मुद्गल पुराण (अष्टावतार चरितम्)
Mudgala Puranam with Commentary
महर्षि मुद्गल द्वारा
स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)
पृष्ठ 743, कुल 1023 में से
संदर्भ में पढ़ेंखं. ६ अ. ३६ पान १०२
॥ श्रीगणेशाय नमः ॥ आदिशक्तिरुवाच । कामासुरं महाशांतियुतं दृष्ट्वा सुरर्षयः । विस्मिता विकटं पूज्य तुष्टुवुः करसंपुटाः ॥१॥
देवर्षय ऊचुः । अजं पुराणं परमव्ययं च सदात्मरूपं सकलावभासम् । असद्विहीनं विविधांतरस्थं भजामहे तं विकटं परेशम् ॥२॥
अनादिमध्यांतविवर्जितं यत् सुजीवनं जीवनधर्मधारम् । सदामृतं ब्रह्म विकारहीनं भजामहे तं विकटं परेशम् ॥३॥
त्वयैव माया रचिता खबिंबात् स्वयं दधौ जीवनबिंबवीर्यम् । बभूव युक्ता रचने समर्था भजामहे तं विकटं परेशम् ॥४॥
तथा ह्यसद्रूपमयं च सांख्यं कृतं तथा ब्रह्म सुबोधरूपम् । अनंतभेदाश्रितमप्रमेयं भजामहे तं विकटं परेशम् ॥५॥
ततः स्वबोधेन कृतं च सोऽहं पवित्रमेकाश्रितमादिरूपम् । जगद्दूरं बिंदुमयं तथा वै भजामहे तं विकटं परेशम् ॥६॥
जगच्चतुष्पादमयं च ताभ्यां व्यष्ट्या समष्ट्या च युतं हि सृष्टम् । अजेषु संजीवनदं गणेशं भजामहे तं विकटं परेशम् ॥७॥
ततं त्वया भेदविहीनभावात् प्रकाशरूपेण विभासि नाथ । अनंतलीलाकरमप्रमेयं भजामहे तं विकटं परेशम् ॥८॥
अजैर्विहीनोऽसि गजानन त्वं तथाऽपि सर्वत्र विभासि भक्त्या । अतो गणेशं विकटं वदंति भजामहे तं विकटं परेशम् ॥९॥
हरिस্বরূপेण विनायक त्वं सुरक्षसीदं रजसा विधाता । तथा तमोधुक्ततया हरोऽसि भजामहे तं विकटं परेशम् ॥१०॥
प्रसृष्टकर्माणि तदंतरस्थोर्यमाऽसि संजीवनरूपकेण । क्रियास्वरूपेण तु शक्तिसंस्थो भजामहे तं विकटं परेशम् ॥११॥
सदात्मरूपेण च ढुंढिराज स्थितोऽसि विश्वंभर विश्वमूर्ते । न ते कदाचिज्जगति प्रवेशो भजामहे तं विकटं परेशम् ॥१२॥
सदादिपूज्यं सकलैः सुवंद्यं गणेशसिद्धिप्रदमासमंतात् । सुचित्तभासं गजकर्णधारं भजामहे तं विकटं परेशम् ॥१३॥
स्वानंदनाम्नि नगरे सुसंस्थं त्रिनेत्रयुक्तं मूषकोपरिस्थम् । महोदरं चैकरदं विभ्रूपं भजामहे तं विकटं परेशम् ॥१४॥
स्वभक्तपक्षेषु विराजमानं विघ्नैर्विहीनं मनसेप्सितं च । अभक्तसर्वाश्रितनाशकारं भजामहे तं विकटं परेशम् ॥१५॥
नियंतुरूपं तव हस्तसंस्थं जगत्सु नानाविधब्रह्मसु प्रभो । महांकुशं ह्यंकुशधारमेकं भजामहे तं विकटं परेशम् ॥१६॥
अमात्मकं बंधनमेकमेव तदेव पाशं प्रभुहस्तसंस्थम् । स्वभक्तिकृद्बंधनहानिकारं भजामहे तं विकटं परेशम् ॥१७॥
त्वदाश्रितानां न भयं कदाचित् सदाऽभयं ते करसंस्थितं च । प्रत्यज्य दुष्टा भयसंयुतास्ते भजामहे तं विकटं परेशम् ॥१८॥
निजामृतं विप्रपते यदन्नं जगत्सु संस्थं प्रभुहस्तगं तम् । सुमोदकं मोदकरं जनानां भजामहे तं विकटं परेशम् ॥१९॥
असन्मयी सर्वगता विभिन्ना परं सदाऽस्याश्च सुशांतिसंस्थम् । अतो वदंते विकटं जनास्त्वां भजामहे तं विकटं