सामग्री पर जाएँ
सर्वकोश
मुद्गल पुराण (अष्टावतार चरितम्)

मुद्गल पुराण (अष्टावतार चरितम्)

Mudgala Puranam with Commentary

महर्षि मुद्गल द्वारा

स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)

DevanagariSanskritpublished1,023 पृष्ठ

पृष्ठ 873, कुल 1023 में से

संदर्भ में पढ़ें
पृष्ठ 873

खं. ८ अ. २८ पान ६४
ब्रह्मणि। गच्छति चेत्तदान्नस्य लयस्तत्र भवत् स्वयम् ॥४३॥ तद्वत् क्रमेण योगींद्राः स्वानंदस्था भवंति हि। त्यक्त्वा
ब्रह्माणि सर्वाणि प्राणाद्यानि समाधिना ॥४४॥ तदा तेषां लयस्तत्र जायते ब्रह्मणां किल। अत उत्पत्तिनाशाभ्यां तानि
युक्तानि योगिनः ॥४५॥ उत्पत्तिनाशसंयुक्तमसद्रूपं प्रकथ्यते। अतो सन्मूलकानि स्युर्ब्रह्माणि स्वस्वमोहतः ॥४६॥
बोधसांख्यात्मके यस्माज्जायते स्वस्वरूपतः। तन्नांते योगभावेन गच्छतो लयमंजसा ॥४७॥ अतोऽसद्रूपस्वानंदो
नानाब्रह्मसु संस्थितः। सा शक्तिर्वेदवादेषु शाक्तं ब्रह्म तदुच्यते ॥४८॥ असति जीवनं यच्च सदा खंडमयं परम्। सद्रूपं
स्वस्वरूपं तदात्मा भानुः प्रकथ्यते ॥४९॥ तयोः स्रष्टा समः साक्षात् स्वानंदः परिकीर्तितः। विष्णुः स तत् प्रवेशात्तु
ब्रह्म वेदे प्रकथ्यते ॥५०॥ त्रयाणां नेति कर्ता स्वस्वाधीनोऽव्यत्तकः शिवः। चतुर्णां मंत्रसंयोगे स्वानंदः पूर्ण उच्यते ॥५१॥
चतुर्विधं प्रसृष्टं तु स्थापितं संहृतं पुरा। स्वानंदेन सदा ब्रह्म तस्मात्तन् मायया युतम् ॥५२॥ ब्रह्मणां जगतां तस्माद्भावस्तेन
प्रकथ्यते। भवप्रत्ययसंज्ञं तद्ब्रह्म यत् स्वस्वरूपकम् ॥५३॥ समाधिसंज्ञितं ब्रह्मान्वयात् सर्वत्र कीर्तितम्। भवप्रत्यय-
योगस्थं स्वस्वरूपं महौजसः ॥५४॥ ततः परमयोगाख्यं ब्रह्म मायाविवर्जितम्। मायया वर्णनं सर्वं जायते तद्विवर्जितम्
॥५५॥ मायया जगतामत्र ब्रह्मणां खेल उच्यते। तेषां संयोगभावश्चायोगे किं तैः प्रकथ्यते ॥५६॥ यद्युत्थानयुतं ब्रह्म
तदा बोधमयं भवेत्। उत्थानवर्जितं चैतद्भवेत् सांख्यविबोधगम् ॥५७॥ समाधिसंज्ञं यदि तत्तदा स्वानंद उच्यते। स्वस्य
प्रवेशनाशाद् वै किमयोगे वदत्ययम् ॥५८॥ ब्रह्म ब्रह्मणि संस्थं तन्नागतं न गतं भवेत्। व्यतिरेकात्मयोगेन गतिर्ब्रह्मणि
योगिनाम् ॥५९॥ सदा निवृत्तिसंज्ञं तद्ब्रह्म मायाविवर्जितम्। स्वस्वरूपेण हीनत्वान्निवृत्तिर्लभ्यते ततः ॥६०॥ मायाना-
शार्थमत्यंतमुपायो ह्ययमेकलः। उपायप्रत्ययाख्यं तद्ब्रह्मायोगात्मकं परम् ॥६१॥ अयोगात् परं ब्रह्म योगाख्यं शांति-
दायकम्। संयोगायोगयोर्योगे लभ्यते योगिनायकैः ॥६२॥ तदेव गणराजश्च ब्रह्मणस्पतिवाचकः। ब्रह्मणां ब्रह्मरूपः स
शांत्या योगेन लभ्यते ॥६३॥ संयोगे गणराजस्तु गकाराक्षरगो मतः। अयोगे स णकाराख्यस्तयोः पतिः प्रकथ्यते ॥६४॥
इदं वेदांतसारं यत् कथितं योगमार्गतः। तं भजध्वं महाभागा यदि शांतिं समिच्छथ ॥६५॥ गर्ग उवाच। एवमुक्त्वा
शुको योगी तूष्णीं भावेन संस्थितः। सर्वे विस्मितचित्तास्तं साधु साध्विति चाब्रुवन् ॥६६॥ निःसंशयाः कृतास्तेन त्यक्त्वा
स्वस्वमतं ततः। गणेशभजने सक्ता वयं पुत्र महामते ॥६७॥ क्रमेण शांतिमापन्ना गाणपा अभवंश्च ते। गता गणेश्वरं