सामग्री पर जाएँ
सर्वकोश
मुद्गल पुराण (अष्टावतार चरितम्)

मुद्गल पुराण (अष्टावतार चरितम्)

Mudgala Puranam with Commentary

महर्षि मुद्गल द्वारा

स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)

कॉपीराइट समस्या बताएँ

DevanagariSanskritpublished1,023 पृष्ठ

पृष्ठ 681, कुल 1023 में से

संदर्भ में पढ़ें
पृष्ठ 681
पृष्ठ 681 स्कैन

यहाँ पृष्ठ की सामग्री का अक्षरशः लिप्यंतरण (लाइन नंबर सहित), अन्वय, विस्तृत सरल हिन्दी अनुवाद एवं कथानुवाद प्रस्तुत है:


मूल पाठ (चित्रानुसार पंक्तियाँ):

खं. ६ अ. १६ $\qquad\qquad\qquad\qquad\qquad\qquad\qquad\qquad\qquad\qquad\qquad\qquad$ पान ४०

वैश्योऽपि चतुःषष्टिश्च योगिनीः ॥५१॥ ततः श्रमेण संयुक्तः पुनर्गणपतिं ययौ । पूजयित्वा जगामाऽसौ यथेष्टं विषय-
प्रियः ॥५२॥ ततो बुद्धिश्च वैश्यस्य विपरीता बभूव ह । तया युक्तो महेशान विचारमकरोद् हृदि ॥५३॥ मया विषय-
युक्तेन कृतं कर्म भयावहम् । का गतिर्मरणे मे तु भविष्यति सुदारुणा ॥५४॥ अहो क्षेत्रस्य माहात्म्यं मया वक्तुं न
शक्यते । विपरीता मतिर्जाता ममापि दुष्टचेतसः ॥५५॥ योगिनीनां दर्शनेन शुद्धचित्तो भवेन्नरः । योगप्रियस्तथाऽहं
वै जातः सत्यं च शास्त्रगम् ॥५६॥ योगिनीसंयुतं ढुण्ढिं वैश्यः स्वधर्ममास्थितः । अभजन्नित्यमानंदान्निंदयन् विषयान्
सदा ॥५७॥ अंते जगाम कैलासे गणेशे कामनायुतः । तत्र भुक्त्वा महाभोगान् पुनः पपात भूतले ॥५८॥ मयूरक्षेत्रगो
भूत्वा क्षत्रियो धर्मसंयुक्तः । क्षेत्रसंन्यासभावेन विघ्नेशमभजत् सदा ॥५९॥ अंते विघ्नेश्वरः सोऽपि ब्रह्मभूतो बभूव ह ।
पूर्वसंस्कारभावेन योगसिद्धो महेश्वराः ॥६०॥ एवं नाना जनास्तत्र ययुः सिद्धिमनुत्तमाम् । तत्रैवं कति वो ब्रूयां संख्यातुं
न प्रशक्यते ॥६१॥ अतः परं प्रवक्ष्यामि संपूर्णां तु महेश्वराः । गर्भागाराश्रितां यात्रां परां माहात्म्यसंयुताम् ॥६२॥
आत्रेयो ब्राह्मणः कश्चित् पुरा मूर्खो बभूव ह । पितरौ संमृतौ तस्याऽनाथो बभ्राम भूतले ॥६३॥ विषयेषु विशेषेण
प्रीतियुक्तस्तथाऽमराः । भ्रमन् समागतः सोऽपि मयूरे दैवगौरवात् ॥६४॥ तत्र कश्चिद् द्विजः सुज्ञः सेवार्थं क्षेत्रगोऽभवत् ।
तं गृह्य ब्राह्मणो गर्भागारयात्रां चकार ह ॥६५॥ संसर्गेण द्विजस्याऽसौ यात्रां चकार दुष्टधीः । स्वयं विद्यानिधिर्जातो
यथाऽन्ये ब्राह्मणास्तथा ॥६६॥ पूर्वद्वारं समालोक्य दक्षिणस्थं जगाम ह । तत्र मार्गे पपाताऽसौ तथापि द्वारगोऽभवत् ॥६७॥
प्रमोदादीन् समालोक्य विषये निःस्पृहोऽभवत् । पश्चिमे सिद्धिमालोक्य भाग्ययुक्तो महेश्वरः ॥६८॥ योगिनींस्तत
आलोक्य पुण्यशीलो बभूव ह । एवं यात्रां सकृत् कृत्वा पुनः स्वगृहगोऽभवत् ॥६९॥ ततो द्विजं प्रणम्याऽसौ स्वदेशं तु
जगाम ह । तं तादृशं विलोक्यैव विस्मिताः सुहृदोऽभवन् ॥७०॥ विवाहं कारयामासुः सुहृदस्तस्य धीमतः । स गणेशं
विचिंत्यैवाऽभजद्धर्माश्रितं तदा ॥७१॥ अंते कैलासगो भूत्वा गणेशं तत्र चाभजत् ।

इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ

पृष्ठ का स्कैन सभी के लिए निःशुल्क है।

खाता बनाएँ या साइन इन करें