सामग्री पर जाएँ
सर्वकोश
मुद्गल पुराण (अष्टावतार चरितम्)

मुद्गल पुराण (अष्टावतार चरितम्)

Mudgala Puranam with Commentary

महर्षि मुद्गल द्वारा

स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)

DevanagariSanskritpublished1,023 पृष्ठ

पृष्ठ 684, कुल 1023 में से

संदर्भ में पढ़ें
पृष्ठ 684

खं. ६ अ. १८ पान ४३
त्वेकचेतसः । चित्रं चरित्रकं वक्ष्ये मयूरे संभवं परम् ॥२१॥ वणिजो गर्दभं चैकं धृत्वा कार्यार्थमादरात् । भारेण संयुतं
चक्रुरन्नाद्यैस्तं महेश्वराः ॥२२॥ ते तं गृह्य मयूरेशं समाजग्मुः स्वकारणात् । गर्दभस्तत्र भारेण पीडितस्तु ममार ह ॥२३॥
स ब्रह्मणि तदाकारो बभूवे देवसत्तमाः। पशुजातिज एवं तु नराणां तत्र का कथा ॥२४॥ एवं क्षेत्रप्रभावेण जना नाना
महेश्वराः। सिद्धिं प्राप्ता विशेषेण मया वक्तुं न शक्यते ॥२५॥ इदं क्षेत्रभवं चित्रं चरितं शृणुयान्नरः। पठेद्यः श्रावयेद्वाऽपि
सर्वार्थं प्रलभेत सदा ॥२६॥
॥ ओमिति श्रीमदांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे षष्ठे खंडे विकटचरिते मयूरक्षेत्रमरणप्राप्तिमाहात्म्यवर्णनं नाम सप्तदशोऽध्यायः ॥
॥ श्रीगणेशाय नमः ॥ देवेशा ऊचुः । क्षेत्रस्थानां च यात्राया माहात्म्यं वद योगिप। के के मुख्या महाक्षेत्रे पूज्या लोकैर्निरं-
तरम् ॥१॥ भृशुंड्युवाच । उत्तराभिमुखो देवो गणेशः क्षेत्रमध्यगः। संस्थितस्तस्य वामांगे सिद्धिः सेवार्थमास्थिता ॥२॥
चामरैर्व्यजनैर्युक्ता नानासिद्धिसमन्विता। सेवते गणराजं सा सती भक्तिसमन्विता ॥३॥ दक्षिणांऽगे तथा बुद्धिर्विद्याभिः
संयुता स्वयम् । कलाभिश्च ससख्याः समीपे सेवने स्थिता ॥४॥ सुगंधिवस्तुभिर्युक्ता सती परमार्थवाचका। गणेशं
भावसंयुक्ता भजते नित्यमादरात् ॥५॥ पुरतो लक्षलाभौ तु भक्तिनम्रात्मकंधरौ। सेवेते तं गणाध्यक्षं नानोपचारसंयुक्तौ
॥६॥ पृष्ठभागे महादेव्यो भ्रामर्या धारका मदाः । नानाशक्तियुता देवं सेवंते भक्तिसंयुताः ॥७॥ समास्थितश्चासनाधो
गणेशस्येक्षुसागरः। कमलं सागरोत्थं तु सहस्रदलराजितम् ॥८॥ तीव्रादिशक्तिसंयुक्ते तत्र विघ्नेश्वरः सदा । तिष्ठंतीमे
हितं देवाः सेवंते रससंयुताः ॥९॥ एवं गणेश्वरः सर्वैः पूजनीयो विशेषतः । तैर्युक्तः सर्वदश्चैव भवत्यत्र न संशयः ॥१०॥
मयूराखू तत्पुरश्च संस्थितौ करसंपुटैः। तत्पुरः सिद्धयोगिन्यो नीराजयंति विघ्नपम् ॥११॥ पृष्ठभागे तथा तस्य प्रमोदाद्याश्च
सायुधाः । संस्थिता भक्तिसंयुक्ताः पूजनीया नरेण ते ॥१२॥ अथ पूर्वदिशायां तु धर्ममंडप उच्यते। तत्र विष्णुः स्वयं
साक्षात्तिष्ठति सेवनोत्सुकः ॥१३॥ सर्वान् कथयते धर्मान् गाणेशान् तत्र संस्थितः। गाणपत्यप्रियत्वात् स पूजनीयो विशेषतः