मुद्गल पुराण (अष्टावतार चरितम्)
Mudgala Puranam with Commentary
महर्षि मुद्गल द्वारा
स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)
पृष्ठ 898, कुल 1023 में से
संदर्भ में पढ़ेंखं. ८ अ. ३७ पान ८९
बल्लालेशस्वरूपिणे । बल्लालवरदात्रे ते गणेशाय नमो नमः ॥११०॥ विघ्नेशाय महाविघ्ननाशनाय परात्मने । भक्तानां
भक्तनाथाय भक्तानां विघ्नकारिणे ॥११॥ परात्परतरायैव सगुणाय चतुर्भुज । निर्गुणाय तयोर्योगे हेरंबाय नमो नमः
॥१२॥ वक्रतुंडाय देवायैकदंताय महोदर । लंबोदराय सर्वेषां मात्रे पित्रे नमो नमः ॥१३॥ स्वानंदवासिने तुभ्यं सदा
स्वानंदभोगिने । नानामायाप्रचालाय मायिकाय नमो नमः ॥१४॥ सिद्धिबुद्धिपते तुभ्यं सिद्धिबुद्धिमयाय ते । अमेयशक्तये
चैव शक्तिहीनाय ते नमः ॥१५॥ देवाय दानवायैव देवदानवमर्दिने । सर्वाकाराय सर्वेभ्यो हीनाय ते नमो नमः ॥१६॥
योगानां योगनाथाय शांतीनां शांतिरूपिणे । ब्रह्मणां पतये तुभ्यं चिंतामणे नमो नमः ॥१७॥ किं स्तौमि त्वां गणाध्यक्ष
यत्र वेदा विसिस्मिरे । धन्योऽहं सर्वभावैः पश्यामि त्वां योगरूपिणम् ॥१८॥ एवमुक्त्वा गणेशानं ननाम भक्तिभावतः ।
तमुत्थाप्य गणेशानो जगाद भक्तवत्सलः ॥१९॥ श्रीगणेश उवाच । त्वया कृतमिदं स्तोत्रं सर्वसिद्धिकरं भवेत् । पठतां शृण्वतां
विप्र मयि भक्तिविवर्धनम् ॥२०॥ वरान् ब्रूहि महाभाग दास्यामि मनसीप्सितान् । तपसा भक्तिभावेन तुष्टो व्रतेन
निश्चितम् ॥२१॥ जाजलिरुवाच । तव भक्तिं स्थिरां देहि गाणपत्यपदप्रदाम् । योगशांतिकरीं नाथ नान्यं याचे गजानन
॥२२॥ ओमित्युक्त्वा गणाधीशोऽन्तर्दधे मुनिसत्तम । जाजलिस्तं प्रणम्यैव हर्षयुक्तो बभूव ह ॥२३॥ एवं व्रतस्य माहात्म्यं
विभांड कथितं मया । येनाहं योगिनां वंद्योऽभवं योगपरायणः ॥२४॥ तदादि वार्षिकं विप्र चातुर्मास्यभवं व्रतम् । करोमि
गणप्रीतयै बल्लालेशं समाश्रितः ॥२५॥ त्वमप्येतादृशं विप्र व्रतं कुरु महाद्भुतम् । चातुर्मास्ये महायोगिवंद्यः सद्यो
भविष्यसि ॥२६॥ एवमुक्त्वा ददौ तस्मै मंत्रमष्टाक्षरं मुनिः । सविधिं गणराजस्य विभांडाय महात्मने ॥२७॥
॥ ओमिति श्रीमदांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे अष्टमे खण्डे धूम्रवर्णचरिते चातुर्मास्यमाहात्म्ये विभांडव्रतोपदेशवर्णनं नाम सप्तत्रिंशोऽध्यायः ॥