मुद्गल पुराण (अष्टावतार चरितम्)
Mudgala Puranam with Commentary
महर्षि मुद्गल द्वारा
स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)
पृष्ठ 881, कुल 1023 में से
संदर्भ में पढ़ेंखं. ८ अ. ३२ पान ७२
ॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐ
योगिनां हृदये ढुंढिर्वर्तते कथितो मया । अज्ञानिनां निराकारः पंचभूतात्मकस्तथा ॥१७॥ सगुणं निर्गुणं भिन्नं गणेशस्य
न विद्यते । नोत्पत्तिनाशाभावश्च सर्ववन्मूर्खसत्तम ॥१८॥ अयं देहयुतः प्रोक्तः स्वेच्छया देहवर्जितः । अंतर्धाय खमात्मानं
तिष्ठति योगनायकः ॥१९॥ विश्वं ब्रह्मयुतं सर्वं लयं गतं यदा मुने । ब्रह्मणस्पतिसंज्ञे च योगे तन्मयभावतः ॥२०॥ नरकुंजर-
रूपं तदभेदेन समास्थितम् । तत्प्राप्त्यर्थं विभिन्नं च भवति भक्तिलालसम् ॥२१॥ योगी योगबलेनैव भवति ब्रह्मरूपगः ।
तथापि ब्रह्मसामर्थ्यं तस्य देहे न विद्यते ॥२२॥ ब्रह्मणस्पतिशब्दार्था सत्ता गाणेशदेहके । वर्तते सर्वदा तस्मात्तं भजंते तु
योगिनः ॥२३॥ एवमुक्त्वा महायोगी विश्वामित्रः प्रतापवान् । गालवं तूष्णींभावेनाभजत्तं गणनायकम् ॥२४॥ तमुवाच
पुनः शिष्यो गालवः प्रणिपत्य च । निंद्यस्वात्मनात्मानं संशयस्यापनुत्तये ॥२५॥ गालव उवाच । अज्ञानेनावृतोऽहं त्वां
पृच्छामि मुनिसत्तम । शिष्यं तारय योगेन योगयुक्तं तथा कुरु ॥२६॥ गणेशो योगशांतिस्थो सदा योगींद्रसत्तम । कथं
देव इति ख्यातः कथितो वेदवादिभिः ॥२७॥ देवाः सत्त्वयुता नाथ नरा राजसतां गताः । तामसा असुराः प्रोक्तास्त्रिलोके
वासकारिणः ॥२८॥ एवं मे संशयं स्वामिन्नुद सर्वज्ञ ते नमः । येन संशयहीनोऽहं भजिष्यामि गजाननम् ॥२९॥
विश्वामित्र उवाच । देवाः सत्त्वगुणेनैव युक्ताः स्वर्गनिवासिनः । इंद्रादयो न संदेहस्तेष्विंद्रः परमा गतिः ॥३०॥ ब्रह्मणो
दिवसांते ते लयं गच्छंति नित्यदा । अन्ये कर्मकरा देवा भवंति मानवाः पुनः॥३१॥ कर्मणा लभते स्थानं ब्रह्मणः सृष्टिकारिणः ।
कर्मरूपः स वै प्रोक्तो न देवसमतां व्रजेत् ॥३२॥ परमेष्ठी समाख्यातः परा सेष्टिस्तदात्मिका । इष्टयास्तस्मान् परं
किंचिल्लभ्यते नैव मानवैः ॥३३॥ शिवो विष्णुस्तथा भानुः शक्तिश्चत्वार ईश्वराः । अभवन् सत्यसंकल्पाः सगुणा निर्गुणा
मुदा ॥३४॥ गणेशो ब्रह्मभूतो वै स्वेच्छाचारो महामते । एवं भेदप्रकारेण ज्ञातव्यो निश्चयार्थिभिः ॥३५॥ दिवु क्रीडात्मको
धातुः पठ्यते मुनिभिर्मुदा । सर्वत्र क्रीडनाद्देवाः कथिताः सर्वपूजिताः ॥३६॥ स्वधर्मनिष्ठजे स्वस्वकर्मणि क्रीडने रताः । देवा
इंद्रमुखास्तेन कथिताः शास्त्रवादिभिः ॥३७॥ सृष्ट्वा चराचरं सर्वं तत्र क्रीडति नित्यदा । ब्रह्मा तेन मुनींद्रैः स देव इत्यभि-
धीयते ॥३८॥ अनंतकोटिब्रह्मांडानि रचित्वा स्वमायया । शिवादयश्च चत्वारस्तेषु क्रीडंति देवकाः ॥३९॥ सत्यसंकल्प-
कत्वाद्वै ईश्वरास्ते प्रकीर्तिताः । देवाः क्रीडनभावाच्च सगुणनिर्गुणादिषु ॥४०॥ असत् सत् स मनेतीति परं सृष्ट्वा चतुर्विधम् ।
विश्वं विश्वात्मसंयुक्तं तत्र क्रीडति विघ्नपः ॥४१॥ जगत्सु ब्रह्मसु प्राज्ञैः क्रीडनाङ्गणजातिषु । देवो गणेश्वरः प्रोक्तः पश्य
ॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐ