सामग्री पर जाएँ
सर्वकोश
मुद्गल पुराण (अष्टावतार चरितम्)

मुद्गल पुराण (अष्टावतार चरितम्)

Mudgala Puranam with Commentary

महर्षि मुद्गल द्वारा

स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)

DevanagariSanskritpublished1,023 पृष्ठ

पृष्ठ 961, कुल 1023 में से

संदर्भ में पढ़ें
पृष्ठ 961

भजेत्तत्तपसा युतः । मोक्षार्थं सर्वभावेन विरक्तो विषयादिषु ॥२६॥ गणेशकृपया तस्य चित्तशुद्धिर्भवेत् परा । तया
सर्वस्वभावेन भजेत्तं गणनायकम् ॥२७॥ विश्वं चराचरं सर्वं जानीयात्तत्स्वरूपकम् । सर्वेषां हितभावेन भजेत्तं
द्विरदाननम् ॥२८॥ कस्यापि संभवेत् दुःखं तादृशं प्रचरेन्न सः । सहन् सन् द्वंद्वजं भावमार्जवेन समन्वितः ॥२९॥ देवकार्यं
विना साधुर्न छिन्द्यात् स कदाचन । पत्रादिकं विशेषेण विश्वरूपपरायणः ॥३०॥ एकांते निर्जने स्थाने स्थित्वा ध्यात्वा
गजाननम् । पूजयेद्भक्तिसंयुक्तो ध्यानं कुर्याद्विशेषतः ॥३१॥ अनन्यमनसा देवं भजेत्तं भावधारकः । शमदमपरो भूत्वा
चित्तनिग्रहमाचरेत् ॥३२॥ दुर्जयं चित्तमत्यंतं ज्ञात्वा वायुनिबंधतः । प्राणायामपरो भूत्वा जयेत्तन्नात्र संशयः ॥३३॥
अथ वायुनिरोधस्य वदामि मार्गमुत्तमम् । येन पापं परित्यज्य शुद्धचित्तो नरो भवेत् ॥३४॥ पूरयेद्वामनासायां वायुं
तस्माच्चतुर्गुणम् । धारणं तस्य कुर्यात् स स्वोदरे नियतो भवेत् ॥३५॥ पूरकाद् द्विगुणं कुर्याद्रेचकं च प्रजापते । पुनर्नसा
दक्षिणया पूरयेत् कुंभकं चरेत् ॥३६॥ वामया रेचकं चैव पुनः पुनर्निंरंतरम् । प्राणायामं चरेद् धीमान् पापहीनो नरो
भवेत् ॥३७॥ एवं त्रैकालिकं कुर्यात् प्राणायामं विशेषतः । नातिनिरोधसंयुक्तं वायुं हठसमन्वितः ॥३८॥ अतिहठेन संरुद्धो
वायू रोमभ्य एव च । निःसृत्य कुष्ठसंयुक्तं तं करोति न संशयः ॥३९॥ नाभिमूलस्थिता नाडी इडा च पिंगलाऽपरा ।
सुषुम्णा तत्र रोधेन मार्गो भवति निर्मलः ॥४०॥ अपानो नाभिमूलस्थो ह्यधो गच्छति सर्वदा । प्राण ऊर्ध्वं तथा
जन्तोर्नाडीभिः प्रेरितः सदा ॥४१॥ मार्गरोधनभावेन नाड्यां मार्गो भविष्यति । वायुर्मूलं समाश्रित्य तिष्ठति
क्रमतस्ततः ॥४२॥ तत्र लघ्वक्षराण्येव द्वादशापि प्रतिष्ठति । वायुश्चेत् स लघुः प्रोक्तः प्राणायामश्च योगिभिः ॥४३॥ ततो
द्विगुणतस्तिष्ठेद्यदा वायुः सुरोधितः । मध्यमः स समाख्यातस्त्रिगुणादुत्तमोत्तमः ॥४४॥ एवं प्राणमपानं च स्वमूले
संनयेद् बुधः । तयो रोधनभावेन मूलगौ तौ भविष्यतः ॥४५॥ एवं क्रमेण मूलेऽयं वायुर्मुहूर्तं संस्थितः । तदा समानगा
नाडी भिद्यते तत्र संस्थिता ॥४६॥ सा सुषुम्णा समाख्याता तत्र संमिलितौ क्रमात् । प्राणापानौ समौ भूत्वा तद्रूपौ तौ
भविष्यतः ॥४७॥ त्रिकालज्ञः स्वयं सिद्धो भविष्यति नरोत्तमः । वायुसाधनपात्रत्वं प्राप्य तेजःसमन्वितः ॥४८॥ ततः
स्वाधीनतां यातौ प्राणापानौ विशेषतः । स नयिष्यति तौ यत्र क्रमात्तत्र गमिष्यतः ॥४९॥ ततो ध्यानपरो भूत्वा
षट्चक्रभेदने रतः । चक्रस्थं स्वस्वरूपं स पश्येत्तद्वायुना गतः ॥५०॥ एवं क्रमेण योगींद्रो गच्छेद्ध्रेय प्रजापते । सहस्रारे स