत्तमम् ॥३०॥ तत्र सा पार्वती देवी शुश्रूषायां प्रजापते ।
खं. ४ अ. ४७ पान ११७
निरता तां निरीक्ष्यैव शंभुः सस्मार पूर्वगाम् ॥३१॥ ममाज्ञावशगा देवी नेयं दक्षगृहे गता । अतोऽहं न वृणोम्येतां
पुनः शैलसुतां कदा ॥३२॥ तारकासुरभीतैर्देवैः कामः प्रार्थितस्ततः । स ययौ शंकरस्थानं मोहितुं मदसंयुक्तः ॥३३॥
तं प्रज्वाल्य महेशानस्त्यक्त्वा हिमगिरिं ययौ । अन्यत्र सा ततो देवी खेदयुक्ता बभूव ह ॥३४॥ मनसि ज्ञानमार्गेण
ज्ञात्वा शंभुविचेष्टितम् । तपसा संयुता भूत्वा वनगा शिवमर्चयत् ॥३५॥ गते वर्षशते शंभुः प्रसन्नो न बभूव ह ।
ततः सा विघ्नराजं च सस्मार ध्यानसंयुता ॥३६॥ वर्षेणैकेन हेरंबः प्रसन्नश्च बभूव ह । शिवबुद्धिप्रभेदं स चकार
बुद्धिधारकः ॥३७॥ ततो दयायुतः शंभुस्तां ययौ द्विजरूपधृक् । शंकरं निंदयामास नानावाक्यैः समीपगः ॥३८॥
तच्छ्रुत्वा कंपिता देवी बोधयामास शांभवैः । चेष्टितैस्तं ततः सोऽपि पुननिंदां चकार ह ॥३९॥ स्थानं त्यक्त्वा ततो
देवी तं जगाम द्विजं पुनः । तिरस्कृत्य शिवस्तां स्वं दर्शयामास रूपकम् ॥४०॥ ततः सा तं प्रणम्यैव तुष्टाव विविधैः
स्तवेः । गणेशं मनसा ध्यात्वा प्रार्थ्य तं सिद्धिदो भव ॥४१॥ ततः प्रसन्नभावेन शंकरः प्रददौ वरम् । विस्मितस्तां
निरीक्ष्यैव तपसा कर्शितां प्रभुः ॥४२॥ शिव उवाच । वृणोमि त्वां महादेवि वश्योऽहं ते सदाऽनघे । तपसा भक्तिभावेन न
वियोगो भविष्यति ॥४३॥ धूलिधूसरितं तेंडगं शिरोभूच्च जटान्वितम् । अतो मलस्तवांगस्य सर्वपूज्यो भविष्यति ॥४४॥
इत्युक्त्वा शंकरस्तत्रांतर्धानं प्रचकार सः । पार्वती प्रेमसंयुक्ता स्वगृहं वै जगाम ह ॥४५॥ स्वभक्तस्य शिवस्यैव रक्षणार्थं
वचो महत् । गौरीमलांगसंभूतो बभूव ह गजाननः ॥४६॥ गणेशात्न परः कोऽपि सर्वपूज्यो महामते । गणेशवरदानेन
सत्यवाक्याः शिवादयः ॥४७॥
॥ ओमिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे चतुर्थे खण्डे गजाननचरिते शक्तिमलमाहात्म्यवर्णनं नाम षट्चत्वारिंशोऽध्यायः ॥
॥ श्रीगणेशाय नमः ॥ मुद्गल उवाच । अन्यच्छृणु चरित्रं तु गजमस्तकधारणे । महेश इति विख्यातो राजा धर्मयुतोऽभवत्
॥१॥ तस्य गेहे गुरुः साक्षाज्जगाम कीर्तिमोहितः । राज्ञा संमानितः सोऽपि नृपाय च ददौ वरम् ॥२॥ बृहस्पतिरुवाच ।
प्रणतस्ते महीपाल मूर्धा मे प्रभविष्यति । सर्वपूज्यो विशेषेण गतोऽभूत् स्वगृहे गुरुः ॥३॥ ततः कदाचिद्राजर्षिर्नारदं
मार्गसंस्थितम् । अवमत्य ययौ सोऽपि तं शशाप नृपाधमम् ॥४॥ नारद उवाच । मदेन राजशार्दूल मामनादृत्य गच्छसि ।
खं ४ अ. ४७ पान ११८
अतोऽसुरस्य योनौ त्वं पतिष्यसि न संशयः ॥५॥ काले सोऽपि ममराऽथ गजयोनौ बभूव ह । गजासुर इति ख्यातो
नरकुंजरवेषभृत् ॥६॥ गजासुरेण शंभोस्तपः कृतं च विशेषतः । मंत्रं जजाप शैवेनातोषयन्नियमे रतः ॥७॥ सहस्रेषु
गतेष्वेव वर्षेषु वरदः शिवः । जगाद वृणु दैत्येश यत्ते मनसि वर्तते ॥८॥ स वव्रे राज्यमुग्रं मे देहि लोकत्रयस्य च । बलं
सर्वातिगं शंभो आरोग्यं सर्वपूज्यताम् ॥९॥ अंते मोक्षं च मे देहि तथेति शंकरोऽब्रवीत् । मस्तकः सर्वपूज्यस्ते भविष्यति
गजासुर ॥१०॥ अतो गजासुरस्यैव मस्तकं गणपेन तत् । धृतं वचो रक्षणार्थं शंकरस्य बृहस्पतेः ॥११॥ अन्यच्छृणु
प्रजानाथ इतिहासं पुरातनम् । कदाचिच्छंकरेणैव पूजितो गणनायकः ॥१२॥ ददौ शिवाय निर्माल्यं मूर्तिसंस्थश्च विघ्नपः ।
स्वप्ने तस्य स माहात्म्यं कथयामास विस्तरात् ॥१३॥ श्रीगणेश उवाच । एकनिष्ठतया शंभो भक्त्याऽहं पूजितस्त्वया ।
प्रसन्नोऽहं स्वमूर्तिस्थः शृणु मे वचनं हितम् ॥१४॥ निर्माल्यं मे गृहाण त्वं सर्वसिद्धिप्रदं शिव । येनेदं मस्तके पुष्पं धृतं
मान्येन भक्तितः ॥१५॥ सर्वपूज्यः स वै भावी सर्वातिगयशोधरः । ततः सोऽन्तर्दधे ढुंढिः शिवो जागरितोऽभवत् ॥१६॥
हस्ते पुष्पं समालोक्य विस्मितः शंकरोऽभवत् । विचारं स चकारैव किमिदं देवभाषितम् ॥१७॥ सर्वपूज्यो गणाधीशो
नान्यो ब्रह्मांडमंडले । अतो मे भक्तिमाहात्म्यं परीक्षार्थं ददौ प्रभुः ॥१८॥ ततः शिवेन निर्माल्यं न धृतं मस्तके स्वके ।
पूजायां स्थापितं दक्ष महाभक्तेन सर्वदम् ॥१९॥ ततोऽत्रिसंभवस्तत्र दुर्वासाः सहसाऽऽययौ । दर्शनार्थं महेशस्य शिवेन
भृशमानितः ॥२०॥ शिवो विचारमकरोदयं योगी सयोगवित् । वर्णाश्रमविहीनश्च मतः साक्षाद्विनायकः ॥२१॥ अतो
निर्माल्ययोग्योयं ददौ तस्मै सदाशिवः । निर्माल्यं विघ्नराजस्य कथयित्वा यशो महत् ॥२२॥ तं प्रणम्य महायोगी
दुर्वासाः प्रययौ प्रभुम् । यथेच्छं विचरन् मार्गे ददर्श देवनायकम् ॥२३॥ विचारं मनसा योगी चकार स्वहितावह्म् ।
सर्वपूज्यो गणेशाद्वै नान्यो भवति निश्चितम् ॥२४॥ वयं भक्ता गणेशस्य भजामोऽनन्यचेतसः । अतो निर्माल्य-
योग्योऽहं नैव शंकरवत् कदा ॥२५॥ अयं देवपतिः साक्षादिंद्रः सत्त्वगुणान्वितः । योग्योऽयं नैव संदेहस्तं ययौ मुनिसत्तमः
॥२६॥ तं दृष्ट्वा मघवा नत्वा स्थित ऐरावते प्रभुः । आज्ञां कुरु महाभाग मुने दासोऽस्मि ते जगौ ॥२७॥ ततः सोऽपि
प्रसन्नात्मा ददौ तस्मै महामुनिः । निर्माल्यं गणनांथस्य माहात्म्यं प्रोच्य सादरः ॥२८॥ इन्द्रो राज्यश्रिया युक्तो गृहीत्वा
गजमस्तके । निर्माल्यमिंद्रः संस्थाप्य ययौ मार्गमवस्थितः ॥२९॥ निर्माल्यस्यापमानेन भ्रष्टोऽभूद्देवनायकः । गता सत्त्वमयी