सामग्री पर जाएँ
सर्वकोश
मुद्गल पुराण (अष्टावतार चरितम्)

मुद्गल पुराण (अष्टावतार चरितम्)

Mudgala Puranam with Commentary

महर्षि मुद्गल द्वारा

स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)

DevanagariSanskritpublished1,023 पृष्ठ

पृष्ठ 512, कुल 1023 में से

संदर्भ में पढ़ें
पृष्ठ 512

[खं. ४ अ. ४५]
[पान ११४]

शूलकादीनि शस्त्राण्याकुंठितानि वै ॥१६॥ तद् दृष्ट्वा परमाश्चर्यं भयभीतो महेश्वरः। सस्मार गणपं सोऽपि निर्विघ्नार्थं
प्रजापते ॥१७॥ पार्वत्याः स्तवनं श्रुत्वा स गजानन आययौ। ब्राह्मणस्य स्वरूपेण तयोर्मध्ये प्रयुद्ध्यतोः ॥१८॥ गणेशेन
कृतं तत्र कौतुकं परमाद्भुतम्। पपात गुप्तस्वरूपश्च परशुर्दैत्यवक्षसि ॥१९॥ तेनाहतं महादैत्यं व्याकुलं वीक्ष्य विघ्रपः।
ततस्तं ब्राह्मणः प्राह शृणु दैत्य वचो हितम् ॥२०॥ जगज्जनिमिमां शक्तिं मुंच नो चेच्छिवः स्वयम्। गुप्तरूपेण सद्यस्त्वां
मारयिष्यति निश्चितम् ॥२१॥ अहं शंभुं करिष्यामि त्वदाज्ञावशवर्तिनम्। भार्यां तस्य परित्यज्य कुरु राज्यं त्रिलोकगः ॥२२॥
तथेति सिंदुरेणैव कृतं सोऽपि शिवं वचः। जगाद हास्यवदनो दैत्याधीनो भव प्रभो ॥२३॥ ब्रह्मलब्धवरं दैत्यं न जेतुं तं
क्षमो भवान्। महेशशक्तिं संगृह्य कालस्य क्रमणं कुरु ॥२४॥ तथेति शंकरेणोक्तं ददौ शक्तिं शिवाय सः। दैत्यः
कैलासगो भूत्वा ननंद विजयी ततः ॥२५॥ ततः कैलासमेवं स त्यक्त्वा भूलोकगोऽभवत्। दैत्यस्त्रिभुवनं जित्वा जगदीश्रो
बभूव ह ॥२६॥ अंतर्धानं चकाराऽसौ गणेशो द्विजरूपधृक्। तत् दृष्ट्वा पार्वती तत्र शोकयुक्ता बभूव ह ॥२७॥ अहो
ब्राह्मणरूपेणाऽऽगतोऽयं गणनायकः। मोचयित्वा स मां शंभो त्वां संरक्ष्य ययौ पुनः ॥२८॥ ततस्तौ पार्वतीशंभू
परलीवनगौ प्रभू। बभूवतुश्च विघ्नेशं तपसा हृदि चिंतकौ ॥२९॥ तताप तप उग्रं स सस्त्रीकः शंकरस्ततः। गते वर्षशते
पूर्णे तं गजानन आययौ ॥३०॥ गणेश उवाच। वरं वृणु महादेव यत्ते चित्ते प्रवर्तते। दास्यामि तपसा तुष्टो वाञ्छितं प्राह
शंकरम् ॥३१॥ ततस्तं शंकरो नत्वा स्तुत्वा नानाविधैः स्तवैः। पार्वत्या पूज्य विघ्नेशं प्रणम्य प्रत्युवाच ह ॥३२॥ शिव उवाच।
वरदोऽसि गणाधीश तदा मे त्वं सुतो भव। यावज्जीवनपर्यतं तिष्ठ नाथ नमोऽस्तु ते ॥३३॥ त्वया नानाऽवताराश्च धृता
मदीयवेश्मनि। ते सर्वे स्वल्पकांशस्था बभूवुर्गणनायक ॥३४॥ तादृशं मा कुरु स्वामिन् वस नित्यं च मे गृहे। तन्त्राऽहं त्वां
भजिष्यामि पुत्रभावेन विघ्रप ॥३५॥ संसारे पुत्रभावेन मूर्तौ त्वां कुलदैवतम्। हृदये योगयुक्तोऽहं भजिष्यामि गजानन
॥३६॥ तथेति गणनाथास्तं जगादांतर्दधे पुनः। कैलासमागतः शंभुः शोकयुक्तो विशेषतः ॥३७॥ ततः किंचिद्गते काले
पार्वती स्नानमाचरत्। नग्ना तत्र महेशानः सहसा समुपागतः ॥३८॥ लज्जिता तं निरीक्ष्यैव जगदंबा स्वकेशतः।
देहं सञ्छादयामास शंकरो गृहगोऽभवत् ॥३९॥ ततः कदाचित्सा देवी सखीभ्यां संस्थिताऽभवत्। उवाच तां सखी तत्र
जया च विजया परा ॥४०॥ जयाविजये ऊचतुः। गणा नंदिमुखाः सर्वेऽस्मदीया नात्र संशयः। शिवं यदि निरुद्ध्यैव

मुद्गल पुराण (अष्टावतार चरितम्) · पृष्ठ 512, कुल 1023 में से · SarvaKosh