मुद्गल पुराण (अष्टावतार चरितम्)
Mudgala Puranam with Commentary
महर्षि मुद्गल द्वारा
स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)
पृष्ठ 886, कुल 1023 में से
संदर्भ में पढ़ें॥ श्रीगणेशाय नमः ॥ सूत उवाच । मलमासभवं चित्रं चरित्रं कथयाम्यहम् । संक्षेपेण मुनिश्रेष्ठ शृणु सर्वार्थदायकम्
॥१॥ कलिकल्मषरूपेण मलेन पीडिताः सुराः । शरणं केशवस्यैव ययुर्विप्रेंद्रमुख्यकैः ॥२॥ स्तुत्वा नानाविधैस्तोत्रैर्विष्णुं
धर्मप्रपालकम् । घोरं कलिभवं पापं तदर्थमब्रुवन् वचः ॥३॥ देवर्षय ऊचुः । लेशमात्रेण धर्मस्तु संस्थितोऽधर्मसंहतः ।
तेनोपोषणसंयुक्तान् रक्षस्व शरणार्थिनः ॥४॥ कलिना पापरूपेण जनार्दन जिता वयम् । पृथिवीं त्वमपि त्यक्त्वा किं
स्थितोऽसि महाप्रभो ॥५॥ तेषां तद्वचनं श्रुत्वा तानुवाच स्वयं हरिः । मेघगंभीरया वाचा सर्वेषां पालकः प्रभुः ॥६॥ हरिरुवाच ।
मा भयं देवविप्राद्याः कुरुताहं न संशयः । करिष्यामि भवत् कार्यं कलिं जित्वा सुदुर्जयम् ॥७॥ एवमुक्त्वा महाविष्णु-
र्देवर्षीन् विससर्ज ह । विचारमकरोच्चित्ते दृष्ट्वा घोरं कलेर्बलम् ॥८॥ कलिमलप्रणाशार्थं समर्थं चिंत्य माधवः । आययौ
मयूरक्षेत्रे तपोर्थं गणपे रतः ॥९॥ मलमासं समासाद्य नानामलर्निंकृतनम् । गाणेशपंचकं पूज्यं व्रतं चकार मासजम् ॥१०॥
घृतभुक् गणनांथं सोऽसेवयद्यत्नसंयुतः । उषःस्नात्वा यथान्यायं चकार ढुंढिचिंतनम् ॥११॥ ढौढं मासव्रतं कृत्वा परिपूर्णं
जनार्दनः । पारणं ब्राह्मणैः सार्धं निशि निद्रायुतोऽभवत् ॥१२॥ स्वप्ने ददर्श विघ्नेशं धूम्रवर्णं गजाननम् । अश्ववाहं द्विह-
स्ताभ्यां खड्गचर्मधरं हरिः ॥१३॥ स उवाच महाविष्णुं स्वभक्तं भक्तपालकः । मेघगंभीरनादेन हर्षयन् हर्षवर्धनः ॥१४॥
श्रीगणेश उवाच । नानामलप्रणाशार्थं मलमासव्रतं चरेत् । तदेव सुकृतं विष्णो त्वया मद्भक्तिकारिणा ॥१५॥ मलमासस्य देवोऽहं
ढुंढयित्वा विशेषतः । हरामि मलसद्भूतं दुःखं पापमयं परम् ॥१६॥ अतस्त्वमीदृशो भूत्वा मां स्मृत्वा हृदि भक्तितः ।
कलिं जेष्यसि देवेश धर्मं संस्थापयिष्यसि ॥१७॥ एवमुक्त्वा गणेशानस्ततोंऽर्धानमाकरोत् । प्रबुद्धः केशवोऽत्यंतं स्मृत्वा
हर्षयुतोऽभवत् ॥१८॥ प्रणम्य स मयूरेशं धृत्वा वेषं नराधिकम् । अश्वगः श्यामवर्णस्थो बभूव खड्गधारकः ॥१९॥ कल्कि-
र्नाम्ना महाबाहुः स्मृत्वा विघ्नेश्वरं हृदि । स्वांगान्नानाविधां सेनां कल्प्य दुष्टवधे रतः ॥२०॥ नाना जनहृदिस्थः स कलिः
प्रयत्नसंयुतः । तं जेतुं ययते स्माऽपि हीनवीर्यो बभूव ह ॥२१॥ ततो धर्मयुतांल्लोकांश्चकार स जनार्दनः । हत्वा दुष्टान्
महाघोरनानाय्य ब्राह्मणोत्तमान् ॥२२॥ एवं कृत्वांऽतर्दधेऽसौ स्तुतो देवर्षिभिर्हरिः । वैकुंठमगमत् सद्यो हर्षनिर्भरमानसः
॥२३॥ शौनक उवाच । धूम्रवर्णावताराख्यो गणेशः कलिना पुरा । युयुधे तं विजित्वा स कलिं कृतमधारयत् ॥२४॥ कल्कि-
र्विष्णुस्तथा दुष्टं कलिं जिग्ये तथाऽधुना । वर्णितं तत्र किं मुख्यं द्विविधं संशयप्रदम् ॥२५॥ सूत उवाच । महाघोरस्वरूपोऽयं