सामग्री पर जाएँ
सर्वकोश
मुद्गल पुराण (अष्टावतार चरितम्)

मुद्गल पुराण (अष्टावतार चरितम्)

Mudgala Puranam with Commentary

महर्षि मुद्गल द्वारा

स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)

DevanagariSanskritpublished1,023 पृष्ठ

पृष्ठ 965, कुल 1023 में से

संदर्भ में पढ़ें
पृष्ठ 965

खं. १ अ. १० पान ३७
च । न संभवेदहं मायां समाश्रित्य वदामि ताः ॥९॥ कलांशाः कलया युक्ताः कलांशांशाः कलात्मकाः । तेषामंशधरा
ये ते सर्वे विभूतिधारकाः ॥१०॥ एवमेव गणेशानः पृष्टश्च नारदेन सः । जगाद ताः शृणुष्व त्वं विभूतीः परमाद्भुताः ॥११॥
श्रीगणेश उवाच । पूर्णो योगेषु सर्वेषु चित्तरोधमयः परः । मायाहीनप्रभावाणामयोगोऽहं महामुने ॥१२॥ स्वानंदो निजभूतेषु
तुर्येष्वव्यक्तसंज्ञितः । आनंदसमभावेषु जीवेष्वात्माहमंजसा ॥१३॥ नानाभेदेषु ब्रह्माहमसद्रूपप्रधारकम् । सत्येषु सांख्य-
रूपोऽहं बोधः खेलकरेषु च ॥१४॥ देहाभिमानयुक्तेषु सदैकोऽहं महामते । देहेषु बिंदुरूपोऽहं चेतनासु गुणेश्वरः ॥१५॥
कोशेष्वानन्दकोशोऽहं विज्ञानं सूक्ष्मजातिषु । विवेकेषु मनश्चाहं चालकेषु समीरणः ॥१६॥ स्थूलेष्वन्नस्वरूपोऽहं समष्टिषु
तथेश्वरः । व्यष्टिषु प्राज्ञरूपोऽहमणुषु च महाविराट् ॥१७॥ इंद्रियेषु मनश्चाहं भूतेष्वाकाशसंज्ञितः । तन्मात्राणामहं
शब्दो ज्ञाताहं देवतासु च ॥१८॥ तत्त्वेषु विविधेष्वेव महत्तत्त्वमहं परम् । गुणेषु गुणपोऽहं तु पालकेषु जनार्दनः ॥१९॥
हरः संहारकर्तॄणां स्रष्टॄणां प्रपितामहः । कर्मणामर्यमाऽऽत्माऽहं मोहकानां च शक्तिका ॥२०॥ देवानां मघवाऽहं तु
आदित्यानां विनायकः । तेजसां भानुरूपोऽहममृतेषु विधुः परः ॥२१॥ अग्निः प्रतापदेष्वेव धर्मः समप्रवृत्तिषु । यमो
यमवतां चाहं रक्षसां निर्ऋतिः स्वयम् ॥२२॥ जलेषु वरुणोऽहं तु बलवत्सु समीरणः । निधीनां धनदाताऽहं रुद्राणां शंकरः
प्रभुः ॥२३॥ कामो धनुर्धराणां च रतिर्भोगेषु भोगदा । नागेशानामहं शेषः सर्पाणां तक्षकः स्वयम् ॥२४॥ नागानां
वासुकिर्नाम जंबुद्वीपेषु सर्वदः । स्वादूदकः समुद्राणां पर्वतेषु हि मेरुकः ॥२५॥ पितॄणां यमरूपोऽहं वृक्षेषु शमिका मता ।
देववृक्षेषु मंदारस्तरूणां कामदायकः ॥२६॥ धेनूनां कामधेनुर्या दूर्वा चौषधिषु प्रभुः । पक्षिषु तु मयूरोऽहं मृगाणां
सिंहरूपधृक् ॥२७॥ मासानां श्रावणश्चाहं चौराणां मूषकाधिपः । वाहनेष्वश्ववाहोऽहं सिद्धिराश्चर्यदेषु च ॥२८॥ विद्यासु
बुद्धिरूपोऽहं चित्तं प्रकाशकारिणाम् । अहं मनश्च वेगानां मोहदेष्वभिमानकः ॥२९॥ नराधिपो नराणां तु वर्णेषु ब्राह्मणो-
ह्यहम् । आश्रमेषु तुरीयोऽहं पोषकेषु गृहस्थकः ॥३०॥ त्यागिनामवधूतोऽहं तिथीनां च चतुर्थिका । प्रजापतिषु दक्षोऽहं
ब्रह्मर्षिषु भृगुस्तथा ॥३१॥ नारदो दैवतर्षीणां दत्तोऽवधूतरूपिणाम् । कपिलस्तत्त्वविज्ञानां योगिनां शुक एव यः ॥३२॥
जनकोऽहं विदेहानां निःसंगेषु महामुने । सनकादय एवाऽहं ज्ञानिनां बादरायणः ॥३३॥ वसिष्ठः कर्मकर्तॄणां गाणपत्येषु
मुद्गलः । भ्रुशुंडी चैकनिष्ठेषु ब्रह्मिष्ठानां बृहस्पतिः ॥३४॥ अन्नानां तिलरूपोऽहं गव्यानां घृतमंजसा । मधु सर्वरसानां च